संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः १

उमासंहिता - अध्यायः १

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीगणेशाय नमः ॥

श्रीगौरीशंकराभ्यां नमः ॥

अथ पञ्चम्युमासंहिता प्रारभ्यते ॥

यो धत्ते भुवनानि सप्त गुणवान्स्रष्टा रजस्संश्रयस्संहर्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ॥
सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥१॥
ऋषय ऊचुः ॥
सूतसूत महाप्राज्ञ व्यासशिष्यन मोऽस्तु ते ॥
चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ॥२॥
अथोमासंहितान्तःस्थ नानाख्यानसमन्वितम् ॥
ब्रूहि शंभोश्चरित्रं वै साम्बस्य परमात्मनः ॥३॥
सूत उवाच ॥
महर्षयश्शौनकाद्याः शृणुत प्रेमतः शुभम् ॥
शांकरं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ॥४॥
इतीदृशं पुण्यप्रश्नं पृष्टवान्मुनिसत्तमः ॥
व्यासस्सनत्कुमारं वै शैवं सच्चरितं जगौ ॥५॥
 ॥सनत्कुमार उवाच ॥
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ॥
तदुच्यते मया व्यास चरितं हि महेशितुः ॥६॥
पुरा पुत्रार्थमगमत्कैलासं शंकरालयम् ॥
वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ॥७॥
अत्रोपमन्युं संदृष्ट्वा तपंतं शृंग उत्तमे ॥
प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ॥८॥
श्रीकृष्ण उवाच ॥
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ॥
पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ॥९॥
ब्रूहि शंकरमाहात्म्यं सदानन्दकरं मुने ॥
यच्छ्रुत्वा भक्तितः कुर्य्यां तप ऐश्वरमुत्तमम् ॥१०॥
 ॥सनत्कुमार उवाच ॥
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ॥
प्रत्युवाच प्रसन्नात्मा ह्युपमन्युस्स्मरञ्छिवम् ॥११॥
 ॥उपमन्युरुवाच ॥
शृणु कृष्ण महाशैव महिमानं महेशितुः ॥
यमद्राक्षमहं शंभोर्भक्तिवर्द्धनमुत्तमम् ॥१२॥
तपःस्थोऽहं समद्राक्षं शंकरं च तदायुधान् ॥
परिवारं समस्तं च विष्ण्वादीनमरादिकान् ॥१३॥
त्रिभिरंशैश्शोभमानमजस्रसुखमव्ययम् ॥
एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ॥१४॥
द्विसहस्रमयूखानां ज्योतिषाऽतिविराजितम् ॥
सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ॥१५॥
यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ॥
नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ॥१६॥
महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ॥
निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ॥१७॥
तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्यम् ॥
गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ॥१८॥
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥
विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ॥१९॥
दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ॥
पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ॥२०॥
यौवनाश्वो हतो येन मांधाता सबलः पुरा ॥
चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ॥२१॥
दर्पाविष्टो हैहयश्च निः क्षिप्तो लवणासुरः ॥
शत्रुघ्नं नृपतिं युद्धे समाहूय समंततः ॥२२॥
तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत् ॥
तच्छूलमिति तीक्ष्णाग्रं संत्रासजननं महत् ॥२३॥
त्रिशिखां भृकुटीं कृत्वा तर्जयंतमिव स्थितम् ॥
विधूम्रानलसंकाशं बालसूर्यमिवोदितम् ॥२४॥
सूर्य्य हस्तमनिर्द्देश्यं पाशहस्तमिवांतकम् ॥
परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम् ॥२५॥
कल्पान्तदहनाकारं तथा पुरुषविग्रहम् ॥
यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ॥२६॥
रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ॥
त्रिःसप्तकृत्वो नक्षत्रं ददाह हृषितो मुनिः ॥२७॥
सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् ॥
द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम् ॥२८॥
द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् ॥
कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम् ॥२९॥
वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वप्रनुत्तमम् ॥
महाधनुः पिनाकं च सतूणीरं महाद्युतिम् ॥३०॥
शक्तिं खङ्गं च पाशं च महादीप्तं समांकुशम् ॥
गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान् ॥३१॥
तथा च लोकपालानामस्त्राण्येतानि यानि च ॥
अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः ॥३२॥
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ॥
विमानं दिव्यमास्थाय हंसयुक्तं मनोनुगम् ॥३३॥
वामपार्श्वे तु तस्यैव शंखचक्रगदाधरः ॥
