उमासंहिता - अध्यायः ३५
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
॥सूत उवाच ॥
विवस्वान्कश्यपाज्जज्ञे दाक्षायण्यां महाऋषेः ॥
तस्य भार्याऽभवत्संज्ञा त्वाष्ट्री देवी सुरेणुका ॥१॥
मुनेऽसहिष्णुना तेन तेजसा दुस्सहेन च ॥
भर्तृरूपेण नातुष्यद्रूप यौवनशालिनी ॥२॥
आदित्यस्य हि तद्रूपमसहिष्णुस्तु तेजसः ॥
दह्यमाना तदोद्वेगमकरोद्वरवर्णिनी ॥३॥
ऋषेऽस्यां त्रीण्यपत्यानि जनयामास भास्करः ॥
संज्ञायां तु मनुः पूर्वं श्राद्धदेवः प्रजापतिः ॥४॥
यमश्च यमुना चैव यमलौ संबभूवतुः ॥
एवं हि त्रीण्यपत्यानि तस्यां जातानि सूर्य्यतः ॥५॥
संवर्तुलं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ॥
असहंती ततश्छायामात्मनस्साऽ सृजच्छुभाम् ॥६॥
मायामयी तु सा संज्ञामवोचद्भक्तितश्शुभे ॥
किं करोमीह कार्य्यं ते कथयस्व शुचिस्मिते ॥७॥
संज्ञोवाच ॥
अहं यास्यामि भद्रं ते ममैव भवनं पितुः ॥
त्वयैतद्भवने सत्यं वस्तव्यं निर्विकारतः ॥८॥
इमौ मे बालकौ साधू कन्या चेयं सुमध्यमा ॥
पालनीयाः सुखेनैव मम चेदिच्छसि प्रियम् ॥९॥
छायोवाच ॥
आकेशग्रहणाद्देवि सहिष्येऽहं सुदुष्कृतम् ॥
नाख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥१०॥
सूत उवाच ॥
इत्युक्ता साऽगमद्देवी व्रीडिता सन्निधौ पितुः ॥
पित्रा निर्भर्त्सिता तत्र नियुक्ता सा पुनः पुनः ॥११॥
अगच्छद्वडवा भूत्वाऽऽच्छाद्यरूपं ततस्त्वकम् ॥
कुरुंस्तदोत्तरान्प्राप्य नृणां मध्ये चचार ह ॥१२॥
संज्ञां तां तु रविर्मत्वा छायायां सुसुतं तदा ॥
जनयामास सावर्णिं मनुं वै सविता किल ॥१३॥
संज्ञाऽनु प्रार्थिता छाया सा स्वपुत्रेऽपि नित्यशः ॥
चकाराभ्यधिकं स्नेहं न तथा पूर्वजे सुते ॥१४॥
अनुजश्चाक्षमस्तत्तु यमस्तं नैव चक्षमे ॥
स सरोषस्तु बाल्याच्च भाविनोऽर्थस्य गौरवात् ॥१५॥
छायां संतर्जयामास यदा वैवस्वतो यमः ॥
तं शशाप ततः क्रोधाच्छाया तु कलुषीकृता ॥१६॥
चरणः पततामेष तवेति भृशरोषितः ॥
यमस्ततः पितुस्सर्वं प्रांजलिः प्रत्यवेदयत् ॥१७॥
भृशं शाप भयोद्विग्नस्संज्ञावाक्यैर्विचेष्टितः ॥
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै ॥१८॥
स्नेहमस्मास्वपाकृत्य कनीयांसं बिभर्ति सा ॥
तस्मान्मयोद्यतः पादस्तद्भवान् क्षंतुमर्हति ॥१९॥
शप्तोहमस्मि देवेश जनन्या तपतांवर ॥
तव प्रसादाच्चरणो न पतेन्मम गोपते ॥२०॥
सवितोवाच ॥
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ॥२१॥
न शक्यते तन्मिथ्या वै कर्त्तुं मातृवचस्तव ॥
कृमयो मांसमादाय गमिष्यंति महीतले ॥२२॥
तद्वाक्यं भविता सत्यं त्वं च त्रातौ भविष्यसि ॥
कुरु तात न संदेहं मनश्चाश्वास्य स्वं प्रभो ॥२३॥
सूत उवाच ॥
इत्युक्त्वा तनयं सूर्यो यमसंज्ञं मुनीश्वर ॥
आदित्यश्चाब्रवीत्तान्त्तु छायां क्रोधसमन्वितः ॥२४॥
सूर्य उवाच ॥
हे प्रिये कुमते चंडि किं त्वयाऽऽचरितं किल ॥
किं तु मेऽभ्यधिकः स्नेह एतदाख्यातुमर्हसि ॥२५॥
सूत उवाच ॥
सा रवेर्वचनं श्रुत्वा यथा तथ्यं न्यवेदयत् ॥
निर्दग्धा कामरविणा सांत्वयामास वै तदा ॥२६॥
छायोवाच ॥
तवातितेजसा दग्धा इदं रूपं न शोभते ॥
असहंती च तत्संज्ञा वने वसति शाद्वले ॥२७॥
श्लाघ्या योगबलोपेता योगमासाद्य गोपते ॥
अनुकूलस्तु देवेश संदिश्यात्ममयं मतम् ॥२८॥
रूपं निवर्तयाम्यद्य तव कांतं करोम्यहम् ॥
सूत उवाच ॥
तच्छ्रुत्वाऽपगतः क्रोधो मार्तण्डस्य विवस्वतः ॥२९॥
भ्रमिमारोप्य तत्तेजः शातयामास वै मुनिः ॥
ततो विभ्राजितं रूप तेजसा संवृतेन च ॥३०॥
कृतं कांततरं रूपं त्वष्ट्रा तच्छुशुभे तदा ॥
ततोभियोगमास्थाय स्वां भार्य्यां हि ददर्श ह ॥३१॥
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥
सोऽश्वरूपं समास्थाय गत्वा तां मैथुनेच्छया ॥३२॥
मैथुनाय विचेष्टंतीं परपुंसोभिशंकया ॥
मुखतो नासिकायां तु शुक्रं तत् व्यदधान्मुने ॥३३॥
देवौ ततः प्रजायेतामश्विनौ भिषजां वरौ ॥
नासत्यौ तौ च दस्रौ च स्मृतौ द्वावश्विनावपि ॥३४॥
तौ तु कांतेन रूपेण दर्शयामास भास्करः ॥
आत्मानं सा तु तं दृष्ट्वा प्रहृष्टा पतिमादरात् ॥३५॥
पत्या तेन गृहं प्रायात्स्वं सती मुदितानना ॥
मुमुदातेऽथ तौ प्रीत्या दंपतो पूर्वतोधिकम् ॥३६॥
यमस्तु कर्मणा तेन भृशं पीडितमानसः ॥
धर्मेण रंजयामास धर्मराज इमा प्रजाः ॥३७॥
लेभे स कर्मणा तेन धर्मराजो महाद्युतिः ॥
पितॄणामाधिपत्यं च लोकपालत्वमेव च ॥३८॥
मनुः प्रजापतिस्त्वासीत्सावर्णिस्स तपोधनः ॥
भाव्यः स कर्मणा तेन मनोस्सावर्णिकेंतरे ॥३९॥
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ॥
यवीयसी तयोर्या तु यमी कन्या यशस्विनी ॥४०॥
अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपा वनी ॥
मनुरित्युच्यते लोके सावर्णिरिति चोच्यते ॥४१॥
य इदं जन्म देवानां शृणुयाद्धारयेत्तु वा ॥
आपदं प्राप्य मुच्येत प्राप्नुयात्सुमहद्यशः ॥४२॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मन्वन्तरकीर्तने वैवस्वतवर्णनं नाम पचत्रिंशोऽध्यायः ॥३५॥
N/A
References : N/A
Last Updated : October 12, 2020
TOP