विष्णुसंहिता - चतुर्दशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपात् प्रतिमालक्षणं परम् ।
योनिसंस्थानभेदं च साधकानां हिताय वै ॥१॥
रत्नलोहशिलाधातुमृत्काष्ठालेख्यभेदतः ।
प्रतिमा सप्तधा ज्ञेया निर्दोषा रत्नलोहजा ॥२॥
बहुदोषा शिला सा तु पुण्यशैलोद्भवेष्यते ।
वारुण्यैन्द्री तथाऽऽग्नेयी वायवी भूश्चतुर्विधा ॥३॥
आद्ययोर्या शिला सैषा निर्दोषाऽपि तु नान्ययोः ।
निमग्ना भुवि या रम्या स्निग्धाऽर्ककिरणोज्झिता ॥४॥
एकवर्णा सुवर्णा च सवर्णा चातिशोभना ।
श्वेतब्जाभा मृगे ग्राह्या सौम्या विप्रस्य सा शिला ॥५॥
ऐन्द्री रक्ता कुलस्थाभा ज्येष्ठायां क्षत्रियस्य तु ।
फल्गुन्यां भगदेवत्या पीता वा हरिता विशः ॥६॥
कृष्णा मुद्गनिभाऽश्विन्यां शूद्रस्यैवाश्विदेवता ।
विशाला नातिबहला छिद्रवन्मधुरस्वरा ॥७॥
रम्भादलाकृतिः स्त्री स्याच्छीतला च मनोरमा ।
गम्भीरनिनदा गुर्वी सदृढा विस्फुलिङ्गिनी ॥८॥
अश्वत्थवटपत्राभा विशाला बहला पुमान् ।
नपुंसकं द्वयाकारा तद्धीना या सपर्पटा ॥९॥
निबिडावयवा स्निग्धा धीरशब्दा सुशीतला ।
सुगन्धरसूरुपाढ्या युवतिः सा सुशोभना ॥१०॥
बाला शस्त्रासहा मृद्वी पिच्छिला पल्लवास्थिरा ।
चण्डाली शुल्किनी वा स्याद् यस्यां न रमते मनः ॥११॥
सा हि मण्डूकखण्डा च वृद्धा रूक्षाऽतिझर्झरा ।
बहुवर्णाऽतिनीला च धूम्रा च स्थूलरोमिका ॥१२॥
हीनस्वना च निन्द्याङ्गी सोष्णा चण्डालिका स्मृता ।
वल्मीकवृक्षसंलग्ना वह्निवातातपाहता ॥१३॥
चितिचैत्यसमीपस्था बाह्यालीढाऽन्त्यसेविता ।
ग्रहजुष्टा विवर्णा च चत्वरान्तर्जलोषिता ॥१४॥
कल्पिताऽन्यत्र शिष्टा च संस्कृता येन केनचित् ।
सगर्भमण्डलच्छिद्रसन्धिकीलकजालका ॥१५॥
स्फोटावर्तसिराग्रन्थिभेदयुक्ता च वर्जिता ।
हीनरेखोत्तमा हीना हीना रेखोत्तमोत्तमा ॥१६॥
शिलासवर्मा रेखाः स्युः सुवर्णाश्चातिशोभनाः ।
इन्द्रायुधपताकोर्मिकलशाभा मनोरमा ॥१७॥
सदा वृद्धिकरी ज्ञेया गोब्राह्मणहितावहा ।
श्रीवत्सशङ्खचक्राब्जनन्द्यावर्तप्रदक्षिणा ॥१८॥
तोरणच्छत्रवस्त्रोक्षकन्यास्रक्कुसुमोपमा ।
प्रासादस्वस्तिकाश्वेभवर्धनी शफरोपमा ॥१९॥
रथेक्षणाङ्गुलीकूर्मचामराङ्कुशकेसरी ।
रत्नाभरणगोवृक्षपत्रचन्द्रार्कतारकाः ॥२०॥
पवित्रकुण्डिकादर्शमृगहंसादयः शुभाः ।
एकद्विबहुविच्छेदे पुत्रेशगृहिणीक्षयः ॥२१॥
वक्रस्थूलकृशा रूक्षाश्छिन्नाग्राश्च न शोभनाः ।
सङ्कीर्णा बहुवर्मा च यस्यां नेष्टा च सा शिला ॥२२॥
अ वृद्धिकृदि शत्रुघ्नमु संवृतमशोभनम् ।
सन्ध्यक्षरेषु वृद्धिः स्यात् कादिमान्तेषु सम्पदः ॥२३॥
या योगवाहेषूच्चाटो रादौ भीपुष्टिशान्तयः ।
सिद्धिरूष्मसु मोक्षोऽन्त्ये तिर्यग्रेखास्त्वशोभनाः ॥२४॥
सगर्भोद्धाट्यमाना या भिद्यते शिथिलध्वनिः ।
मण्डलादियुतोष्णा वा विवर्णा वाऽपि तां त्यजेत् ॥२५॥
शिलायां क्षालितायां तु यदि किञ्चिन्न लक्ष्यते ।
मध्यमा सा शिला ज्ञेया हीना युक्ता शुभाशुभैः ॥२६॥
ध्वनिर्घण्टानिभो यत्र स्फुलिङ्गाश्छेदने सदा ।
दृश्यन्ते तच्छिरस्तस्याः पृष्ठमूर्ध्वमधोमुखम् ॥२७॥
द्विजो वा शिल्पिना कन्या यद् ब्रूयादधिवासिता ।
तच्छिरः स्यात् ततो वक्रं कल्पयेदविकल्पितम् ॥२८॥
प्राक्पश्चिमशिरा ग्राह्या प्राक्प्रत्यग्द्वारवेश्मनोः ।
अलाभे याम्यसौम्याग्रा कोणाग्रा तु न शस्यते ॥२९॥
स्थण्डिले देवमिष्ट्वाऽऽदौ ब्राह्मणैः स्वस्ति वाचयेत् ।
सुदिने प्राश्य दध्यन्नं रक्षामङ्गलपूर्वकम् ॥३०॥
शस्त्राण्यस्त्रेण सम्पूज्य शोभनान्यभिधाय च ।
शस्त्राण्यस्त्रेण सम्पूज्य प्राङ्मुखो वाऽप्युदङ्मुखः ॥३१॥
मङ्गलानि च सन्दृश्य निमित्तानि परीक्ष्य च ।
प्रतिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिः सह ॥३२॥
विद्याराज्ञीं सदा ध्यायन्नग्रतोऽर्घ्यकरः स्थितः ।
निमित्तैः शोभनैर्गच्छेत् कृत्वैवं पुनरन्यथा ॥३३॥
निर्गतस्तु शिलां पश्येत् तदाप्रभृति नित्यशः ।
प्रतिमां कारयेत् कर्ता तत्कर्मान्तं हविष्यभुक् ॥३४॥
सोमेशेन्द्रेषु न स्याच्चेत् तादृशी शोभना शिला ।
सिद्धं शिलाकरं गच्छेत् कृत्वा दिग्यजनं पुनः ॥३५॥
दिशो विलोक्य चास्त्रेण रक्षामङ्गलपूर्वकम् ।
तत्राधिवासनं कुर्यादाचार्यः प्रयतो निशि ॥३६॥
शिलाया मण्डपं कृत्वा परिश्रित्य समन्ततः ।
चतुर्दिक्षु पताकाभिश्चतुर्वर्णाभिरन्वितम् ॥३७॥
इष्ट्वा हरिं च दिग्देवान् भूतक्रूरबलिं हरेत् ।
देवाग्रे दर्भशय्यायामुपोष्य नियतेन्द्रियः ॥३८॥
आचार्यः सुस्थितो विष्णुं ध्यात्वा मन्त्रमुदीरयेत् ।
नमः सकललोकाय विष्णवे प्रभविष्णवे ॥३९॥
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ।
तेनाष्टशतजप्तेन ततः सव्प्नं स पश्यति ॥४०॥
शोभनं स्याच्छुभे स्वप्ने कर्तव्या शान्तिरन्यथा ।
शोभनां तु शिलां ज्ञात्वा वर्णं लिङ्गं शिरस्तथा ॥४१॥
उद्बुध्यस्वेति मन्त्रेण लाञ्छयेत् तत्र तत्र तु ।
आचार्योऽस्त्रेण कृत्वैवं शिल्पिभिर्ग्राहयेत् ततः ॥४२॥
