हरिवंश पर्व - चतुर्थोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
पृथोरुपाख्यानम्, राज्यवितरणं एवं दिक्पालानां प्रतिष्ठा
वैशम्पायन उवाच
अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे॥१॥
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥२॥
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।
बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम् ॥३॥
भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥४॥
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥५॥
वैवस्वतं च पितॄणां यमं राज्येऽभ्यषेचयत् ।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥६॥
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥७॥
विप्रचित्तिं तु राजानं दानवानामथादिशत् ।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥८ ।
शैलानां हिमवन्तं च नदीनामथ सागरम् ।
गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।
शब्दाकाशवतां चैव वायुं च बलिनां वरम् ॥९॥
गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥१०॥
कारणानां च राजानमैरावतमथादिशत् ।
उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥१ १॥
मृगाणामथ शार्दूलं गोवृषं च गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम् ॥१२॥
सागराणां नदीनां च मेघानां वर्षणस्य च ।
आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान् ॥१३॥
सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् ।
सरीसृपाणां सर्पाणां राजानं चैव तक्षकम् ॥१४॥
गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् ।
ऋतूनामथ मासानां दिवसानां तथैव च ॥१५॥
पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् ।
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥१६॥
गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
एवं विभज्य राज्यानि क्रमेण स पितामहः ॥१७॥
दिशापालानथ ततः स्थापयामास भारत ।
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ॥१८॥
दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् ।
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ॥१९॥
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ॥२०॥
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥२१॥
उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥२२
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ।
राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः ।
वेददृष्टेन विधिना राजराज्ये नराधिप ॥२३॥
ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत् ।
तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ॥२४॥
तवानुकूल्याद् राजेन्द्र यदि शुश्रूषसेऽनघ ।
महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् ।
धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् ॥२५॥
जनमेजय उवाच
विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय ।
यथा महात्मना तेन दुग्धा चेयं वसुंधरा॥२६॥
यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः ।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥२७॥
यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।
राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ॥२८॥
तेषां पात्रविशेषांश्च वैशम्पायन कीर्तय ।
वत्सान् क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥२९॥
यस्माच्च कारणात् पाणिर्वेनस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥३०॥
वैशम्पायन उवाच
हन्त ते कथयिष्यामि पृथोर्वैन्यस्य विस्तरम् ।
एकाग्रः प्रयतश्चैव शृणुष्व जनमेजय ॥३१॥
नाशुचेः क्षुद्रमनसः कुशिष्यायाव्रताय च ।
कीर्तनीयमिदं राजन् कृतघ्नायाहिताय वा ॥३२॥
स्वर्यं यशस्यमायुष्यं धर्म्य वेदेन सम्मितम् ।
रहस्यमृषिभिः प्रोक्तं शृणु राजन् यथातथम् ॥३३॥
यश्चैनं कथयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतैः ॥३४॥
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : July 11, 2018
TOP