विष्णुसंहिता - द्वाविंशः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपाद् बलिकर्म यथाक्रमम् ।
त्रिसन्ध्यमुचितं नित्यमुत्सवादौ विशेषतः ॥१॥
आराध्य विधिना देवं गन्धपुष्पादिभिः क्रमात् ।
संस्कृतं संस्कृते वह्नौ देवायान्नं निवेदयेत् ॥२॥
तच्छेषेणैव कर्मार्चापीठं पात्रे प्रकल्पयेत् ।
विना मन्त्रेण लोकाग्नौ बल्यर्थमपि पाचयेत् ॥३॥
स्थाल्यां तु तण्डुलाञ् शुद्धान् निरूप्तान् मूलविद्यया ।
प्रोक्ष्य त्रिधा परिक्षाल्य प्रज्वाल्याग्निं च तेजसा ॥४॥
पचेद् व्यजनवातेन हविर्न स्कन्द्यते यथा ।
अभिघार्यावतार्याथ विन्यसेत् पात्रघट्टितम् ॥५॥
पात्रेऽन्यस्मिन्नुपस्तीर्य क्षिप्तं प्रत्यभिघार्य च ।
साज्यं निवेदयेद् भागं देवायान्यं च होमयेत् ॥६॥
गोमयेनोपलिप्यैशे पात्रं दर्भेषु सादयेत् ।
हैमं वा राजतं ताम्रं रत्निमात्रं तु मण्डलम् ॥७॥
अष्टाक्षरेण सम्प्रोक्ष्य सम्यक् प्रोत्तानितं जलैः ।
अभिघार्य हविश्शेषं हृदा तस्मिन् विनिक्षिपेत् ॥८॥
पीठं प्रकल्पयेत् तेन कर्मार्चा यत्र नेष्यते ।
अन्यदा मसृणीकृत्य दध्याज्यक्लेदितं शुभम् ॥९॥
शिवकं कारयेत् तेन चतुरङ्गुलविस्तरम् ।
द्वादशाष्टाङ्गुलोत्सेधं षडङ्गुलमथापि वा ॥१०॥
विन्यस्य काञ्चनं मूर्ध्नि शक्तितमावाह्य पूजयेत् ।
परमेष्ठ्यात्मिकीं मध्ये पुरुषादिसमावृताम् ॥११॥
तस्मिन् संस्थापयेदर्चां सर्वेणावाह्य पञ्चभिः ।
मूलेनावाह्य वा हेम्नि वर्णमूर्तिवृतं हरिम् ॥१२॥
गन्धपुष्पैस्तमभ्यर्च्य ध्यात्वा सवनभेदितम् ।
तत्पात्रं स्थापयेन्मूर्ध्नि दीक्षितस्य द्विजन्मनः ॥१३॥
उष्णीषादियुतो मौनी गृहित्वा व्याहृतिं जपेत् ।
देवस्य पुरतः स्थित्वा प्रणम्य तु बहिर्व्रजेत् ॥१४॥
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः ।
अष्टमङ्गलसंयुक्तं वितानाद्युपशोभितम् ॥१५॥
देवनागाप्सरोयक्षमुनिगन्धर्वकिन्नराः ।
सर्वे चानुगमिष्यन्तो ध्येयाः स्वगुणसंवृताः ॥१६॥
गन्धं पुष्पं जलं धूपं दीपं छत्रं च चामरम् ।
मङ्गलानि हविर्धण्टां गृह्णीयुस्तत्र दीक्षिताः ॥१७॥
निर्गम्य शमितैर्घौषैर्ब्राह्मणानामनुज्ञया ।
मङ्गलानि गुरुर्ब्रूयाद् द्विजाश्चान्ये तथास्त्विति ॥१८॥
जगन्निर्माणसंहारस्थित्यनुग्रहहेतवः ।
देवानामीश्वरा देवा मङ्गलं प्रदिशन्तु नः ॥१९॥
विष्णुर्ब्रह्मा च रुद्रश्च प्रचण्डश्चण्ड एव च ।
गरुत्मान् ऋषभश्चैते मङ्गलं प्रदिशन्तु नः ॥२०॥
इन्द्रश्चाग्निर्यमश्चैव निर्ऋतिर्वरुणस्तथा ।
वायुर्वैश्रवणेशानौ मङ्गलं प्रदिशन्तु नः ॥२१॥
वराहनरसिंहौ च रामश्रीधरवामनाः ।
हयास्यवासुदेवौ च मङ्गलं प्रदिशन्तु नः ॥२२॥
पूरुश्च निर्ऋतिश्चैव सिंहो नारायणाच्युतौ ।
अनिरुद्धो हरिः कृष्णो मङ्गलं प्रदिशन्तु नः ॥२३॥
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥२४॥
देवदौवारिकाश्चैते मङ्गलं प्रदिशन्तु नः ।
अष्टोत्तरसहस्रं तु विष्णुपारिषदाश्च ये ॥२५॥
अनुपारिषदाश्चान्ये मङ्गलं प्रदिशन्तु नः ।
भूर्लोकभुवर्लोकाद्याः सप्त लोकाः प्रकीर्तिताः ॥२६॥
सागराश्च तथा सर्वे मङ्गलं प्रदिशन्तु नः ।
तथा पाताललोकाश्च रुद्रलोकाः सुखोषिताः ॥२७॥
दिक्षु सर्वासु तिष्ठन्तो मङ्गलं प्रदिशन्तु नः ।
वेदाश्चाप्युवेदाश्च सेतिहासाः कथा अपि ॥२८॥
षडङ्गानि च शास्त्राणि मङ्गलं प्रदिशन्तु नः ।
गङ्गा च यमुना चैव तथा गोदा सरस्वती ॥२९॥
नर्मदा चैव कावेरी मङ्गलं प्रदिशन्तु नः ।
सूर्यादयो ग्रहाश्चाथ मेषाद्या राशयस्तथा ॥३०॥
मासाश्चापि सविष्ण्वाद्या मङ्गलं प्रदिशन्तु नः ।
सर्वे विद्येश्वराश्चापि ये दिव्या ये च मानवाः ॥३१॥
दिव्यन्तरिक्षभूमिस्था मङ्गलं प्रदिशन्तु नः ।
धरा ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ॥३२॥
प्रत्यूषश्च प्रभासश्च मङ्गलं प्रदिशन्तु नः ।
यज्ञाश्च पञ्चयज्ञाश्च पाकयज्ञास्तथैव च ॥३३॥
सर्वयज्ञमहायज्ञा मङ्गलं प्रदिशन्तु नः ।
कुमार्यश्च कुमाराश्च गणेशाश्च विनायकाः ॥३४॥
सर्पाश्च किन्नराश्चापि मङ्गलं प्रदिशन्तु नः ।
मृगव्याधश्च शर्वश्च निर्ऋतिश्चाज एकपात् ॥३५॥
अहिर्बुध्निः पिनाकी च भवनोऽथेश्वरस्तथा ।
स्थाणुर्भवश्च पापारिर्मङ्गलं प्रदिशन्तु नः ॥३६॥
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान् पूषा च पर्जन्यत्वष्ट्टविष्णवः ॥३७॥
एते वै द्वादशादित्या मङ्गलं प्रदिशन्तु नः ।
यवक्रीतश्च क्रीतश्च अर्वावसुविभावसू ॥३८॥
कक्षीवान् नारदः कण्वो मङ्गलं प्रदिशन्तु नः ।
उन्मुचिः प्रमुचिश्चैव आत्रेयोऽगस्त्य एव च ॥३९॥
दृढायुश्चेध्मवाहश्च मङ्गलं प्रदिशन्तु नः ।
दृषद्गुह्यमहद्गुह्यपरिव्राजास्तथैव च ॥४०॥
एकद्वित्रिसमाख्याता मङ्गलं प्रदिशन्तु नः ।
कश्यपोऽत्रिर्वसिष्ठश्च भारद्वाजोऽङ्गिरास्तथा ॥४१॥
कौशिको भगवांश्चैते मङ्गलं प्रदिशन्तु नः ।
आवहो विवहश्चैव उद्वहः सुवहस्तथा ॥४२॥
परीवहो विवहश्चैते मङ्गलं प्रदिशन्तु नः ।
श्वेतकेतुश्च व्यासश्च वाल्मीकिः सुयशास्तथा ॥४३॥
और्वशेयश्च शक्तिश्च तथा चैव पराशरः ।
सप्तैते दिव्यमुनयो मङ्गलं प्रदिशन्तु नः ॥४४॥
एवं मङ्गलवादात् ताः सिद्धिं यच्छन्ति देवताः ।
सर्वकर्म समारम्भे कर्तव्यं च सुमङ्गलम् ॥४५॥
मण्डपद्वारमासाद्य शङ्खतूर्यादिनिस्वनैः ।
द्वाःस्थादिभ्यो बलिं दद्याद् गन्धपुष्पादिसंयुतम् ॥४६॥
एभिर्मन्त्रैरुपस्थाय स्वमन्त्रैरभिपूज्य तान् ।
तत्र तत्र बलिं दद्याद् देवदृष्ट्याऽवलोकितम् ॥४७॥
नमस्ते द्वारपालाय चण्डायामिततेजसे ।
नरसिंहतनूजाय चक्रेणाङ्कितमौलये ॥४८॥
नमस्ते द्वारपालाय प्रचण्डायामितौजसे ।
नरसिंहतनूजाय शङ्खेनाङ्कितमौलये ॥४९॥
वाहनाय महाविष्णोस्तार्क्ष्यायामिततेजसे ।
गरुडाय नमस्तेऽस्तु सर्वसर्पेन्द्रमृत्यवे ॥५०॥
दैत्यदर्पविनाशाय सहस्राक्षाय धीमते ।
कुलिशव्यग्रहस्ताय नमस्तेऽस्तु शतक्रतो! ॥५१॥
मुखं यः सर्वदेवानां येन हव्यं च नीयते ।
येन प्रवर्तते सर्वं नमस्तस्मै हविर्भुजे ॥५२॥
येन संह्रियते सर्वं येन धर्मश्च रक्ष्यते ।
यस्माद् बिभेति लोकोऽयं प्रेतनाथ! नमोऽस्तुते ॥५३॥
राक्षसा यातुधानाश्च पिशाचाश्चाश्रयन्ति यम् ।
तस्मै निर्ऋतिरूपाय रक्षसां पतये नमः ॥५४॥
येन संरक्ष्यते सर्वं यस्मिन् सर्वं प्रतिष्ठितम् ।
अमोघपाशहस्ताय तस्मैपांपतये नमः ॥५५॥
पूर्यन्ते च ह्रियन्ते च येन प्राणादयः क्रमात् ।
भूतानां पतये नित्यं नमस्तस्मै मरुत्पते! ॥५६॥
यत्प्रसादाज्जगत् कृत्स्रं धनेन परिपूर्यते ।
यक्षगुह्यकनाथाय धननाथ! नमोऽस्तु ते ॥५७॥
येन कालाग्निना लोको युगान्तेष्ववगृह्यते ।
तस्मै ते ब्रह्मणः पुत्र! विरुपाक्ष! नमोऽस्तु ते ॥५८॥
वीरभद्र! नमस्तेऽस्तु नमो विघ्नेस्वराय च ।
ब्राह्म्यादिभ्यश्च सप्तभ्यो मातृभ्यो वै नमो नमः ॥५९॥
श्रीधराय नमस्तेऽस्तु नमस्तेऽस्वमुखाय च ।
वागीश्वर्यादिमातृभ्यः सर्वाभ्यो वै नमो नमः ॥६०॥
विष्वक्सेन! नमस्तेऽस्तु देवनिर्माल्यधारिणे ।
शङ्खचक्रगदापाणे! महापारिषदेश्वर! ॥६१॥
ये समस्तं जगद् व्याप्य तिष्ठति बलिकाङ्क्षिणः ।
विष्णुपारिषदाः सर्वे गृह्णन्तु बलिमुत्तमम् ॥६२॥
इत्याघोष्य बहिर्दिक्षु गणैरष्टविधैः सह ।
कुमुदादिबलिं दत्त्वा बलिपीठे बलिं हरेत् ॥६३॥
ये भूता इति दिक्षूर्ध्वं भूतनाथाय मध्यतः ।
मुष्टिना मुष्टिना सर्वान् प्रीणयेद् विष्णुपार्षदान् ॥६४॥
गृह्णन्तु बलिमेतं तु बाह्यस्था विहगाननाः ।
ये क्रूरो येऽल्पसत्वाश्च भूतप्रेतनिशाचराः ॥६५॥
वेतालाश्चैव मातङ्गा हीनाहीनाश्च ये गणाः ।
सर्वेषामेव तेषां च हरामि बलिमुत्तमम् ॥६६॥
सर्वेभ्यश्चैव भूतेभ्यः सगणेभ्यो नमो नमः ।
त्रिः प्रदक्षिणमावृत्त्य बलिना तोषयेद् गणान् ॥६७॥
सवने सवने चैव नृत्तगीतादिसंयुतम् ।
गन्धपुष्पादि दत्त्वाऽन्ते बलिशेषं जलाप्लुतम् ॥६८॥
निर्हरेदों नमो विष्णुपार्षदेभ्य इति ब्रुवन् ।
आचम्य प्रयतो विष्णुं स्मरन्नेत्य समाहितः ॥६९॥
सर्वेणारोप्य तामर्चां पुनर्मूले नियोजयेत् ।
विष्वक्सेनाय तत् सर्वं समाल्यं दापयेद्धविः ॥७०॥
पिण्डे तु बलिपात्रे वा पतिते दूषितेऽपि वा ।
तत्र प्रक्षाल्य तत् स्नात्वा कृत्वा न्यासं यथाक्रमम् ॥७१॥
परिश्रित्याशु तां भूमिं गोमयेनोपलेपयेत् ।
पायसं श्रपयित्वाऽत्र घृतमिश्रं सुशोभनम् ॥७२॥
लिखित्वा स्त्रस्तिकं तत्र चूर्णैः शालिनिशामयैः ।
व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन्नास्तीर्य चाम्बरम् ॥७३॥
तण्डुलैश्च कुशैः पुष्पैः प्रोक्ष्यास्त्रेण समाहितः ।
मूलेन विन्यसेत् पात्रं प्रवणेन स्पृशेत् ततः ॥७४॥
पुनश्चास्त्रेण सम्प्रोक्ष्य दक्षिणे शान्तिमर्चयेत् ।
उल्लेखनादिकं कृत्वा संस्कृत्याग्निं यथाविधि ॥७५॥
हुत्वाऽन्नं मूलमन्त्रेण प्रणवेनाज्यमेव च ।
अष्टोत्तरशतं वाऽपि संहस्रं वा यथाक्रमम् ॥७६॥
हविश्शेषं ततः पश्चाद् बलिपात्रे तु निक्षिपेत् ।
तत् कृत्वा पूर्ववत् प्रोक्ष्य मूलेनावाहनं भवेत् ॥७७॥
पाद्ममर्ध्यं ततो दत्त्वा गन्धपुष्पैरथार्चयेत् ।
नमस्कृत्य ततः स्तुत्वा स्तोत्रैरेवं निवेदयेत् ॥७८॥
भगवन्! बलिपातस्य प्रायश्चित्तविधिर्मया ।
कृतोऽयं त्वत्प्रसादेन सम्पूर्णः शान्तिदोऽस्तु नः ॥७९॥
पुण्याहं वाचयित्वा च ब्राह्मणैः स्वस्ति वाचयेत् ।
नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः ॥८०॥
उद्धृत्य व्याहृतीर्जप्त्वा मूर्ध्नि तारेण विन्यसेत् ।
शङ्खतूर्यादिसंयुक्तं शनैर्गत्वा प्रदक्षिणम् ॥८१॥
अन्तः प्रवेशयेत् पश्चादैशान्यां स्थापयेद् बुधः ।
उद्वास्यान्नं बहिस्त्यक्त्वा विष्वक्सेनाय कल्पयेत् ॥८२॥
पात्रं प्रक्षाल्य तोयेन विधिनाऽऽचम्य च स्वयम् ।
प्रासादे विन्यसेत् पात्रं ततः कुर्याच्च शान्तिकम् ॥८३॥
राशिचक्रविधानेन केशवादीन् यथाक्रमम् ।
चक्राब्जे पूजयेद् विद्वानग्निकार्यसमन्वितम् ॥८४॥
बलिपातदिगीशं च तन्मासाधिपमेव च ।
तिथ्यृक्षवारराशीनां देवताश्चापि तर्पयेत् ॥८५॥
॥इति विष्णुसंहितायां बलिदानविधिर्नाम द्वाविंशः पटलः॥
N/A
References : N/A
Last Updated : January 01, 2021
TOP