देवमिष्ट्वा बलिं दत्त्वा कृत्वाऽथ स्वस्तिवाचनम् ।
शिलां रथे समारोप्य प्रयत्नादानयेत् ततः ॥४३॥
रथशिल्पिविकारादौ शतमस्त्रेण होमयेत् ।
ध्वजादिघोषैः पर्येत्य शालायामुत्तरे न्यसेत् ॥४४॥
संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा ।
नान्यां तु प्रतिमां कुर्यात् कृता भवति निष्फला ॥४५॥
स्वयमुत्पादिता मुख्या क्रीता द्रव्यैस्तु मध्यमा ।
विदितावयवैः शुद्धा या ह्रदादिषु साऽधमा ॥४६॥
शिलायामिव संस्कारः कर्तव्यो दारुकर्मणि ।
दारुचन्दनशम्याकमधूकासनबिल्वकाः ॥४७॥
सरलः स्पन्दनः सालः स्तबकः स्तम्भकस्तिमिः ।
वरणस्तिन्दुकाशोकपर्णीपनसशिंशपाः ॥४८॥
अन्येऽपि याज्ञिका वृक्षाः सारवन्तश्च शोभनाः ।
ऋजुः स्निग्धः समोऽशाखः शुभदेशोद्भवो घनः ॥४९॥
अगर्भव्रणरन्ध्रादिर्दृढमूलः शुभो मतः ।
दक्षिणप्रवणः शुष्को दग्धः पक्षिग्रहाश्रयः ॥५०॥
पतितश्चैत्यवल्मीकचितादिस्थश्च नेष्यते ।
अधोभागं तु संशोध्य दर्भानास्तीर्य सर्वतः ॥५१॥
गायत्रीपरिपूतेन सर्वतः प्रोक्ष्य वारिणा ।
हुत्वाऽनेनैव मन्त्रेण क्षीरवृक्षसमिच्छतम् ॥५२॥
यत्परं वैष्णवं तत्त्वं यच्च भागवतं पुनः ।
तत्सर्वमेकसंलीनमस्मिन् देहे विबुध्यताम् ॥५३॥
धर्मं पुण्यं तथा सत्यं सर्वमेकत्र वर्तताम् ।
वृक्ष! लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् ॥५४॥
देवत्वं यास्यसे तत्र दाहच्छेदविवर्जितम् ।
जलपुष्पप्रदानेन सधूपैर्बलिभिस्तथा ॥५५॥
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ।
गन्धपुष्पैश्च संपूज्य बलिं दत्त्वा च पूर्ववत् ॥५६॥
स्वप्नं दृष्ट्वा द्विजायोक्त्वा शोभनान्यभिधाय च ।
पूर्वोत्तरमुखो मन्त्री जप्त्वेदंविष्णुरित्यृचम् ॥५७॥
मध्वाज्याक्तकुठारेण स्मृत्वाऽस्त्रं छेत्तुमारभेत् ।
दिवा वारेभिरेत्येवं पातं तस्य समुद्धरेत् ॥५८॥
सोमेन्द्रेशेषु तत्पातः सुभोऽन्यत्र न शस्यते ।
भग्नेऽस्मिन् कारयेच्छान्तिं महाव्याहृतिहोमतः ॥५९॥
अग्नआयाहिमन्त्रेण पतितं सोधयेद् द्रुमम् ।
चतुरश्रं ततः कृत्वा रथेनाश्मवदानयेत् ॥६०॥
मृत्तिकाऽप्येवमानेया सवर्णा दोषवर्जिता ।
पुण्यादायतनाद् रम्यादुद्धृतासीति चाहृता ॥६१॥
अपक्वं पार्थिवं शस्तं पक्वमत्र विगर्हितम् ।
कपिलाज्यातसीतैलकषायैश्चूर्णसंयुताम् ॥६२॥
श्रीवेष्टकादिसंयुक्तां पेषयित्वा पुनः पुनः ।
मासपक्षोषितां कृत्वा कारयेत् प्रतिमां ततः ॥६३॥
संस्कृतं प्रतिमाशूलमधिवास्याग्रमण्डपे ।
रत्नन्यासं पुरा कृत्वा मुहूर्ते स्तापयेद् गुरुः ॥६४॥
लोहे सिक्थमयीमर्चां कारयित्वा मृदावृताम् ।
सुवर्णादीनि संशोध्य विद्राव्याङ्गारवत् पुनः ॥६५॥
कुशलैः कारयेद् यत्नात् सम्पूर्णां सर्वतोघनाम् ।
पुष्टिदाऽर्चा तु सौवर्मी राजती किर्त्तिदा स्मृता ॥६६॥
ताम्रजा धनपुत्रार्था मणिजा सुखदा भवेत् ।
दारुजा श्रीकरी ज्ञेया मृन्मयी सर्वकामदा ॥६७॥
एकबेरं शिलालोहरत्नधातुमयं भवेत् ।
बहुबेरं तु मृद्दारुकृतमालेख्यमेव च ॥६८॥
प्रासाद एव तु स्थाप्या या शिलादारुमृन्मयी ।
प्रतिमाऽन्या गृहे पूज्या प्रासादे च यथाविधि ॥६९॥
अङ्गुष्ठादिवितस्त्यन्तं गृहे संस्थाप्य पूजयेत् ।
प्रासादे चोर्ध्वमाहस्तात् परं प्रासाद एव तु ॥७०॥
जङ्गमं पूजयेन्नित्यमावाहनविसर्गतः ।
नावाहनविसर्गाभ्यामेकबेरं प्रतिष्ठितम् ॥७१॥
कर्मार्चां लोहजां कृत्वा पादमात्रां शुभाननाम् ।
मूलानुरूपसंस्थानां शोधयित्वा यथाविधि ॥७२॥
तस्यामावाह्य सम्पूज्य लेप्यादौ विसृजेत् पुनः ।
द्वारोच्चेऽष्टांशहीने स्यात् त्रिभक्तेऽर्चा द्विभागिका ॥७३॥
नवांशोने समस्ते वा पादोना वाऽपि तत्समा ।
उत्तमं पार्थिवे मानं दारवे मध्यमं भवेत् ॥७४॥
मणिजे चाधमं ज्ञेयमिच्छयाऽन्यत्र कल्पयेत् ।
उत्तमा दशतालार्चा नवताला तु मध्यमा ॥७५॥
अष्टतालाधमा ज्ञेया देव्यः स्युश्चाष्टतालिकाः ।
दशधा नवधा चेष्टं मानं कृत्त्वैकमंशकम् ॥७६॥
भङ्क्त्त्वा द्वादशदा ज्ञेयं स्वाङ्गुलं येन मीयते ।
ग्रीवाहृन्नाभिमेढ्रान्तं मुखमानेन कल्पयेत् ॥७७॥
तद् भङ्क्त्त्वा मूर्ध्नि कण्ठाङ्घ्रिजानुदेशे समं न्यसेत् ।
जङ्घोरू द्विगुणौ कार्यौ बाहू चाजानुलम्बिनौ ॥७८॥
किञ्चिदूनाः प्रमाणेन ज्ञेयाश्चैवोपबाहवः ।
किरीटमधिकं कुर्यात् पद्मं नालं च मानतः ॥७९॥
तिर्यक् षोडशसूत्राणि सप्तोर्ध्वानि च कल्पयेत् ।
तिर्यगूर्ध्वगतैः सूत्रैर्मुखे द्वादशधा कृते ॥८०॥
केशपञ्चमसूत्रस्थं मद्यैकान्तरितं द्वयोः ।
पदयोरक्षिणी कार्ये पदमानेन विस्तृते ॥८१॥
तयोर्मध्ये शुभा नासा कार्याक्षिद्विगुणायता ।
तारे सृक्वान्तसूत्रस्थे कंबीरौ पुटसंमितौ ॥८२॥
कुर्याद् भ्रूसूत्रगौ कर्णौ नेत्रे नेत्रान्तरायते ।
तारके तत्र्त्रिभागस्थे ज्योतिषी तत्र्त्रिभागतः ॥८३॥
नेत्रवन्नासिकाग्रोच्चं निम्नं मूलं तदर्धतः ।
निष्पावाभौ निम्नपुटौ भ्रूमद्यं नेत्रमध्यवत् ॥८४॥
अधरस्तत्समोऽन्योष्ठगोजिकामानमर्धतः ।
कर्णायामस्तु नासावद् विस्तारश्च तदग्रवत् ॥८५॥
तुटुकौ नेत्रसूत्रस्थौ तद्विस्तारेण सम्मितौ ।
ललाटकण्ठविस्तारो नासिकाद्विगुणो मतः ॥८६॥
चिबुको कर्णमूलात् तु नासिका द्विगुणायता ।
स्तनान्तरं मुखं विद्याद् द्विगुणं चैव कक्षयोः ॥८७॥
कण्ठाद् द्विगुण एवेष्टो नाभिदेशे तु विस्तरः ।
कटौ नेत्राधिक्स्त्र्यंशं स्तनकक्षान्तरं विदुः ॥८८॥
तावत् कक्षांसमध्यं च कारयेत् स्कन्धमुन्नतम् ।
कटिवत् सन्धिकक्षान्तं प्रकोष्ठं नासिकादिकम् ॥८९॥
तत्र मध्यमयोर्मानं नासिकाधरयोगतः ।
कल्पयेदर्धपर्वोने तथा तर्जन्यनामिके ॥९०॥
तयोरप्यर्धपर्वोने तथाङ्गुष्ठकनिष्ठिके ।
तले नेत्राधिकायामे मद्यमायामविस्तरे ॥९१॥
तत्राङ्गुष्ठप्रदेशिन्योर्नेत्रसम्मितमन्तरम् ।
अन्तरं मध्यमातुल्यं कनिष्ठामणिबन्धयोः ॥९२॥
मणिबन्धस्तु नासावत् ततोऽङ्गुष्ठान्तरं तथा ।
द्विगुणो बाहुविस्तारो नेत्रोनं चैव कोर्परे ॥९३॥
सर्वत्र त्रिगुणोऽनाहो बाहू गोपुच्छवच्छुभौ ।
मद्यमापर्वणी पूर्वे समे शेषं तदर्धकम् ॥९४॥
अष्टांशोनानि पर्वाणि ततो देशिन्यनामयोः ।
पादोनानि कनीयस्य योक्तव्यान्यनुरूपतः ॥९५॥
तर्जनीमध्यमापर्वसमे चाङ्गुष्ठपर्वणी ।
सर्वाङ्गुलीषु कार्याः स्युरग्रपर्वार्धतो नखाः ॥९६॥
नाहोऽङ्गुष्ठस्य नासावदष्टांशोनस्ततोऽन्ययोः ।
त्ततश्चैवं कनिष्ठाया वृत्ते भुजसमे स्फिजौ ॥९७॥
ऊरू मुखवदक्ष्यूनं जानु जङ्घा मुखार्धतः ।
मुखायततलौ पादौ पुरस्ताज्जङ्घया समौ ॥९८॥
कूर्मोन्नतौ क्रमादुच्चौ तत्राङ्गुष्ठौ तदर्धकौ ।
प्रदेशिन्यौ च तत्तुल्ये हीनाः शेषा नखान्नखम् ॥९९॥
अनङ्गुष्ठास्रिपर्वाणो नखा रक्तार्धचन्द्रवत् ।
नाहोऽङ्गुष्ठेऽन्यमध्यावत् तर्जन्यङ्गुष्ठदैर्घ्यवत् ॥१००॥
अष्टांशोनाः क्रमादन्याः कारयेदनुरूपतः ।
कर्णपाशौ च केशाश्च भूषावस्त्रायुधानि च ॥१०१॥
सन्निवेशाश्च योक्तव्या यथाशेभं विजानता ।
विशालधवलाताम्रे पक्ष्मले चैव लोचने ॥१०२॥
साधारणीव दृष्टिः स्यात् पश्यतां नाधऊर्ध्वगा ।
पटे वा लेखयित्वैवं तं पटं साधकः स्वयम् ॥१०३॥
एकान्ते तु प्रतिष्ठाप्य पूजयेन्नित्यमादरात् ।
बिम्बोच्चार्धं तु पीठोच्चमायामो बिम्बमानतः ॥१०४॥
केशान्तमुखमानो वा प्दमतुल्यो जलाश्रयः ।
नाधिकं पीठमिष्टं तु जङ्गमस्य षडङ्गुलात् ॥१०५॥
अङ्गुलाभ्यां नच न्यूनं लोहजस्यैकयोनिकम् ।
शैलमन्यत्र विज्ञेयं रत्नजानां तु लोहजम् ॥१०६॥

॥इति विष्णुसंहितायां चतुर्दशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP