संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| द्वितीयोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - द्वितीयोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्वितीयोऽध्यायः Translation - भाषांतर वैशम्पायन उवाचस सृष्टासु प्रजास्वेवमापवो वै प्रजापतिः ।लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम् ॥१॥आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।धर्मेणैव महाराज शतरूपा व्यजायत ॥२॥सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत ॥३॥स वै स्वायम्भुवस्तात पुरुषो मनुरुच्यते ।तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते ॥४॥वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत ।प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत ॥५॥काम्या नाम महाबाहो कर्दमस्य प्रजापतेः ।काम्यापुत्रास्तु चत्त्वारः सम्राट्कुक्षिर्विराट् प्रभुः ।प्रियव्रतं समासाद्य पतिं सा सुषुवे सुतान् ॥६॥उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।उत्तानपादाच्चतुरः सूनृताजनयत् सुतान् ॥७॥धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा ॥८॥ध्रुवं व कीर्तिमन्तं च शिवं शान्तमयस्पतिम् ।उत्तानपादोऽजनवॉय्त् सूनृतायां प्रजापतिः ॥९॥ध्रुवो वर्षसहस्त्राणि त्रीणि दिव्यानि भारत ।तपस्तेपे महाराज प्रार्थयन् सुमहद् यशः ॥१०॥तस्मै ब्रह्मा ददौ प्रीतः स्थानमप्रतिमं भुवि ।अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः ॥११॥तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य च ।देवासुराणामाचार्यः श्लोकमप्युशना जगौ ॥१२॥अहोऽस्य तपसो वीर्यमहो श्रुतमहो बलम् ।यदेनं पुरतः कृत्वा भुवं सप्तर्षयः स्थिताः ॥१३॥तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत ।श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥१४॥रिपुं रिपुञ्जयं पुण्यं वृकलं वृकतेजसम् ।रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्॥१५॥अजीजनत् पुष्करिण्यां वीरण्यां चाक्षुषो मनुम् ।प्रजापतेरात्मजायामरण्यस्य महात्मनः ॥१६॥मनोरजायन्त दश नड्वलायां महौजसः ।कन्यायामभवञ्छ्रेष्ठा वैराजस्य प्रजापतेः ॥१७॥ऊरुः पुरुः शतद्युम्नस्तस्तपस्वी सत्यवान् कविः ।अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥१८॥अभिमन्युश्च दशमो नड्वलायाः सुताः स्मृताः ।ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् ।अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥१९॥अङ्गात् सुनीथापत्यं वै वेनमेकमजायत ।अपचारात्तु वेनस्य प्रकोपः सुमहानभूत् ॥२०॥प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ।वेनस्य पाणौ मथिते बभूव मुनिभिः पृथुः ॥२१॥तं दृष्ट्वा ऋषयः प्राहुरेष वै मुदिताः प्रजाः ।करिष्यति महातेजा यशश्च प्राप्स्यते महत् ॥२२॥स धन्वी कवची खड्गी तेजसा निर्दहन्निव ।पृथुर्वैन्यस्तदा चेमां ररक्ष क्षत्रपूर्वजः ॥२३॥राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः ।तस्माच्चैव समुत्पन्नौ निपुणौ सुतमागधौ ॥२४॥तेनेयं गौर्महाराज दुग्धा सस्यानि भारत ।प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह ॥२५॥पितृभिर्दानवैश्चैव गन्धर्वैः साप्सरोगणैः ।सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ॥२६तेषु तेषु च पाशेषु दुह्यमाना वसुन्धरा ।प्रादाद् यथेप्सितं क्षीरं तेन प्राणानधारयन् ॥२७॥पृथुपुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिपालितौ ।शिखण्डिनी हविर्धानमन्तर्धानाद व्यजायत॥२८॥हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ।प्राचीनबर्हिषं शुक्लं गयं कृष्णं व्रजाजिनौ ॥२९॥प्राचीनबर्हिर्भगवान् महानासीत्प्रजापतिः ।हविर्धानान्महाराज येन संवर्द्धिता प्रजाः ॥३०॥प्राचीनाग्राः कुशास्तस्य पृथिव्यां जनमेजय ।प्राचीनबर्हिर्भगवान् पृथिवीतलचारिणः ॥३१॥समुद्रतनयायां तु कृतदारोऽभवत्प्रभुः ।महतस्तपसः पारे सवर्णायां महीपतिः ॥३२॥सवर्णाऽऽधत्त सामुद्री दश प्राचीनबर्हिषः ।सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥३३॥अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ।दशवर्षसहस्राणि समुद्रसलिलेशयाः ॥३४॥तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः ।अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥३५॥नाशकन्मारुतो वातुं वृतं खमभवद् द्रुमैः ।दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥३६॥तदुपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः ।मुखेभ्यो वायुमग्निं च तेऽसृजञ्जातमन्यवः ॥३७॥उन्मूलानथ तान्कृत्वा वृक्षान्वायुरशोषयत् ।तानग्निरदहद्घोरं एवमासीद् द्रुमक्षयः ॥३८॥द्रुमक्षयमथो बुद्ध्वा किंचिच्छिष्टेषु शाखिषु ।उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥३९॥कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।वृक्षशून्या कृता पृथ्वी शाम्येतामग्निमारुतौ ॥४०॥रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।भविष्यं जानता तत्त्वं धृता गर्भेण वै मया ॥४१॥मारिषा नाम कन्येयं वृक्षाणामिति निर्मिता ।भार्या वोऽस्तु महाभागाः सोमवंशविवर्द्धिनी ॥४२॥युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः ।अस्यामुत्पत्स्यते पुत्रो दक्षो नाम प्रजापतिः ॥४३॥य इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति॥४४॥ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥४५॥मारिषायां ततस्ते वै मनसा गर्भमादधुः ।दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।दक्षो जज्ञे महातेजाः सोमस्यांशेन भारत ॥४६॥पुत्रानुत्पादयामास सोमवंशविवर्धनान् ।अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।स दृष्ट्वा मनसा दक्षः पश्चादप्यसृजत् स्त्रियः ॥४७॥ददौ स दश धर्माय कश्यपाय त्रयोदश ।शिष्टाः सोमाय राज्ञेऽथ नक्षत्राख्या ददौ प्रभुः॥४८॥तासु देवाः खगा नागा गावो दितिजदानवाः ।गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥४९॥ततः प्रभृति राजेन्द्र प्रजा मैथुनसम्भवाः ।संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥५०॥जनमेजय उवाचदेवानां दानवानां च गन्धर्वोरगरक्षसाम् ।सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः ॥५१॥अङ्गुष्ठाद् ब्रह्मणो जातो दक्षः प्रोक्तस्त्वयानघ ।वामाङ्गुष्ठात् तथा चैव तस्य पत्नी व्यजायत ॥५२॥कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।एतन्मे संशयं विप्र सम्यगाख्यातुमर्हसि ।दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः ॥५३॥वैशम्पायन उवाचउत्पत्तिश्च निरोधश्च नित्यौ भूतेषु पार्थिव ।ऋषयोऽत्र न मुह्यन्ति विद्वांसश्चैव ये जनाः ॥५४॥युगे युगे भवन्त्येते सर्वे दक्षादयो नृप ।पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥५५ ।ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वे नासीज्जनाधिप ।तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥५६॥इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।प्रजावानापदुत्तीर्णः स्वर्गलोके महीयते ॥५७॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि प्रजासर्गे दक्षोत्पत्तिकथने द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : July 10, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP