शशाङ्कवतीलम्बको नाम
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इत्थं देवी प्रणयिना लब्ध्वा त्वं जगतीभुजा ।
तं पूर्वसाधितं प्राह स्वैरं विक्रमकेसरी ॥६३॥ ]
कन्दर्पसेनतनयां गुप्तान्तःपुरसुन्दरीम् ।
सखे मृगाङ्कदत्ताय खेचर क्षिप्रमानय ॥६४॥
श्रुत्वेत्युवाच वेतालो महाकालाभिपालिते ।
देशे न प्रभवामोऽस्मिन्वयं तद्वरदुर्जये ॥६५॥
इति वादिनि वेताले तद्विसृष्टे तिरोहिते ।
मृगाङ्कदत्तः सचिवैः प्राप्तकालमचिन्तयत् ॥६६॥
स्वयं ततो महामात्यो गत्वा विन्ध्यनिवासिनः ।
दूरं दुर्गपिशाचस्य मातङ्गाधिपतेः पुरम् ॥६७॥
संगम्य मायाबटुना विधाय बलसंग्रहम् ।
ततः किरातमानाय्य सुहृदं शक्तिरक्षितम् ॥६८॥
दशयोजनविस्तारकटकं बन्धुबन्धुरः ।
पूर्वं ययाचे दूतेन सुतामुज्जयिनीपतिम् ॥६९॥
तं सामविमुखं ज्ञात्वा दृप्तं समरसंमुखम् ।
जेतुं राजसुथ सैन्यैः प्रतस्थे सागरोपमैः ॥७०॥
अवाप्यावन्तिविषयं विष्टभ्योज्जयिनीं ततः ।
मृगाङ्कदत्तः शुशुभे लङ्कामिव रघूद्वहः ॥७१॥
कोपात्कन्दर्पसेनेऽथ निर्गते युद्धदुर्मदे ।
ररास भूमिपालानां समरारम्भदुन्दुभिः ॥७२॥
करालकरवालोर्मिभीषणे रणसागरे ।
सावेगं शूरमकरा वाहिन्यां विविशुर्मिथः ॥७३॥
ततो वीरशिरःपद्मैराकीर्णाभूद्वसुंधरा ।
सरसीवास्तकल्लोला गजक्रीदानिपातिता ॥७४॥
स संप्रहारस्तुमुलो बभूव सुभटैः कृतः ।
लीलामहोत्सवो मृत्योरच्छिन्नो दिनपञ्चकम् ॥७५॥
ततः श्रुतधिरभ्येत्य गूढं वीक्ष्य रिपोः रिपोः पुरीम् ।
मृगाङ्कदत्तमवदन्नयोपायविचक्षणः ॥७६॥
अस्मिन्प्रवीरसंहारे जयो युद्धे ससंशयः ।
तस्माद्युक्तिमुपाश्रित्य यत्नः सिद्धौ विधीयताम् ॥७७॥
मया प्रच्छन्नवेषेण विचितेयं रिपोः पुरी ।
दृष्ट्वा च प्रमदोत्याने तां शशाङ्कवतीं स्वयम् ।
हृत्वा तामेव गच्छामस्तुरङ्गैः शीघ्रगामिभिः ॥७८॥
मृगाङ्कदत्तः श्रुत्वेति तथेति प्राह सादरः ।
धीमानेकः सहायोऽस्ति बहूनामुदयश्रिये ॥७९॥
अत्रान्तरे सखीवाक्यात्स्मररूपं नृपात्मजम् ।
श्रुत्वा तं राजतनया बभूव मदनातुरा ॥८०॥
सा मन्मथव्यथाक्रान्ता गत्वा गौरीवनं निजम् ।
निशि चन्द्रोदये चक्रे रमणाभिमुखं मनः ॥८१॥
स्वैरं मृगाङ्कदत्तोऽथ सचिवैः सह तां भुवम् ।
समेत्यालोकयामास सोत्कण्ठस्तां मृगीदृशम् ॥८२॥
वक्त्रौपम्येन शशिनः सौन्दर्येण मनोभुवः ।
कान्त्या पुरसुधायाश्च सृजन्तीमिव जीवितम् ॥८३॥
कटाक्षशकलापातवशीकृतजगत्त्रयम् ।
आनाय्यासितचापस्य कामिन्येव जयश्रियम् ॥८४॥
बालां प्रवाललावण्यसोदरैरधरांशुभिः ।
रागदीक्षामिव नवां दिशन्तीमनिशं दिशाम् ॥८५॥
तन्वीं स्तनस्तबकिनीमारक्तकरपल्लवाम् ।
श्यामां यौवनदर्पेण वसन्तेनेव भूषिताम् ॥८६॥
विलोकितैः कृष्णसारैः सभृङ्गैरिव केतकैः ।
सलीलरत्नहारैर्वा पूजयन्तीं दिगन्तरम् ॥८७॥
वहन्तीं त्रिवलीकूपे श्यामलां रोमवल्लरीम् ।
निजवक्रशशाङ्कस्य लक्ष्मरेखामिव च्युताम् ॥८८॥
रतिपर्यङ्कपट्टेन स्मरसिंहासनेन च ।
मदशैलनितम्बेन नितम्बेन विराजिताम् ॥८९॥
तामथ स्मरसंतापात्पाशं बद्धु समुद्यताम् ।
अदृश्या पार्वती प्राह पुत्रि मा साहसं कथाः ॥९०॥
आसन्न एव ते भर्ता धन्यः प्राग्जन्मवल्लभः ।
इति गौर्या कृताश्वासां राजपुत्रो जगाद ताम् ॥९१॥
अयि बाले कुरङ्गाक्षि मदनोद्यानचन्द्रिके ।
दृशा विकिर पीयूषं यातु चन्द्रो विलज्जताम् ॥९२॥
श्रुत्वेति लज्जिता तन्वी चरणेन लिलेख सा ।
महीं साचीकृतापाङ्गी वीक्ष्यमाणा नृपात्मजम् ॥९३॥
वशे तवैव मत्प्राणा वदन्तीमिव सुन्दरीम् ।
तां जहार ततः सोऽश्वैः संकल्पैरिव शीघ्रगैः ॥९४॥
मायाबटुपुरं प्राप्य सुहृद्भिः सहितोऽथ सः ।
पुलिन्दसुन्दरीवृन्दैर्हर्षादालोकितोऽविशत् ॥९५॥
कन्दर्पसेनस्तेनाथ विज्ञाय तनयां हृताम् ।
निष्कारणरणायासं वारयामास मन्दधीः ॥९६॥
ततः प्रतिनिवृत्तास्ते किरातेन्द्रमुखा नृपाः ।
मृगाङ्कदत्तमासाद्य न््दुर्जयशालिनः ॥९७॥
अथायोध्याधिनाथाय पित्रे भीमपराक्रम म् ।
स प्राहिणोत्कथयितुं निजवृत्तान्तमादरात् ॥९८॥
यदैव मन्त्रिवचसा तेन निर्वासितः पुरात् ।
ततस्तदैव सोऽज्ञासीन्मिथ्यादूषितमेव तम् ॥९९॥
स निगृह्य महामात्यं त्यक्त्वा राज्यसुखश्रियम् ।
नन्दिग्रामे स्थितिं चक्रे पुत्र संदर्शनाशया ॥१००॥
सोऽथ कालेन विज्ञाय सूनोः सुहृदमागतम् ।
पप्रच्छ हृष्टस्तद्वृत्तं सर्वं भीमपराक्रम म् ॥१०१॥
धीमानमरदत्तेन राज्ञा पृष्टो जगाद सः ।
मृगाङ्कदत्तचरितं संसारे विपुलाद्भुतम् ॥१०२॥
तदाकर्ण्य सहामात्यः स पुनः प्राप्य जीवितम् ।
राजा द्रष्टुं ययौ पुत्रं गजवाजिरथाकुलः ॥१०३॥
मायाबटुपुरं प्राप्य संप्राप्तविजयं सुतम् ।
शशाङ्कवत्या सहितं दृष्ट्वाश्चर्यमयोऽभवत् ॥१०४॥
मृगाङ्कदत्तो जनकं प्रणम्य सह राजभिः ।
स्थित्वा तत्रोत्सवव्यग्रः कंचित्कालं प्रियासखः ॥१०५॥
अयोध्यां प्रययौ हृष्टो विजयी सचिवैः सह ।
पुरा कपीन्द्रसहितः सीतां प्राप्येव राघवः ॥१०६॥
राजधानीं प्रविश्याथ पूजयन्निखिलान्नृपान् ।
प्रणम्य मान्यान्विदुषो भेजे स विपुलोत्सवम् ॥१०७॥
तैरेकादशभिर्मित्रैः श्रुतधिप्रमुखैर्बभौ ।
दिवाकर इव श्रीमान्द्वादशात्मा नृपात्मजः ॥१०८॥
ततः कन्दर्पसेनेन विसृष्टस्तनयः स्वयम् ।
सुखेणाभ्याययौ कर्तुं स्वसुः परिणयोत्सवम् ॥१०९॥
सुवर्नरत्नशकटैर्गजेन्द्ररथवाजिभिः ।
स राजपुत्रो विदधे विपुलारम्भमुत्सवम् ॥११०॥
निर्वर्तितविवाहेऽस्य गौर्येव शशिशेखरः ।
शशाङ्कवत्या विहितो मृगाङ्कः पूर्णमङ्गलः ॥१११॥
ततो महोत्सवोत्साहसुभगां सोऽभजत्स्थितिम् ।
वल्लभानवसंभोगसंभावितमनोभवः ॥११२॥
तमामन्त्र्य प्रयातेषु पूजितेषु नृपेष्वथ ।
श्रीमानमरदत्तोऽपि संक्रामय्यात्मजे श्रियम् ॥११३॥
देव्या सह ययौ शंभोः प्रियां वाराणसीं पुरीम् ।
वैराग्यलक्ष्मेपर्यन्ते महतामेव जायते ॥११४॥
मृगाङ्कदत्तो निखिलां वीरो जित्वा वसुंधराम् ।
प्रियविलासरसिकः सार्वभौमोऽभवन्नृपः ॥११५॥
सा शशाङ्कवती श्यामा स्फुरत्तरलतारका ।
तस्य राजचकोरस्य बभूवानन्दनिर्भरा ॥११६॥
एवं मृगाङ्कदत्तेन प्राप्ता त्रैलोक्यसुन्दरी ।
त्वमपि प्राप्स्यसि क्षिप्रं रम्यां मदनमुञ्चुकाम् ॥११७॥
इति निशम्य पिशङ्गजटोदितां विपुलकौतुकहर्षमयीं कथाम् ।
प्रियतमापरिरम्भमनोरथे हृदि बबन्ध धृतिं नरवाहनः ॥११८॥
इति शशाङ्कवतीविवाहः ॥३१॥
इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां शशाङ्कवतीलम्बको नाम नवमः समाप्तः ।
N/A
References : N/A
Last Updated : October 25, 2017
TOP