कुसुमायुधाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
ततो मुनीन्द्रमामन्त्र्य विलङ्घ्य विकटाटवीम् ।
बहूपवाससंतप्ताः प्राप्ता वयमिमां भुवम् ॥१॥
इहाप्यस्य तरोर्भुक्त्वा फलानि फलतां गताः ।
मुक्तास्त्वद्दर्शनात्सर्वे पश्यामस्त्वामनामयम् ॥२॥
व्याघ्रसेनेन कथितां कथां श्रुत्वेति विस्मितः ।
मृगाङ्कदत्तः प्रययौ नत्वा हेरम्बपादपम् ॥३॥
विन्ध्याटवीमतिक्रम्य श्रुतधिप्रमुखैः सह ।
विन्ध्यशैलं परित्यज्य तथा गन्धवतीं नदीम् ॥४॥
करवीरं समासाद्य भूतवेतालसंकुलम् ।
महाकालं प्रणम्याशु ददर्शोज्जयिनीम निशि ॥५॥
पूर्णेन्दुविहितालोकैस्तां पुरीं वीक्ष्य दुर्गमाम् ।
दुर्गयन्त्रायुधोपेतां सुभटैः परिपालिताम् ॥६॥
संकल्पैरप्यनाधृष्यामलङ्घ्यां मारुतैरपि ।
अचिन्तयत्स सचिवैस्तां शशाङ्कवतीं स्मरन् ॥७॥
राजा कन्दर्पसेनोऽयं रक्तामात्यो महाधनः ।
इयं पुरी च दुर्भेद्या नात्रोपायः प्रगल्भते ॥८॥
अयं मे विपुलः क्लेशः प्रायो निष्फलतां गतः ।
अधन्यैः प्राप्यते नाम सा शशाङ्कवती कथम् ॥९॥
इति ध्यात्वा नृपसुतः स्मरशोकाकुलोऽभवत् ।
ततः सस्मार वेतालं तत्र विक्रमकेसरी ॥१०॥
[उपस्थितः स वै ध्यातः किं करोमीत्यभाषत ।
कथयामास च पुनः कथमाश्चर्यशालिनीम् ॥११॥
सखे मन्दर्पनामाहं विप्रो रत्नपु.................. ।
प्रावषेण्यधनश्यामे काले यातो महाटवीम् ॥१२॥
तत्राथ मतिचक्रेण केलिसङ्केतमानिना ।
स प्रासादं विलोक्यैव नीतोऽहं व्योमगामिना ॥१३॥
क्कचिद्द्विजालयोपान्ते मां विधाय गतास्तथा ।
देवीषु द्विजकन्यायास्तत्रोद्वाहमहोत्सवे ॥१४॥
लग्ने पूर्वाशके प्राप्ते वरे दैवाङ्गनागते ।
सह्यो विभूषणजुषे मह्यं कन्यां ददुर्द्विजाः ॥१५॥
अहं स मानसां नाम तामवापं मनोभुवः ।
हरनेत्राग्निदग्धस्य निर्बापणनदीमिव ॥१६॥
तया प्रणयशालिन्या यावत्प्राप्तोऽस्मि निर्वृतिम् ।
समेत्य मतिचक्रेण नीतस्तावद्विहायसा ॥१७॥
द्वितीये देवताचक्रे व्योमप्राप्तेऽथ तत्पुरः ।
संप्रवृत्ते च तद्युद्धे पतितोऽहं त्वदन्तिकात् ॥१८॥
न जाने चन्दवदना सा क्कस्ते का च भूरियम् ।
अत्युक्त्वा बाष्पसंपूर्णलोचनस्तं मुहुर्मुहुः ।
समाश्वास्य ययौ प्रातस्तेनैव सहितः शनैः ॥१९॥
ततो दूरतरं गत्वा मीनान्ददृशतुर्जनैः ।
विनिकृतान्महाकायान्निर्गतान्तौ वराङ्गनाम् ॥२०॥
संत्रासविह्वलां बालां तां दृष्ट्वा हरिणेक्षणाम् ।
प्रत्यभिज्ञाय कन्दर्पः पप्रच्छाशु सुमानसाम् ॥२१॥
किमिदं चन्द्रवदने स्वप्नतुल्यं विचेष्टितम् ।
इति पृष्टावदद्बाला कन्दर्पं सा विलज्जिता ॥२२॥
अयि त्वयि हृते नाथ तदा तैः खेचरेर्गणैः ।
इयं विरहदुःखार्ता निमग्ना वाहिनीजले ॥२३॥
निगीर्णा तेन मत्स्येन ततः केनाद्य मोचिता ।
कथं वेत्ति न जानेऽहं प्रमाणमधुना भवान् ॥२४॥
इति श्रुत्वेव सोत्कण्ठां कण्ठे जग्राह तां प्रियाम् ।
कन्दर्प इव कन्दर्पो विललास रतिं.................. ॥२५॥
सुमानसायास्त्द्देशनिवासी मातुलो द्विजः ।
यक्षस्वामी निनायाशु हृष्टस्तां स्वगृहं ततः ॥२६॥
दयितासंगतं दृष्ट्वा कन्दर्पं तत्र केसटः ।
विश्वस्य तां रूपवतीं सस्मार विरहातुरः ॥२७॥
यज्ञस्वामी तमालोक्य वियोगं त्वङ्गतापितम् ।
उवाच मा कृथाः शोकमचिरात्प्राप्स्यसि प्रियाम् ॥२८॥
अभूच्चण्डपुरे विप्रः सोमस्वामीति विश्रुतम् ।
बभूव तनया तस्य दक्षा कमललोचना ॥२९॥
दृष्टिबद्धानुरागैव सा सौन्दर्यविशेषकम् ।
कुसुमायुधनामानं द्विजपुत्रमचिन्तयत् ॥३०॥
सा तं सखीमुखेनाह मामद्यैव निशामुखे ।
तयान्यथाह तातेन वितीर्णा.............तद्वशा ॥३१॥
इत्यर्थितस्तया हृष्टो मित्रमश्वतयीसुतम् ।
स विसृज्य जहाराशु गूढां कमललोचनाम् ॥३२॥
अविनीताभिधानोऽथ नीत्वा तां स्तबकस्तनीम् ।
मित्रद्रोहोद्यतः प्राह तां मन्मथशराहताम् ॥।३३॥
भज मामनवद्याङ्गि विक्लीबं कुसुमायुधम् ।
मद्वाहुबलमाश्रित्य स सर्वत्र प्रगल्भते ॥३४॥
इति सा सहसैवोक्ता तेन.............. ।
प्रच्छाद्य प्राह कोदोषस्त्वं ममाभ्यधिकः प्रियः ॥३५॥
किंतूचितविधानेन त्वयोद्वाहमहं भजे ।
आनयोत्सवसामग्रीं त्वं विक्रीयाङ्गुलीयकम् ॥३६॥
इति श्रुत्वा गते तस्मिंस्ततः कमललोचना ।
विवेश त्रासात्स्वधिया मालाकारनिवेशनम् ॥३७॥
सोऽपि प्रतिनिवृत्तोऽथ तामदृष्ट्वा विषण्णधीः ।
कुसुमायुधमभ्येत्य सानायातेत्यभाषत ॥३८॥
ततो विरहसंतप्तो दुःखितः कुसुमायुधः ।
बभ्राम विपुलोच्छ्वासो विवशेनेव वक्षितः (?) ॥३९॥
ततः कदाचिदुद्याने मालाकारगृहान्तिके ।
तां कान्तां प्रत्यभिज्ञाय कृतोद्वाहो मुदं ययौ ॥४०॥
स तां रतिमिव प्राप्य प्रहृष्टः कुसुमायुधः ।
नवसंभोगसाम्राज्यं भेजे लीलावतीसखः ॥४१॥
इति कुसुमायुधाख्यायिका ॥२९॥
N/A
References : N/A
Last Updated : October 25, 2017
TOP