संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व| पञ्चचत्वारिंशोऽध्यायः हरिवंश पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः त्रयोविंशतितमोऽध्यायः चतुर्विशतितमोऽध्यायः पञ्चविंशतितमोऽध्यायः षडविंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्याय हरिवंश पर्व - पञ्चचत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चचत्वारिंशोऽध्यायः Translation - भाषांतर देवासुरसंग्रामः एवं और्वाग्नेः उत्पत्तिःवैशम्पायन उवाचताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा ।सुराणामसुराणां च परस्परजयैषिणाम् ॥१॥दानवा दैवतैः सार्द्धं नानाप्रहरणोद्यताः ।समीयुर्युध्यमाना वै पर्वताः पर्वतैरिव ॥२॥तत् सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ ।धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥३॥ततो रथैः प्रजविभिर्वाहनैश्च प्रचोदितैः ।उत्पतद्भिश्च गगनं सासिहस्तैः समन्ततः ॥४॥विक्षिप्यमाणैर्मुसलैः सम्प्रेष्यद्भिश्च सायकैः ।चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥५॥तद् युद्धमभवद् घोरं देवदानवसंकुलम् ।जगतस्त्रासजननं युगसंवर्तकोपमम् ॥६॥स्वहस्तमुक्तैः परिघैः क्षिप्यमाणैश्च पर्वतैः ।दानवाः समरे जघ्नुर्देवानिन्द्रपुरोगमान् ॥७॥ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः ।विषण्णमनसो देवा जग्मुरार्तिं परां मृधे ॥८॥तेऽस्त्रजालैः प्रमथिताः परिघैर्भिन्नमस्तकाः ।भिन्नोरस्का दितिसुतैर्वेमू रक्तं व्रणैर्बहु ॥९॥स्पन्दिताः पाशजालैश्च निर्यत्नाश्च शरैः कृताः ।प्रविष्टा दानवी माया न शेकुस्ते विचेष्टितुम् ॥१०॥संस्तम्भितमिवाभाति निष्प्राणसदृशाकृति ।बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥११॥मायापाशान् विकर्षंश्च भिन्दन् वज्रेण ताञ्शरान् ।शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥१२॥स दैत्यान् प्रमुखे हत्वा तद् दानवबलं महत् ।तामसेनास्त्रजालेन तमोभूतमथाकरोत् ॥१३॥तेऽन्योन्यं नावबुध्यन्त देवान् वा दानवानपि ।घोरेण तमसाऽऽविष्टाः पुरुहूतस्य तेजसा ॥१४॥मायापाशैर्विमुक्ताश्च यत्नवन्तः सुरोत्तमाः ।वपूंषि दैत्यसंघानां तमोभूतान्यपातयन् ॥१५॥अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसः ।पेतुस्ते दानवगणाश्छिन्नपक्षा इवाचलाः ॥१६॥दैत्यानां तद्घनीभूतमन्धकारमहार्णवम् ।प्रविष्टं बलमुत्त्रस्तं तमोभूतमिवाबभौ ॥१७॥तदासृजन्महामायां मयस्तां तामसीं दहन् ।युगान्ताग्निमिवात्युग्रां सृष्टामौर्वेण वह्निना ॥१८॥सा ददाह तमः सर्वं माया मयविकल्पिता ।दैत्याश्च दीप्तवपुषः सद्य उत्तस्थुराहवे ॥१९॥मायामौर्वीं समासाद्य दह्यमाना दिवौकसः ।भेजिरे चन्द्रविषयं शीतांशुसलिले शयात् ॥२०॥ते दह्यमाना ह्यौर्वेण तेजसा भ्रष्टतेजसः ।शशंसुर्वज्रिणे देवाः संतप्ताः शरणैषिणः ॥२१॥संतप्ते मायया सैन्ये दह्यमाने च दानवैः ।चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥२२॥वरुण उवाचपुरा ब्रह्मर्षिजः शक्र तपस्तेपेऽतिदारुणम् ।ऊर्वो मुनिः स तेजस्वी सदृशो ब्रह्मणो गुणैः ॥२३॥तं तपन्तमिवादित्यं तपसा जगदव्ययम् ।उपतस्थुर्मुनिगणा देवा ब्रह्मर्षिभिः सह ॥२४॥हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ।ऋषिं विज्ञापयामास पुरा परमतेजसम् ॥२५॥तमूचुर्ब्रह्मऋषयो वचनं ब्रह्मसम्मितम् ।ऋषिवंशेषु भगवञ्छिन्नमूलमिदं कुलम् ॥२६॥एकस्त्वमनपत्यश्च गोत्रं यन्नानुवर्तसे ।कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे ॥२७॥बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् ।एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः ॥२८॥कुलेषूच्छिन्नमूलेषु तेषु नो नास्ति कारणम् ।भवांस्तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः ॥२९॥तत् प्रवर्तस्व वंशाय वर्द्धयात्मानमात्मना ।त्वमाधत्स्वोर्जितं तेजो द्वितीयां वै तनुं कुरु ॥३०॥स एवमुक्तो मुनिभिमुनिर्मनसि ताडितः ।जगर्हे तानृषिगणान् वचनं चेदमब्रवीत् ॥३१॥यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा ।सदाऽऽर्षं सेवतां कर्म वन्यमूलफलाशिनाम् ॥३२॥ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यानुवर्तिनः ।ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥३३॥द्विजानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः ।अस्माकं तु वनं वृत्तिर्वनाश्रमनिवासिनाम् ॥३४॥अम्बुभक्षा वायुभक्षा दन्तोलूखलिकास्तथा ।अश्मकुट्टा दशनपाः पञ्चातपतपाश्च ये ॥३५॥एते तपसि तिष्ठन्तो व्रतैरपि सुदुष्करैः ।ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ते परां गतिम् ॥३६॥ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।एवमाहुः परे लोके ब्रह्म ब्रह्मविदो जनाः ॥३७॥ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः ।ये स्थिता ब्रह्मचर्येषु ब्राह्मणास्ते दिवि स्थिताः ॥३८॥नास्ति योगं विना सिद्धिर्नास्ति सिद्धिं विना यशः ।नास्ति लोके यशोमूलं ब्रह्मचर्यात् परं तपः ॥३९॥तन्निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चमम् ।ब्रह्मचर्येण वर्तेत किमतः परमं तपः ॥४०॥अयोगे केशहरणमसंकल्पे व्रतक्रिया ।अब्रह्मचर्ये चर्या च त्रयं स्याद् दम्भसंज्ञितम् ॥४१॥क्व दाराः क्व च संयोगः क्व च भावविपर्ययः ।यदेयं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥४२॥यद्यस्ति तपसो वीर्यं युष्माकममितात्मनाम् ।सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा ॥४३॥मनसा निर्मिता योनिराधातव्या तपस्विना ।न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम् ॥४४॥यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः ।व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतिः ॥४५॥वपुर्दीप्तान्तरात्मानमेष कृत्वा मनोमयम् ।दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् ॥४६॥एवमात्मानमात्मा मे द्वितीयं जनयिष्यति ।वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः ॥४७॥ऊर्वस्तु तपसाऽऽविष्टो निवेश्योरुं हुताशने ।ममन्थैकेन दर्भेण पुत्रस्य प्रभवारणिम् ॥४८॥तस्योरुं सहसा भित्त्वा ज्वालामाली निरिन्धनः ।जगतो निधनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥४९॥ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः ।दिधक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥५०॥उत्पन्नमात्रश्चोवाच पितरं दीप्तया गिरा ।क्षुधा मे बाधते तात जगद् भक्षे त्यजस्व माम् ॥५१॥त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।निर्दहन्निव भूतानि ववृधे सोऽन्तकोऽनलः ॥५२॥एतस्मिन्नन्तरे ब्रह्मा सर्वलोकपतिः प्रभुः ।आजगाम मुनिर्यत्र व्यसृजत् पुत्रमुत्तमम् ॥५३॥स ददर्शोरुमूर्वस्य दीप्यमानं सुताग्निना ।और्वकोपाग्निसंतप्ताँल्लोकांश्च ऋषिभिः सह ॥५४॥तमुवाच ततो ब्रह्मा मुनिमूर्वं सभाजयन् ।धार्यतां पुत्रजं तेजो लोकानां हितकाम्यया ।अस्यापत्यस्य ते विप्र करिष्ये साह्यमुत्तमम् ॥५५॥वासं चास्य प्रदास्यामि प्राशनं चामृतोपमम् ।तथ्यमेतन्मम वचः शृणु त्वं वदतां वर ॥५६॥ऊर्व उवाचधन्योऽस्म्यनुगृहीतोऽस्मि यन्ममाद्य भवाञ्छिशोः ।मतिमेतां ददातीह परमानुग्रहाय वै ॥५७॥प्रभावकाले सम्प्राप्ते काङ्क्षितव्ये समागमे ।भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥५८॥कुत्र चास्य निवासो वै भोजनं च किमात्मकम् ।विधास्यति भवानस्य वीर्यतुल्यं महौजसः ॥५९॥ब्रह्मोवाचवडवामुखेऽस्य वसतिः समुद्रास्ये भविष्यति ।मम योनिर्जलं विप्र तच्च तोयमयं वपुः ॥६०॥तद्धविस्तव पुत्रस्य विसृजाम्यालयं तु तत् ।तत्रायमास्तां नियतः पिबन् वारिमयं हविः ॥६१॥ततो युगान्ते भूतानामेव चाहं च सुव्रत ।सहितौ विचरिष्यावो लोकानिति पुनः पुनः ॥६२॥एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥६३॥एवमस्त्विति सोऽप्यग्निः संवृतज्वालमण्डलः ।प्रविवेशार्णवमुखं निक्षिप्य पितरि प्रभाम् ॥६४॥प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः ।और्वस्याग्नेः प्रभावज्ञाः स्वां स्वां गतिमुपाश्रिताः ॥६५॥हिरण्यकशिपुर्दृष्ट्वा तदद्भुतमपूजयत् ।ऊर्वं प्रणतसर्वाङ्गो वाक्यं चेदमुवाच ह ॥६६॥भगवन्नद्भुतमिदं निर्वृत्तं लोकसाक्षिकम् ।तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥६७॥अहं तु तव पुत्रस्य तव चैव महाव्रत ।भृत्य इत्यवगन्तव्यः श्लाघ्योऽस्मि यदि कर्मणा ॥६८॥तन्मां पश्य समापन्नं तवैवाराधने रतम् ।यदि सीदे मुनिश्रेष्ठ तवैव स्यात् पराजयः ॥६९॥ऊर्व उवाचधन्योऽस्म्यनुगृहीतोऽस्मि यस्य तेऽहं गुरुर्मतः ।नास्ति ते तपसानेन भयमद्येह सुव्रत ॥७०॥इमां च मायां गृह्णीष्व मम पुत्रेण निर्मिताम् ।निरिन्धनामग्निमयीं दुःस्पर्शां पावकैरपि ॥७१॥एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे ।रक्षिष्यत्यात्मपक्षं सा परांश्च प्रहरिष्यति ॥७२॥एवमस्त्विति तां गृह्य प्रणम्य मुनिपुंगवम् ।जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥७३॥वरुण उवाचसैषा दुर्विषहा माया देवैरपि दुरासदा ।और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥७४॥तस्मिंस्तु व्युत्थिते दैत्ये निर्वीयैषा न संशयः ।शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥७५॥यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान् सुखी ।दीयतां मे सखा शक्र तोययोनिर्निशाकरः ॥७६॥तेनाहं सह संगम्य यादोभिश्च समावृतः ।मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः ॥७७॥इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि और्वाग्निसम्भवो नाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : July 12, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP