विष्णुसंहिता - त्रिंशः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षेपाद् योगं भागवतं परम् ।
यदन्यैरश्रुतं पूर्वं हितानां परमं हितम् ॥१॥
युक्ताहारविहारस्तु युक्तचेष्टः समाहितः ।
योगं भागवतं नित्यमभ्यसेन्नियतात्मवान् ॥२॥
पञ्चकालविभागज्ञो मितभाषी मिताशनः ।
कामक्रोधादिजिद् भक्तः समलोष्टाश्मकाञ्चनः ॥३॥
समयाचारसंयुक्तो जपध्यानपरायणः ।
एकान्ते विजने स्थाने निवाते शब्दवर्जिते ॥४॥
बद्‌ध्वा योगासनं मौनी योगं युञ्जीत योगवित् ।
पूजयित्वा हरिं पूजां तत्रैव प्रतिपादयेत् ॥५॥
किङ्करत्वेन चात्मानं कृताञ्जलिरधोमुखः ।
न याचेत फलं किञ्चित् प्रसन्नो दास्यति स्वयम् ॥६॥
जानात्येव हि कालं स भक्तिपूजागुणागुणान् ।
प्रसन्नस्त्वनुगृह्णीयात् त्वरया न कदाचन ॥७॥
नत्वेव नानुगृह्णीयाज्जन्मान्तरशतेष्वपि ।
कर्मणां पच्यमानानामपरेषां परिक्षये ॥८॥
प्रकाशयति भक्तानां हरिः कुर्वन्ननुग्रहम् ।
ततस्तु संपदेवास्य पुरस्तादुपलक्ष्यते ॥९॥
क्षीयन्तेऽस्यारयो नित्यं वर्धन्ते संपदः स्वयम् ।
फलं त्वयत्नाद् भूयः स्यान्नश्यन्ति व्याधयः स्वयम् ॥१०॥
न क्वचिच्चास्य संक्लेशो वर्धन्ते पशवः प्रजाः ।
दीर्घं चास्य भवेदायुर्जायन्ते सुभगाः प्रजाः ॥११॥
प्रशंसन्ति जनाश्चैनं चोरयेयुर्न दस्यवः ।
अनुपद्रवमैश्वर्यं चिरं तिष्ठत्ययन्त्रितम् ॥१२॥
धर्माद्यभिमुखी धीः स्यादधर्मादिपराङ्मुखी ।
सुखेनैवापरान्तश्च पुण्यकाले भविष्यति ॥१३॥
जन्मोत्कृष्टकुले भूयो भक्तिश्च पुनरच्युते ।
उत्कृष्टतम एव स्यात् तथा जन्मनि जन्मनि ॥१४॥
अक्लिष्टमष्टधैश्वर्यं तत्प्रसादाद् भविष्यति ।
विहरेदिच्छया दीर्घं निर्वाणं वा तथाऽप्नुयात् ॥१५॥
भक्तेष्वस्य प्रसादेन भवितव्यं तु सर्वथा ।
भ्रष्टोऽपि विविधान् कामानाप्नुयान्न विमुच्यते ॥१६॥
किन्तु कर्मानुबन्धेन संसारे क्लेशसम्भवः ।
तस्मात् तद्भक्तिरेवास्य संपदां कारणं भवेत् ॥१७॥
तज्‌ज्ञानेन नृणां भक्तिर्वर्धनीया प्रयत्नतः ।
वर्धिता तु विशेषेण सैनं नयति सत्पथम् ॥१८॥
तस्मात् कार्यो विवेकोऽत्र गुणदोषा यथा स्थिताः ।
चिन्तयेदखिलान् दोषानेकान्ते शुद्धमानसः ॥१९॥
कामकोपादिभिर्मुक्तं मनः शुद्धं भविष्यति ।
अभ्यासेन भवेच्छुद्धिर्मनसो योगवर्त्मनि ॥२०॥
शुद्धे मनसि तद्भक्तिर्जायते तस्य निश्चला ।
तस्यां समुपजातायां तत्त्वे चेतोऽवतिष्ठते ॥२१॥
रागद्वेषपरीतस्य विफलं तत्त्वदर्शनम् ।
तस्मात् तौ पूर्वमुत्सार्यौ तत्त्वं सम्यग् दिदृक्षुणा ॥२२॥
पुण्यदेशेषु दृष्टेषु भयेषु मरणेषु च ।
तथा रोगावमानेषु वैराग्यमुपजायते ॥२३॥
मरणादिषु दृष्टेषु स्वयमेव समाहितः ।
बुद्ध्या विवेकमातिष्ठेन्नित्यं वैराग्यकारणम् ॥२४॥
विवेकाज्जायते भक्तिर्वैराग्यं चास्य सर्वदा ।
ततस्तत्त्वगता बुद्धिर्भविष्यत्यनपायिनी ॥२५॥
न भोगेषु प्रसक्तः स्यान्न कुर्याद् दुर्लभे मतिम् ।
अल्पेन परितुष्टः स्यान्नित्यं भागवतो बुधः ॥२६॥
विपाकं कर्मणामेव पश्येत् पश्यन् प्रियाप्रिये ।
इदं युक्तमिदं नेति नानुशोचेत् कदाचन ॥२७॥
प्रभुत्वं नात्मनः किञ्चिदिति पश्येद् विवेकवान् ।
घोषयेन्नैव कृत्यानि न कुर्यात् संभ्रमं क्वचित् ॥२८॥
न चाकाङ्क्षेद् यशः किञ्चिद् देवदेवस्य पूजनात् ।
यथा मनः प्रियेष्वेवं सक्तं देवे च भावयेत् ॥२९॥
नित्यं भक्तौ तु जातायां जायते तत्त्वदर्शनम् ।
तत्त्वविद् यत्र तत्रस्थो मुक्तसङ्गः परिव्रजेत् ॥३०॥
एक एव पुनस्तीर्थं क्षेत्रं चानुव्रजेत् सदा ।
भक्त्या देवमनुध्यायेत् तन्निष्ठस्तत्परायणः ॥३१॥
अन्तकाले च तं स्मृत्वा तत्सायुज्यमवाप्नुयात् ।
विरक्तोऽखिलतत्त्वानि विलाप्य परमात्मनि ॥३२॥
कृत्वा निर्विषयं चित्तमुदासीनो विमुच्यते ।
ऐश्वर्येऽपि स्थितो योगी न देवं जातु विस्मरेत् ॥३३॥
यतः कालक्रमेण स्यादुपघातोऽन्यथा ध्रुवम् ।
सायुज्यं प्रतिपन्नास्तु ये भक्ताः शुद्धचेतसः ॥३४॥
तेविष्णोः किङ्करा नित्यं भवन्ति निरुपद्रवाः ।
तेषां भक्त्पराधेन संसारः संभवेत् पुनः ॥३५॥
अन्यथा स्थितिरेव स्याद् वैराग्यान्मुक्तिरेव वा ।
निवृत्तास्तु विशिष्यन्ते सर्वेभ्यस्तत्त्वदर्शिनः ॥३६॥
नैव तेषां भवो भूयः प्रमादो वेह कश्चन ।
मुक्तिरेव तु विज्ञेया गतीनामुत्तमा गतिः ॥३७॥
अन्यास्तु गतयः सर्वाः सप्रमादाः स्युरध्रुवाः ।
तथाऽपि मतिवैचित्र्यादुभयं संमतं नृणाम् ॥३८॥
ऐश्वर्यमपवर्गो वा कस्यचित् किञ्चिदेव तु ।
तद्गता भक्तिरेवैषामुभयस्यापि साधनी ॥३९॥
समाधेर्वर्धमानस्य विभागाद् भेदकारिणः ।
सत्त्वस्थे यत्नतश्चित्ते योगाङ्गानि निषेवते ॥४०॥
तेषु स्थित्वा स्मरेद् विष्णुमेकाग्रेण तु चेतसा ।
तमः क्षरति तेनास्य रजश्च वशिनः क्रमात् ॥४१॥
ततो जन्मभिरुकृष्टैः सिद्धिमेवाधिगच्छति ।
यदा तु सत्त्वमातिष्ठेदस्पृष्टो रजसा क्वचित् ॥४२॥
ततोऽस्य मुक्तिरेव स्यात् सायुज्यं वा महात्मनः ।
तस्माद् भक्तिं सदाऽन्विच्छेद् याऽस्य सर्वस्य कारणम् ॥४३॥
भक्तावच्यमानायां भवेच्छ्रेयोऽस्य नान्यथा ।
अन्तरायास्तु ये नित्यं योगाभ्यासस्य दूषकाः ॥४४॥
तेषु प्रसज्यमानेषु तत्त्वदर्शनमाश्रयेत् ।
नातिवेलं सदाभ्यस्येन्न शरीरं च पीडयेत् ॥४५॥
विषयेभ्योऽपि यत्नेन निवर्तेत शनैः शनैः ।
अपूर्वदर्शने चैव लोकवादाश्रये तथा ॥४६॥
मोघचिन्ताप्रसङ्गे च योगमिच्छेन्नरो बुधः ।
निवृत्तेष्वेषु सर्वेषु भक्तिः पुंसो विवर्धने ॥४७॥
विषया दुस्त्यजाः सेव्या धर्मशास्त्राविरोधिनः ।
बह्वपायत्वयोगेन यत्नाद् वेच्छां निवर्तयेत् ॥४८॥
येभ्यो निवर्तमानस्य मनः शुद्धं भवेत् सदा ।
निवृत्तेरभ्युपायश्च शुद्धिरेव परात्मनः ॥४९॥
शुद्धावाद्रियमाणायां बीभत्सुर्विषयेष्वयम् ।
जायते नाशुचिष्वेव संसर्गोऽस्य भविष्यति ॥५०॥
अशुचीनामसंसर्गाच्चित्तमस्य प्रसीदति ।
प्रसादे निःस्पृहस्यास्य भक्तिर्मुक्तिस्ततो ध्रुवा ॥५१॥
शब्दादिविषयाञ् जित्वा रुद्धा द्वाराणि सर्वशः ।
प्रविलाप्येन्द्रियाण्यन्तश्चिन्तयेत् परमं पदम् ॥५२॥
संयम्य मारुतान् पञ्च योगाभ्यासेन योगवित् ।
स्थिरीकृतमना नित्यं ध्यायेत् तत् परमं पदम् ॥५३॥
वर्णाश्च पञ्चवायूनामन्तस्थानां विचिन्तयेत् ।
मध्ये मध्ये तु पुर्वेषां क्रमाद् ध्येयाः परे परे ॥५४॥
काशवर्णो भवेत् प्राणो रक्तोऽपानोऽस्य मध्यगः ।
विद्युत्स्फुरितभा व्यान उदानः कुन्दसन्निभः ॥५५॥
समानस्तु ततो ध्येयः शुद्धस्फटिकसन्निभः ।
एवं ध्यात्वा निरुध्यान्तः क्रमशः पञ्च मारुतान् ॥५६॥
षडङ्गानि च विज्ञाय प्रयुञ्जीत यथाविधि ।
प्राणायामोऽत्र पूर्वं तु प्रत्याहारोऽथ धारणा ॥५७॥
ततस्तर्कः समाधिश्च ध्यानं चाङ्गानि षट् क्रमात् ।
ये प्रोक्ता योगिभिः पूर्वं पूररेचककुम्भकाः ॥५८॥
प्राणायामास्तु विज्ञेया मात्राभिस्ते पृथक् क्रमात् ।
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥५९॥
क्रियते योऽङ्गुलिस्फोटः सा मात्रेह प्रकीर्तिता ।
यदा द्वादशमात्राभिः पूरकः क्रियते तदा ॥६०॥
रेचको द्विगुणाभिः स्यात् त्रिगुणाभिश्च कुम्भकः ।
प्राणानां यस्त्विहायामः क्रमादेवं प्रकीर्तितः ॥६१॥
सर्वशास्त्रेषु शास्त्रज्ञैः प्राणायामः स उच्यते ।
धारणा तु भवेद् या सा प्राणायामैस्त्रिभिः स्मृता ॥६२॥
श्यामा पीताऽरुणा शुक्ला क्रमाज्ज्ञेया च धारणा ।
नाभिमध्यगतेनादौ बीजेन पुरुषात्मना ॥६३॥
वायव्या धारणा कार्या सा श्यामा पूरकात्मिका ।
ततो विश्वात्मबीजेन रक्तेन हृदि या कृता ॥६४॥
आग्नेयी सा समुद्दिष्टा द्वितीया रेचका मता ।
कण्ठे निवृत्तिबीजेन पीतेन क्रियते तु या ॥६५॥
माहेन्द्री सा समुद्दिष्टा धारणा कुम्भकात्मिका ।
मूर्ध्नि सर्वात्मबीजेन शुक्लेनैतैस्त्रिभिस्त्रिभिः ॥६६॥
क्रियते धारणा यान्त्या वारुणी सा प्रकीर्तिता ।
स्थितेषु तेषु बीजेषु चैतन्यं धार्यते यदा ॥६७॥
तद्गुणान्वितमित्येव जगत् सर्वं तदा स्मरेत् ।
नाभ्यादिषु यथोद्दिष्टं बीजं भूतगुणात्मकम् ॥६८॥
क्रियाभिर्धार्यते याभिस्तत्क्रिया धारणा मता ।
अन्वयव्यतिरेकाभ्यां यस्माद् यदुपलभ्यते ॥६९॥
धारणादिषु कालेषु स तर्कः सम्प्रकीर्तितः ।
आवप्रयासरूपेण यथाकर्म गुणात्मकम् ॥७०॥
समाधिश्चेह विज्ञेयो धारणाभिस्त्रिभिस्त्रिभिः ।
ध्यातृध्येयस्वरूपं यत् तत्र रुन्ध्यात् प्रदर्शनम् ॥७१॥
समाधित्रिगुणं यावदेवं ध्यानस्य लक्षणम् ।
एवं सर्वात्मना यस्य ज्ञेयैस्तुल्यः कथञ्चन ॥७२॥
योगोऽसौ योगिभिः प्रोक्तो विज्ञानक्रमयोगतः ।
गुणानां यः समाहारः सहायस्य च चेतसः ॥७३॥
सद्भावभावतो बुद्ध्या स योगश्चेह कीर्तितः ।
स च ज्ञानक्रियाभेदाद् ज्ञेयो योगो द्विधा बुधैः ॥७४॥
अन्तः करणवृत्त्या या तेषामात्मैकता मता ।
ज्ञानयोगः स उद्दिष्टः कर्मयोगः क्रियात्मकः ॥७५॥
इष्ट्वाऽऽदौ कर्मयोगेन ज्ञानयोगेन तं यजेत् ।
कायिकैर्वाचिकैश्चैव मानसैश्च पुनः क्रमात् ॥७६॥
स्थूले निवेशितं चित्तं पुनः सूक्ष्मे निवेशयेत् ।
पररूपे यदा युक्तस्तदाऽसौ मुक्त उच्यते ॥७७॥
परात्परतरं ज्योतिश्चिद्रूपमचलं ध्रुवम् ।
यः प्रपश्यति बुद्ध्याऽसौ न पुनर्भुवि जायते ॥७८॥
तस्मात् सर्वप्रयत्नेन भक्तो योगी भवेत् सदा ।
युक्तो देवमुपासीत सिद्धिरेवं भविष्यति ॥७९॥
एवं ते सकलाऽऽख्याता मयाऽल्पा विष्णुसंहिता ।
साक्षाद्विष्णुमुखादेषा मया प्राप्ता युगान्तरे ॥८०॥
ज्ञानानां परमं ज्ञानं गुह्यानां गुह्यमुत्तमम् ।
हितानां च हितं नान्यदतो रक्ष्यमिदं त्वया ॥८१॥
यथाऽहं श्रुतवान् पूर्वं साक्षाद् भगवतो मुखात् ।
तथेदमखिलं तन्त्रं मया तुभ्यं निवेदितम् ॥८२॥
नादीक्षिताय दातव्यं नासंवत्सरवासिने ।
नाभक्तायाविनीताय नान्यभक्ताय वा क्वचित् ॥८३॥
कृतज्ञाय विनीताय शुचये ब्रह्मचारिणे ।
वक्तव्यं सर्वथाऽऽचार्यैरित्येवं विष्णुशासनम् ॥८४॥
गुप्तं हि स्थापयेत् सर्वमगुप्तं नाशयेन्नरः ।
तस्मात् सर्वप्रयत्नेन गोप्यमेतत् सदा बुधैः ॥८५॥
यः पठेच्छृणुयान्नित्यं श्रावयेद् वा समाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥८६॥
तस्माद् भक्तैरिदं नित्यमध्येयं श्राव्यमेव च ।
पुस्तके लिखितं नित्यं पूजनीयं प्रयत्नतः ॥८७॥
यत्रेदं प्रयतैर्नित्यं पूज्यते पुस्तकस्थितम् ।
न तत्र व्याधिचोरादिभयं किञ्चित् प्रजायते ॥८८॥
तस्मात् सर्वप्रयत्नेन गृहे सततमर्चयेत्  ।
स्थापयेद् गोपयेच्चात्र वर्धते श्रीरचञ्चला ॥८९॥

॥इति विष्णुसंहितायां त्रिंशः पटलः॥

N/A

References : N/A
Last Updated : January 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP