युद्धखण्डः - अध्यायः २६
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
व्यास उवाच ॥
ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ॥
यच्छ्राविता महादिव्या कथेयं शांकरी शुभा ॥१॥
इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने ॥
स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ॥२॥
॥सनत्कुमार उवाच ॥
शृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम ॥
वैष्णवं चरितं शंभुचरिताढ्यं सुनिर्मलम् ॥३॥
मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः ॥
सुप्रसन्नोऽवदच्छंभुश्शरणागत वत्सलः ॥४॥
शंभुरुवाच ॥
ब्रह्मन्देववरास्सर्वे भवदर्थे मया हतः ॥
जलंधरो मदंशोपि सत्यं सत्यं वदाम्यहम् ॥५॥
सुखमापुर्न वा तातास्सत्यं ब्रूतामराः खलु ॥
भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ॥६॥
सनत्कुमार उवाच ॥
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ॥
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥७॥
॥देवा ऊचुः ॥
महादेव त्वया देवा रक्षिता श्शत्रुजाद्भयात् ॥
किंचिदन्यत्समुद्भूतं तत्र किं करवामहै ॥८॥
वृन्दां विमोहिता नाथ विष्णुना हि प्रयत्नतः ॥
भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ॥९॥
वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ॥
तच्चिताभस्म संधारी तव मायाविमोहितः ॥१०॥
स सिद्धमुनिसंघैश्च बोधितोऽस्माभिरादरात् ॥
न बुध्यते हरिस्सोथ तव मायाविमोहितः ॥११॥
कृपां कुरु महेशान विष्णुं बोधय बोधय ॥
त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ॥१२॥
सनत्कुमार उवाच ॥
इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् ॥
प्रत्युवाच महालीलस्स्वच्छन्दस्तान्कृतांजलीन् ॥१३॥
महेश उवाच ॥
हे ब्रह्मन्हे सुरास्सर्वे मद्वाक्यं शृणुतादरात् ॥
मोहिनी सर्वलोकानां मम माया दुरत्यया ॥१४॥
तदधीनं जगत्सर्वं यद्देवासुरमानुषम् ॥
तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ॥१५॥
उमाख्या सा महादेवी त्रिदेवजननी परा ॥
मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ॥१६॥
गच्छध्वं शरणा देवा विष्णुमोहापनुत्तये ॥
शरण्यां मोहिनीमायां शिवाख्यां सर्वकामदाम् ॥१७॥
स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् ॥
सुप्रसन्ना यदि च सा सर्वकार्यं करिष्यति ॥१८॥
सनत्कुमार उवाच ॥
इत्युक्त्वा तान्सुराञ्शंभुः पञ्चास्यो भगवान्हरः ॥
अंतर्दधे द्रुतं व्यास सर्वैश्च स्वगणैस्सह ॥१९॥
देवाश्च शासनाच्छंभोर्ब्रह्माद्या हि सवासवा ॥
मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् ॥२०॥
देवा ऊचुः ॥
यदुद्भवास्सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधान कारका ॥
यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ॥२१॥
पाहि त्रयोविंशगुणान्सुशब्दिताञ्जगत्यशेषे समधिष्ठिता परा ॥
यद्रूपकर्माणिजगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ॥२२॥
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसंभवादीन् ॥
न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम् ॥२३॥
कुरु कार्यं महादेवि देवानां नः परेश्वरि ॥
विष्णुमोहं ह शिवे दुर्गे देवि नमोऽस्तु ते ॥२४॥
जलंधरस्य शंभोश्च रणे कैलासवासिनः ॥
प्रवृत्ते तद्वधार्थाय गौरीशासनतश्शिवे ॥२५॥
वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ॥
स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ॥२६॥
जलंधरो हतो युद्धे तद्भयान्मो चिता वयम् ॥
गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ॥२७॥
तदाज्ञया वयं सर्वे शरणं ते समागताः ॥
त्वं हि शंभुर्युवां देवि भक्तोद्धारपरायणौ ॥२८॥
वृन्दालावण्यसंभ्रातो विष्णुस्तिष्ठति तत्र वै ॥
तच्चिताभस्मसंधारी ज्ञानभ्रष्टो विमोहितः ॥२९॥
संसिद्धसुरसंघैश्च बोधितोऽपि महेश्वरि ॥
न बुध्यते हरिस्सोथ तव मायाविमोहितः ॥३०॥
कृपां कुरु महादेवि हरिं बोधय बोधय
यथा स्वलोकं पायात्स सुचित्तस्सुरकार्यकृत् ॥३१॥
इति स्तुवंतस्ते देवास्तेजोमंडलमास्थितम् ॥
ददृशुर्गगने तत्र ज्वालाव्याप्ता दिगंतरम् ॥३२॥
तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः ॥
अमराश्शुश्रुवुर्व्यास कामदां व्योमचारिणीम् ॥३३॥
आकाशवाण्युवाच ॥
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ॥
गौरी लक्ष्मीः सुरा ज्योती रजस्सत्त्वतमोगुणैः ॥३४
तत्र गच्छत यूयं वै तासामंतिक आदरात् ॥
मदाज्ञया प्रसन्नास्ता विधास्यंते तदीप्सितम् ॥३५॥
सनत्कुमार उवाच ॥
शृण्वतामिति तां वाचमंतर्द्धानमगान्महः ॥
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने ॥३६॥
ततस्सवेंऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात् ॥
गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः ॥३७॥
तुष्टुवुश्च महाभक्त्या देवीस्तास्सकलास्सुराः ॥
नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः ॥३८॥
ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः ॥
महाद्भुतैस्स्वतेजोभिर्भासयंत्यो दिगंतरम् ॥३९॥
अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा ॥
प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन् ॥४०॥
ततश्चैतास्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलः ॥
बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम् ॥४१॥
देव्य ऊचुः ॥
इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति ॥
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ॥४२॥
सनत्कुमार उवाच ॥
इत्युक्त्वा तास्ततो देव्योंतर्हिता अभवन्मुने ॥
रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः ॥४३॥
ततस्तुष्टाः सुरास्सर्वे ब्रह्माद्याश्च सवासवाः ॥
तानि बीजानि संगृह्य ययुर्यत्र हरिः स्थितः ॥४४॥
वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः ॥
स्मृत्वा तास्संस्थितास्तत्र शिवशक्त्यंशका मुने ॥४५॥
निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् ॥
धात्री च मालती चैव तुलसी च मुनीश्वर ॥४६॥
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ॥
गौरीभवा च तुलसी तमस्सत्त्वरजोगुणाः ॥४७॥
विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने ॥
उदतिष्ठत्तदा तासु रागातिशयविभ्रमात् ॥४८॥
दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा ॥
तं चापि तुलसी धात्री रागेणैवावलोकताम् ॥४९॥
यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् ॥
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत् ॥५०॥
अतस्सा बर्बरीत्याख्यामवापातीव गर्हिताम् ॥
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ॥५१॥
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ॥
वैकुंठमगमत्तुष्टस्सर्वदेवैर्नमस्कृतः ॥
कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा ॥
सर्वदेवप्रियाज्ञेया विष्णोश्चैव विशेषतः ॥५३॥
तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने ॥
त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा ॥५४॥
वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः ॥
नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः ॥५५॥
वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहस्सुबोधवान् ॥
सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरञ्छिवम् ॥५६॥
इत्याख्यानमघोघघ्नं सर्वकामप्रदं नृणाम् ॥
सर्व कामविकारघ्नं सर्वविज्ञानवर्द्धनम् ॥५७॥
य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमन् ॥
शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ॥५८॥
पठित्वा य इदं धीमानाख्यानं परमोत्तमम् ॥
संग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः ॥५९॥
विप्राणां ब्रह्मविद्यादं सत्रियाणां जयप्रदम् ॥
वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम् ॥६०॥
शंभुभक्तिप्रदं व्यास सर्वेषां पापनाशनम् ॥
इहलोके परत्रापि सदा सद्गतिदायकम् ॥६१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ॥२६॥
N/A
References : N/A
Last Updated : October 10, 2020
TOP