वैनतेयं समास्थाय तथा नारायणः स्थितः ॥३४॥
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ॥
शक्राद्या देवताश्चैव सर्व एव समं ययुः ॥३५॥
स्कंदश्शक्तिं समादाय मयूरस्थस्सघंटकः ॥
देव्यास्समीपे संतस्थौ द्वितीय इव पावकः ॥३६॥
नंदी शूलं समादाय भवाग्रे समवस्थितः ॥
सर्वभूतगणाश्चैवं मातरो विविधाः स्थिताः ॥३७॥
तेऽभिवाद्य महेशानं परिवार्य्य समंततः ॥
अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः ॥३८॥
यत्किंचित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा ॥
तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः ॥३९॥
सुमहद्धैर्य्यमालंब्य प्रांजलिर्विविधैः स्तवैः ॥
परमानन्दसंमग्नोऽभूवं कृष्णाहमद्ध्वरे ॥४०॥
संमुखे शंकरं दृष्ट्वा बाष्पगद्गदया गिरा ॥
अपूजयं सुविधिवदहं श्रद्धासमन्वितः ॥४१॥
भगवानथ सुप्रीतश्शंकरः परमेश्वरः ॥
वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव ॥४२॥
न विचालयितुं शक्यो मया विप्र पुनः पुनः ॥
परीक्षितोसि भद्रं ते भवान्भक्त्यान्वितो दृढः ॥४३॥
तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत ॥
दुर्लभं सर्वदेवेषु नादेयं विद्यते तव ॥४४॥
स चाहं तद्वचः श्रुत्वा शंभोः सत्प्रेमसंयुतम् ॥
देवं तं प्रांजलिर्भूत्वाऽब्रुवं भक्तानुकंपिनम् ॥४५॥
 ॥उपमन्युरुवाच ॥
भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि ॥
तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत् ॥४६॥
प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् ॥
सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत् ॥४७॥
ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो ॥
तव भक्तेषु सख्यं स्यादन्योन्येषु सदा भवेत् ॥४८॥
एवमुक्तो मया शंभुर्विहस्य परमेश्वरः ॥
कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह ॥४९॥
 ॥श्रीशिव उवाच ॥
उपमन्यो मुने तात वर्ज्जितस्त्वं भविष्यसि ॥
जरामरणजैर्दोषैस्सर्वकामान्वितो भव ॥५०॥
मुनीनां पूजनीयश्च यशोधनसमन्वितः ॥
शीलरूपगुणैश्वर्यं मत्प्रसादात्पदेपदे ॥५१॥
क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः ॥
तत्र ते भविता नित्यं यत्रयत्रेच्छसे मुने ॥५२॥
अमृतात्मकं तु तत्क्षीरं यावत्संयाम्यते ततः ॥
इमं वैवस्वतं कल्पं पश्यसे बन्धुभिस्सह ॥५३॥
त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि ॥
सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने ॥५४॥
मद्भक्तिस्तु स्थिरा चास्तु सदा दास्यामि दर्शनम् ॥
स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम ॥५५॥
यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि ॥
सर्वं प्रपूर्णतां यातु चिंतितं नात्र संशयः ॥५६॥
उपमन्युरुवाच ॥
एवमुक्त्वा स भगवान्सूर्य्यकोटिसमप्रभः ॥
ममेशानो वरान्दत्त्वा तत्रैवान्तरधीयत ॥५७॥
एवं दृष्टो मया कृष्ण परिवारसमन्वितः ॥
शंकरः परमेशानो भक्तिमुक्तिप्रदायकः ॥५८॥
शंभुना परमेशेन यदुक्तं तेन धीमता ॥
तदवाप्तं च मे सर्वं देवदेवसमाधिना ॥५९॥
प्रत्यक्षं चैव तै जातान्गन्धर्वाप्सरसस्तथा ॥
ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान् ॥६०॥
पश्य वृक्षान्मनोरम्यान्स्निग्धपत्रान्सुगंधिनः ॥
सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलन्वितान् ॥६१॥
सर्वमेतन्महाबाहो शंकरस्य महात्मनः ॥
प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम ॥६२॥
ममास्ति त्वखिलं ज्ञानं प्रसादाच्छूलपाणिनः ॥
भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः ॥६३॥
तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः ॥
यं न पश्यंत्यनाराध्य कोऽन्यो धन्यतरो मया ॥६४॥
षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् ॥
एवं ध्यायंति विद्वांसौ महत्परममक्षरम् ॥६५॥
सर्व तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः ॥
स एव भगवान्देवः प्रधानपुरुषेश्वरः ॥६६॥
यो निजाद्दक्षिणात्पार्श्वाद्ब्रह्माणं लोककारणम् ॥
वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः ॥६७॥
कल्पान्ते चैव संप्राप्तेऽसृजद्रुद्रं हृदः प्रभुः ॥
ततस्समहरत्कृत्स्नं जगत्स्थावरजंगमम् ॥६८॥
युगांते सर्वभूतानि संवर्तक इवानलः ॥
कालो भूत्वा महादेवो ग्रसमानस्स तिष्ठति ॥६९॥
सर्वज्ञस्सर्वभूतात्मा सवर्भूतभवोद्भवः ॥
आस्ते सर्वगतो देवो दृश्यस्सर्वैश्च दैवतैः ॥७०॥
अतस्त्वं पुत्रलाभाय समाराधय शंकरम् ॥
शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः ॥७१॥
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP