उमासंहिता - अध्यायः ७
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सनत्कुमार उवाच ॥
अथ पापैर्नरा यांति यमलोकं चतुर्विधैः ॥
संत्रासजननं घोरं विवशास्सर्वदेहिनः ॥१॥
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ॥
स्त्रीपुन्नपुंसकैर्जीवैर्ज्ञातव्यं सर्वजंतुषु ॥२॥
शुभाशुभफलं चात्र देहिनां संविचार्यते ॥
चित्रगुप्तादिभिस्सर्वैर्वसिष्ठप्रमुखैस्तथा ॥३॥
न केचित्प्राणिनस्संति ये न यांति यमक्षयम् ॥
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचार्य्यताम् ॥४॥
तत्र ये शुभकर्माणस्सौम्यचित्ता दयान्विताः ॥
ते नरा यांति सौम्येन पूर्वं यमनिकेतनम् ॥५॥
ये पुनः पापकर्म्माणः पापा दानविवर्जिताः ॥
ते घोरेण पथा यांति दक्षिणेन यमालयम् ॥६॥
षडशीतिसहस्राणि योजनानामतीत्य तत् ॥
वैवस्वतपुरं ज्ञेयं नानारूपमवस्थितम् ॥७॥
समीपस्थमिवाभाति नराणां पुण्यकर्मणाम् ॥
पापिनामतिदूरस्थं पथा रौद्रेण गच्छताम् ॥८॥
तीक्ष्णकंटकयुक्तेन शर्कराविचितेन च ॥
क्षुरधारानिभैस्तीक्ष्णैः पाषाणै रचितेन च ॥९॥
क्वचित्पंकेन महता उरुतोकैश्च पातकैः ॥
लोहसूचीनिभैर्दर्भैस्सम्पन्नेन पथा क्वचित् ॥१०॥
तटप्रायातिविषमैः पर्वतैर्वृक्षसंकुलैः ॥
प्रतप्तांगारयुक्तेन यांति मार्गेण दुःखिताः ॥११॥
क्वचिद्विषमगर्तैश्च क्वचिल्लोष्टैस्सुदुष्करैः ॥
सुतप्तवालुकाभिश्च तथा तीक्ष्णैश्च शंकुभिः ॥१२॥
अनेक शाखाविततैर्व्याप्तं वंशवनैः क्वचित् ॥
कष्टेन तमसा मार्गे नानालम्बेन कुत्रचित् ॥१३॥
अयश्शृंगाटकैस्तीक्ष्णैः क्वचिद्दावाग्निना पुनः ॥
क्वचित्तप्तशिलाभिश्च क्वचिद्व्याप्तं हिमेन च ॥१४॥
क्वचिद्वालुकया व्याप्तमाकंठांतः प्रवेशया ॥
क्वचिद्दुष्टाम्बुना व्याप्तं क्वचिच्च करिषाग्निना ॥१५ ॥क्वचित्सिंहैर्वृकैर्व्याघ्रैर्मशकैश्च सुदारुणैः ॥
क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैस्तथा ॥१६॥
मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्बणैः ॥
मत्तमातंगयूथैश्च बलोन्मत्तैः प्रमाथिभिः ॥१७॥
पंथानमुल्लिखद्भिश्च सूकरैस्तीक्ष्णदंष्ट्रिभिः ॥
तीक्ष्णशृंगैश्च महिषैस्सर्वभूतैश्च श्वापदैः ॥१८॥
डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः ॥
व्याधिभिश्च महाघोरैः पीड्यमाना व्रजंति हि ॥१९॥
महाधूलिविमिश्रेण महाचण्डेन वायुना ॥
महापाषाणवर्षेण हन्यमाना निराश्रयाः ॥२०॥
क्वचिद्विद्युत्प्रपातेन दह्यमाना व्रजन्ति च ॥
महता बाणवर्षेण विध्यमानाश्च सर्वतः ॥२१॥
पतद्भिर्वज्रपातैश्च उल्कापातैश्च दारुणैः ॥
प्रदीप्तांगारवर्षेण दह्यमानाश्च संति हि ॥२२॥
महता पांसुवर्षेण पूर्यमाणा रुदंति च ॥
महामेघरवैर्घोरैस्त्रस्यंते च मुहुर्मुहुः ॥२३॥
निशितायुधवर्षेण भिद्यमानाश्च सर्वतः ॥
महाक्षाराम्बुधाराभिस्सिच्यमाना व्रजंति च ॥२४॥
महीशीतेन मरुता रूक्षेण परुषेण च ॥
समंताद्बाध्यमानाश्च शुष्यंते संकुचन्ति च ॥२५॥
इत्थं मार्गेण रौद्रेण पाथेयरहितेन च ॥
निरालम्बेन दुर्गेण निर्जलेन समंततः ॥२६॥
विषमेणैव महता निर्जनापाश्रयेण च ॥
तमोरूपेण कष्टेन सर्वदुष्टाश्रयेण च ॥२७॥
नीयंते देहिनस्सर्वे ये मूढाः पापकर्मिणः ॥
यमदूतैर्महाघोरैस्तदाज्ञाकारिभिर्बलात् ॥२८॥
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ॥
शोचंतस्स्वानि कर्म्माणि रुदंतश्च मुहुर्मुहुः ॥२९॥
प्रेता भूत्वा विवस्त्राश्च शुष्ककंठौष्ठतालुकाः ॥
असौम्या भयभीताश्च दह्यमानाः क्षुधान्विताः ॥३०॥
बद्धाश्शृंखलया केचिदुत्ता नपादका नराः ॥
कृष्यंते कृष्यमाणाश्च यमदूतैर्बलोत्कटैः ॥३१॥
उरसाधोमुखाश्चान्ये घृष्यमाणास्सुदुःखिताः ॥
केशपाशनि बंधेन संस्कृष्यंते च रज्जुना ॥३२॥
ललाटे चांकुशेनान्ये भिन्ना दुष्यंति देहिनः ॥
उत्तानाः कंटकपथा क्वचिदंगारवर्त्मना ॥३३॥
पश्चाद्बाहुनिबद्धाश्च जठरेण प्रपीडिताः ॥
पूरिताश्शृंखलाभिश्च हस्तयोश्च सुकीलिताः ॥४४॥
ग्रीवापाशेन कृष्यंते प्रयांत्यन्ये सुदुःखिताः ॥
जिह्वांकुशप्रवेशेन रज्ज्वाकृष्यन्त एव ते ॥३५॥
नासाभेदेन रज्ज्वा च त्वाकृश्यन्ते तथापरे ॥
भिन्नाः कपोलयो रज्ज्वाकृष्यंतेऽन्ये तथौष्ठयोः ॥३६॥
छिन्नाग्रपादहस्ताश्च च्छिन्नकर्णोष्ठनासिकाः ॥
संछिन्नशिश्नवृषणाः छिन्नभिन्नांगसंधयः ॥३७॥
आभिद्यमानाः कुंतैश्च भिद्यमानाश्च सायकैः ॥
इतश्चेतश्च धावंतः क्रंदमाना निराश्रयाः ॥३८॥
मुद्गरैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः ॥
कंटकैर्विविधैर्घोरैर्ज्वलनार्कसमप्रभैः ॥३९॥
भिन्दिपालैर्विभियंते स्रवतः पूयशोणितम् ॥
शकृता कृमिदिग्धाश्च नीयंते विवशा नराः ॥४०॥
याचमानाश्च सलिलमन्नं वापि बुभुक्षिताः ॥
छायां प्रार्थयमानाश्च शीतार्ताश्चानलं पुनः ॥४१॥
दानहीनाः प्रयांत्येवं प्रार्थयंतस्सुखं नराः ॥
गृहीतदान पाथेयास्सुखं यांति यमालयम् ॥४२॥
एवं न्यायेन कष्टेन प्राप्ताः प्रेतपुरं यदा ॥
प्रज्ञापितास्ततो दूतैर्निवेश्यंते यमाग्रतः ॥४३॥
तत्र ये शुभकर्म्माणस्तांस्तु सम्मानयेद्यमः ॥
स्वागतासनदानेन पाद्यार्घ्येण प्रियेण च ॥४४॥
धन्या यूयं महात्मानो निगमोदितकारिणः ॥
यैश्च दिव्यसुखार्थाय भवद्भिस्सुकृतं कृतम् ॥४५॥
दिव्यं विमानमारुह्य दिव्यस्त्रीभोगभूषितम् ॥
स्वर्गं गच्छध्वममलं सर्वकामसमन्वितम् ॥४६॥
तत्र भुक्त्वा महाभोगानंते पुण्यस्य संक्षयात् ॥
यत्किंचिदल्पमशुभं पुनस्तदिह भोक्ष्यथ ॥४७॥
धर्म्मात्मानो नरा ये च मित्रभूत्वा इवात्मनः ॥
सौम्यं सुखं प्रपश्यंति धर्मराजत्वमेव च ॥४८॥
ये पुनः क्रूरकर्म्माणस्ते पश्यंति भयानकम् ॥
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥४९॥
ऊर्ध्वकेशं महाश्मश्रुमूर्ध्वप्रस्फुरिताधरम् ॥
अष्टादशभुजं क्रुद्धं नीलांजनचयोपमम् ॥५०॥
सर्वायुधोद्धतकरं सर्वदण्डेन तर्जयन् ॥
महामहिषमारूढं दीप्ताग्निसमलोचनम् ॥५१॥
रक्तमाल्यांबरधरं महामेरुमिवोच्छ्रितम् ॥
प्रलयाम्बुदनिर्घोषं पिबन्निव महोदधिम् ॥५२॥
ग्रसंतमिव शैलेन्द्रमुद्गिरंतमिवानलम् ॥
मृत्युश्चैव समीपस्थः कालानलसमप्रभुः ॥५३॥
कालश्चांजनसंकाशः कृतांतश्च भयानकः ॥
मारीचोग्रमहामारी कालरात्रिश्च दारुणा ॥५४॥
विविधा व्याधयः कुष्ठा नानारूपा भयावहाः ॥
शक्तिशूलांकुशधराः पाशचक्रासिपाणयः ॥५५॥
वजतुंडधरा रुद्रा क्षुरतूणधनुर्द्धराः ॥
नानायुधधरास्सर्वे महावीरा भयंकराः ॥५६॥
असंख्याता महावीराः कालाञ्जनसमप्रभाः ॥
सर्वायुधोद्यतकरा यमदूता भयानकाः ॥५७॥
अनेन परिचारेण वृतं तं घोरदर्शनम् ॥
यमं पश्यंति पापिष्ठाश्चित्रगुप्तं च भीषणम् ॥५८॥
निर्भर्त्सयति चात्यंतं यमस्तान्पापकर्म्मणः ॥
चित्रगुप्तश्च भगवान्धर्म्मवाक्यैः प्रबोधयेत् ॥५९॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकमार्गयमदूतस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : October 12, 2020
TOP