संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|तृतीयो गुच्छः| केसटाख्यायिका तृतीयो गुच्छः कुसुमायुधाख्यायिका केसटाख्यायिका कलिङ्गसेनालाभवर्णनम् शशाङ्कवतीलम्बको नाम केसटाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत केसटाख्यायिका Translation - भाषांतर त्वमप्येवं रूपवतीमवाप्स्यसि सखीप्रियाम् । यक्षस्वामी निगद्येति सान्त्वयामास केसटम् ॥४२॥ ततः सुमानसा तौ च दैवात्कन्दर्पकेसटौ । स्वपुरं प्रस्थिता गन्तुं गजेन्द्रं ददृशुः पथि ॥४३॥ तद्भयाद्विप्रयोगोऽभून्मिथस्तेषां तदा वने । अत्यन्तसुखलेशो हि बहुदुःखो भवाम्बुधिः ॥४४॥केसटोऽप्यथ संप्राप्य शोचन्वाराणसीं शनैः । कन्दर्पं प्राप्य कालेन विरहक्षामविग्रहम् ॥४५॥ सुमानसाभिर्देवीभिः कन्दर्पः कृपया वनान् । .........न्यरत्नपुरे ताभिर्भर्तुः कुलगृहे सतीम् ॥४६॥ रत्ना..........नगवीं नाम ज्येष्ठां कन्दर्पवल्लभाम् । तद्वियोगानलाक्रान्तां वह्निपाते समुद्यताम् ॥४७॥ सुमानसा निजकथां कथयित्वा प्रियो मतः । ध्रुवं समेष्यतीत्युक्त्वा तां सपत्नीमवारयत् ॥४८॥ अत्रान्तरे रूपवती तदा वृद्धद्विजालये । कुरूपं वीक्ष्य तत्पुत्रं पितुरेवाययौ गृहम् ॥४९॥ कालेन तत्र विरहक्षामौ दैवादथागतौ ।कन्दर्पकेसटौ दृष्ट्वा सुधार्द्रेवाभवज्झषात् ।५०॥ प्रत्यभिज्ञाय तां कान्तां केसटः प्राप्य सुन्दरीम् । तस्थावाश्वासयंस्तत्र कन्दर्पं विरहातुरम् ॥५१॥रूपवत्या स ते सख्याः परिणीयैव केसटः । लेखहारकसंदेशाज्ज्ञात्वा रत्नपुरे स्थिताम् ॥५२॥ सुमानसां विरहिणीं तां कन्दर्पपितुर्गृहे । तूर्णं तत्सहितः प्रायात्केसटो वल्लभासखः ॥५३॥ कन्दर्पः स्वगृहं प्राप्य समासाद्य सुमानसाम् । तां चानङ्गवतीं कान्तां विललास सुहृद्वर(?) ॥५४॥ प्रियाविरहितो गत्वा ताम्रलिप्तां च केसटः । विजहार स्वभवने संस्मरन्विरहानलम् ॥५५॥ इति केसटाख्यायिका ॥३०॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP