युद्धखण्डः - अध्यायः १७
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सनत्कुमार उवाच ॥
अथ दैत्या महावीर्याश्शूलैः परशुपट्टिशैः ॥
निजघ्नुस्सर्वदेवांश्च भयव्याकुलमानसान् ॥१॥
दैत्यायुधैः समाविद्धदेहा देवास्सवासवाः ॥
रणाद्विदुद्रुवुस्सर्वे भयव्याकुलमानसाः ॥२॥
पलायनपरान्दृष्ट्वा हृषीकेशस्सुरानथ ॥
विष्णुर्वै गरुडारूढो योद्धुमभ्याययौ द्रुतम् ॥३
सुदर्शनेन चक्रेण सर्वतः प्रस्फुरन्रुचा ॥
सुशोभितकराब्जश्च रेजे भक्ताभयंकरः ॥८॥
शंखखड्गगदाशार्ङ्गधारी क्रोधसमन्वितः ॥
कठोरास्त्रो महावीरस्सर्वयुद्धविशारदः ॥५॥
धनुषं शार्ङ्गनामानं विस्फूर्य्य विननाद ह ॥
तस्य नादेन त्रैलोक्यं पूरितं महता मुने ॥६॥
शार्ङ्गनिस्सृतबाणैश्च दितिजानां शिरांसि वै ॥
चकर्त्त भगवान् विष्णुः कोटिशो रुट् समाकुलः ॥७॥
अथारुणानुजजवपक्षवातप्रपीडिताः ॥
वात्याधिवर्त्तिता दैत्या बभ्रमुः खे यथा घनाः ॥८॥
ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ॥
चुक्रोधाति महादैत्यो देववृन्दभयंकरः ॥९॥
मर्द्दयंतं च तं दृष्ट्वा दैत्यान् प्रस्फुरिताधरः ॥
योद्धुमभ्याययौ वीरो वेगेन हरिणा सह ॥१०॥
स चकार महानादं देवासुरभयंकरम् ॥
दैत्यानामधिपः कर्णा विदीर्णाः श्रवणात्ततः ॥११॥
भयंङ्करेण दैत्यस्य नादेन पूरितं तदा ॥
जलंधरस्य महता चकम्पे सकलं जगत् ॥१२॥
ततस्समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् ॥
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥१३॥
तयोश्च तेन युद्धेन परस्परमभून्मुने ॥
देवासुरर्षिसिद्धानां भीकरेणातिविस्मयः ॥१४॥
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुश्शरान् ॥
चिच्छेद तं च हृदये बाणेनैकेन ताडयन् ॥१५॥
ततो दैत्यस्समुत्पत्य गदापाणिस्त्वरान्वितः ॥
आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥१६॥
विष्णुं जघान शूलेन तीक्ष्णेन प्रस्फुरद्रुचा ॥
हृदये क्रोधसंयुक्तो दैत्यः प्रस्फुरिताधरः ॥१७॥
विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ॥
तं विव्याध शरैस्तीक्ष्णैश्शार्ङ्गं विस्फूर्य दैत्यहा ॥१८॥
विष्णुर्जलंधरं दैत्यं भयदेन शरेण ह ॥
क्रोधाविष्टोऽतितीक्ष्णेन जघानाशु सुरारिहा ॥१९॥
आगतं तस्य तं बाणं दृष्ट्वा दैत्यो महाबलः ॥
छित्त्वा बाणेन विष्णुं च जघान हृदये द्रुतम् ॥२०॥
केशवोऽपि महाबाहुं विक्षिप्तमसुरेण तम् ॥
शरं तिलप्रमाणेन च्छित्त्वा वीरो ननाद ह ॥२१॥
पुनर्बाण समाधत्त धनुषि क्रोधवेपितः ॥
महाबलोऽथ बाणेन चिच्छेद स शिलीमुखम् ॥२२॥
वासुदेवः पुनर्बाणं नाशाय विबुधद्विषः ॥
क्रोधेनाधत्त धनुषि सिंहवद्विननाद ह ॥२३॥
जलंधरोऽथ दैत्येन्द्रः कोपच्छिन्नाधरो बली ॥
शरेण श्वेन शार्ङ्गाख्यं धनुश्चिच्छेद वैष्णवम् ॥२४॥
पुनर्बाणैस्सुतीक्ष्णैश्च जघान मधुसूदनम् ॥
उग्रवीर्यो महावीरो देवानां भयकारकः ॥२५॥
स च्छिन्नधन्वा भगवान्केशवो लोकरक्ष कः ॥
जलंधरस्य नाशाय चिक्षेप स्वगदां पराम् ॥२६॥
सा गदा हरिणा क्षिप्ता ज्वलज्ज्वलनसन्निभा ॥
अमोघगतिका शीघ्रं तस्य देहे ललाग ह ॥२७॥
तया हतो महादैत्यो न चचालापि किंचन ॥
जलंधरो मदोन्मत्तः पुष्पमालाहतो यथा ॥२८॥
ततो जलंधरः क्रोधी देवत्रासकरोऽक्षिपत् ॥
त्रिशूलमनलाकारं हरये रणदुर्म्मदः ॥२९॥
अथ विष्णुस्तत्त्रिशूलं चिच्छेद तरसा द्रुतम् ॥
नंदकाख्येन खड्गेन स्मृत्वा शिवपदाम्बुजम् ॥३०॥
छिन्ने त्रिशूले दैत्येन्द्र उत्प्लुत्य सहसा द्रुतम् ॥
आगत्य हृदये विष्णुं जघान दृढमुष्टिना ॥३१॥
सोपि विष्णुर्महावीरोऽविगणय्य च तद्व्यथाम ॥
जलंधरं च हृदये जघान दृढमुष्टिना ॥३२॥
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ॥
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥३३॥
एवं हि सुचिरं युद्धं कृत्वा तेनासुरेण वै ॥
विस्मितोऽभून्मुनिश्रेष्ठ हृदि ग्लानिमवाप ह ॥३४॥
अथ प्रसन्नो भगवान्मायी मायाविदां वरः ॥
उवाच दैत्यराजानं मेघगंभीरया गिरा ॥३५॥
विष्णुरुवाच ॥
भोभो दैत्यवरश्रेष्ठ धन्यस्त्वं रणदुर्मदः ॥
महायुधवरैर्यत्त्वं न भीतो हि महाप्रभुः ॥३६॥
एभिरेवायुधैरुग्रैर्दैत्या हि बहवो हताः ॥
महाजौ दुर्मदा वीराश्छिन्नदेहा मृतिं गताः ॥३७॥
युद्धेन ते महादैत्य प्रसन्नोऽस्मि महान्भवान् ॥
न दृष्टस्त्वत्समो वीरस्त्रैलोक्ये सचराचरे ॥३८॥
वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ॥
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥३९॥
॥सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तस्य विष्णोर्मायाविनो हरेः ॥
प्रत्युवाच महाबुद्धिर्दैत्यराजो जलंधरः ॥४०॥
जलंधर उवाच ॥
यदि भावुक तुष्टोऽसि वरमे तन्ददस्व मे ॥
मद्भगिन्या मया सार्धं मद्गेहे सगणो वस ॥४१॥
सनत्कुमार उवाच ॥
तदाकर्ण्य वचस्तस्य महादैत्यस्य खिन्नधीः ॥
तथास्त्विति च देवेशो जगाद भगवान् हरिः ॥४२॥
उवास स ततो विष्णुस्सर्वदेवगणैस्सह ॥
जलंधरं नाम पुरमागत्य रमया सह ॥४३॥
अथो जलंधरो दैत्यस्स्वभगिन्या च विष्णुना ॥
उवास स्वालयं प्राप्तो हर्षाकुलितमानसः ॥४४॥
जलंधरोऽथ देवानामधिकारेषु दानवान् ॥
स्थापयित्वा सहर्षस्सन्पुनरागान्महीतलम् ॥४५॥
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंचि तम् ॥
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः ॥४६॥
पातालभवने दैत्यं निशुंभं सुमहाबलम् ॥
स्थापयित्वा स शेषादीनानय द्भूतलं बली ॥४७॥
देवगंधर्वसिद्धौघान् सर्पराक्षसमानुषान् ॥
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥४८॥
एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ॥
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥४९॥
न कश्चिद्व्याधितो नैव दुःखितो न कृशस्तथा ॥
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरोपाख्याने विष्णुजलंधरयुद्धवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : October 10, 2020
TOP