तृतीय सर्ग - श्लोक ६१ ते ८३
श्रीविद्यारण्यस्वामिविरचितः
प्रतिष्ठमाने दयिते वरेऽस्मि -
न्नुपेत्य मातापितरौ वरायाः ॥
आभाषिषातां शृणु सावधानो
बालेव बाला न तु वेत्ति किंचित् ॥६१॥
बालैरियं क्रीडति कन्दुकाद्यै -
र्जातक्षुधा गेहमुपैति दुःखात् ॥
एकेति बाला गृहकर्म नोक्ता
संरक्षणीया निजपुत्रितुल्य ॥६२॥
बालेयमङ्ग वचनैर्मृदुभिर्विधेया
कार्या न रूक्षवचनैर्न करोति रुष्टा ॥
केचिन्मृदूक्तिवशगा विपरीतभावाः
केचिद्विहातुमनलं प्रकृतिं जनो हि ॥६३॥
कश्चिद्द्विजातिरधिगम्य कदाचिदेना -
मुद्वीक्ष्य लक्षणमवोचदनिन्दितात्मा ॥
मानुष्यमात्रजननं निजदेवभावे -
त्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥६४॥
सर्वज्ञतालक्षणमस्ति पूर्ण -
मेषा कदाचिद्वदतोः कथायाम् ॥
तत्साक्षिभावं व्रजिताऽनवद्या
संदिश्य नावेवमसौ जगाम ॥६५॥
श्वश्रूर्वराया वचनेन वाच्या
स्नुषाभिरक्षाऽऽयतते हि तस्याम् ॥
निक्षेपभूता तव सुन्दरीयं
कार्या गृहे कर्म शनैः शनैस्ते ॥६६॥
वाल्येषु बाल्यात्सुलभोऽपराधः
स नेक्षणीयो गृहिणीजनेन ॥
वयं सुधीभूय हि सर्व एव
पश्चाद्गुरुत्वं शनकैः प्रयाताः ॥६७॥
दृष्ट्वाऽभिधातुमनलं च मनोऽस्मदीयं
गेहाभिरक्षणविधौ नहि दृश्यतेऽन्यः ॥
दृष्ट्वाऽभिधानफलमेव यथा भवेन्नौ
ब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८॥
वत्से त्वमद्य गमिताऽसि दशामपूर्वां
तद्रक्षणे निपुणधीर्भव *सुभ्रु नित्यम् ॥
कुर्यान्न बालविहृतिं जनतोपहास्यां
सा नाविवापरमियं परितोषयेत्ते ॥६९॥
पाणिग्रहात्स्वाधिपती समीरिती
पुरा कुर्मायाः पितरौ ततः परम् ॥
पतिस्तमेकं शरणं व्रजानिशं
लोकद्वयं जेष्यसि येन दुर्जयम् ॥७०॥
पत्यावभुक्तवति सुन्दरि मा स्म भुङ्क्ष्व
याते प्रयातमपि मा स्म भवेद्विभूषा ॥
पूर्वापरादिनियमोऽस्ति निमज्जनादौ
वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥७१॥
रुष्टे धवे सति रुषेह न वाच्यमेकं
क्षन्तव्यमेव सकलं स तु शाम्यतीत्थम् ॥
तस्मिन्प्रसन्नवदने चकितेव वत्से
सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥७२॥
भर्तुः समक्षमपि तद्वदनं समीक्ष्य
वाच्यो न जातु सुभगे परपूरुषस्ते ॥
किं वाच्य एष रहसीति तवोपदेशः
शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥७३॥
आयाति भर्तरि तु पुत्रि विहाय कार्य -
मुत्थाय शीघ्रमुदकेन पदावनेकः ॥
कार्यो यथाभिरुचि हे सति जीवनं वा
नोपेक्षणीयमणुमात्रमपीह कं ते ॥७४॥
धवे परोक्षेऽपि कदाचिदेयु -
र्गृहं तदीया अपि वा महान्तः ॥
ते पूजनीया बहुमानपूर्वं
नो चेन्निराशाः कुलदाहकाः स्युः ॥७५॥
पित्रोरिव श्वशुरयोरनुवर्तितव्यं
तद्वन्मृगाक्षि सहजेष्वपि देवरेषु ॥
ते स्रेहिनो हि कुपिता इतरेतरस्य
योगं विभिद्युरिति मे मनसि प्रतर्कः ॥७६॥
हितोपदेशे विनिविष्टमानसौ
वधूवरौ राजगृहं समीयतुः ॥
लब्धानुमानौ गुरुबन्धुवर्गतो
बभूव संज्ञोभयभारतीति ॥७७॥
सा भारती दुर्वसनेन दत्तं
पुनः प्रसन्नेन पुराऽऽत्तहर्षा ॥
शापावधिं संसदि वर्त्स्थते य -
त्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥७८॥
स भारतीसाक्षिकसर्ववित्त्वोऽ -
प्यात्मीयशक्त्या शिशुवद्विमातः ॥
स्वशैशवस्योचितमन्वकाङ्क्षी -
त्व केशवो यद्वदुदारवृत्तः ॥७९॥
शैशवे स्थितवता चपलाशे
शार्ङ्गिणेव वटवृक्षपलाशे ॥
आत्मनीदमखिलं विलुलोके
भाविभूतमपि यत्खलु लोके ॥८०॥
तं ददर्श जनताऽद्भुतबालं
लीलयाऽधिगतनूतनदोलम् ॥
वासुदेवमिव वामनलीलं
लोचनैर्निमिषैरनुवेलम् ॥८१॥
कोमलेन नवनीरदराजि -
श्यामलेन नितरां समराजि ॥
केशवेशतमसाऽधिकमस्य
केशवेशचत्रास्यसमस्य ॥८२॥
शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैर्वैष्णवै -
रप्यन्यैरखिलैः खलेः खलु खिलं दुर्वादिभिर्वैदिकम् ॥
पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परीक्रीडते
घोरे संसृतिकानने विचरतां भद्रंकरः शंकरः ॥८३॥
इति श्रीमाधवीये तत्तद्देवावतारार्थकः । संक्षेपशंकरजये तृतीयः सर्ग आभवत् ॥३॥
N/A
References : N/A
Last Updated : May 19, 2017
TOP