विष्णुसंहिता - अष्टाविंशः पटलः
विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.
अथ वक्ष्यामि संक्षेपात् कर्मशेषानहं तव ।
यद्योगाज्जायते सर्वं कर्माविकलमुत्तमम् ॥१॥
लेपादिदूषिते बिम्बे शुद्धिं कृत्वा यथोदिताम् ।
अभिषेकात् पुरा कार्याः शुद्धयोऽन्याश्च युक्तितः ॥२॥
वैष्णवानलनिर्दग्धब्रह्मत्वग्भस्ममिश्रितम् ।
तीर्थतोयं समालोड्य पञ्चपत्ररसं तथा ॥३॥
गोशृङ्गेणाभिषिच्यार्चां तत्पिष्टैर्लेपयेत् पुनः ।
सहादूर्वासदाभद्रासिद्धार्थरजनीयुतम् ॥४॥
दोषघ्नं क्षीरिणां त्वग्भिर्घर्षणं लेपनं तथा ।
दूर्वासिद्धार्थकल्केन सगव्येन च लेपनम् ॥५॥
चन्दनागरुकर्पूरक्षोदैर्धूपः पुरेण च ।
परितो दीपमाला च कपिलाज्याब्जसूत्रजा ॥६॥
पिप्पलत्वक्सहालक्ष्मीगन्धनागाब्जकेसरैः,
क्षीरित्वग्रससम्पिष्टैर्लेपनं पञ्चभिस्तथा ॥७॥
स्नानप्रकारमालेपं धूपनं च विशेषतः ।
सर्वदोषहरं कुर्याद् स्थानवृद्धिकरं परम् ॥८॥
पूरणं त्रिविधं प्रोक्तमन्नपुष्पजलैः शुभैः ।
पुष्टिदं जयदं पुण्यमपमृत्युहरं तथा ॥९॥
सर्वदोषहरं श्रेष्ठं पायसान्नेन पूरणम् ।
कन्दाज्यशर्करापूपकदलीफलसंयुतम् ॥१०॥
शुद्ध्यर्थं पुष्टिदं प्रोक्तं प्रायश्चित्तार्थमेव च ।
उत्सवेष्वपि कर्तव्यमात्माभ्युदयकाङ्क्षिभिः ॥११॥
धान्यतण्डुलवस्त्रस्थान् घटान् पञ्चाम्बुपूरितान् ।
हेमरत्नादिसंयुक्तान् सकूर्चान् पल्लवाञ्चितान् ॥१२॥
कमलादिभिराच्छाद्य कुशपुष्पाद्यलङ्कृताम् ।
वासोभिरहतैश्छन्नान् गन्धपुष्पैश्च पूजितान् ॥१३॥
सकलेन समालभ्य पञ्चभिः स्नापयेत् क्रमात् ।
तथा च गन्धैर्गव्यैश्च पयोदध्याज्यकादिभिः ॥१४॥
सम्पूज्य विधिवद् गन्धैरालिप्याच्छाद्य वाससा ।
सुगन्धिनाऽहतेनैव सपीठं कवचेन तु ॥१५॥
शुद्धपायसहारिद्रैस्तिलैः शुद्धविनिर्मितैः ।
पेयैर्लेह्यैश्च चोष्यैश्च कन्दमूलफलादिभिः ॥१६॥
सुरसैर्बहुभिर्दिव्यैः सोपदंशैः समन्ततः ।
दधिक्षीरगुलाज्यैश्च कालपक्कैश्च पूरयेत् ॥१७॥
शीतेनान्नेन पूरः स्यादन्नसूक्तादिभिः शुभैः ।
स्थापयेद् घटिकाः सप्त नादयेत् तूर्यनिस्वनैः ॥१८॥
निवेदयेच्चतुर्दिक्षु पायसादि यथाक्रमम् ।
पञ्चभिर्व्रह्मसूक्तेन समिदाज्यचरून् क्रमात् ॥१९॥
अष्टोत्तरशतं हुत्वा दिक्षु भूतबलिं हरेत् ।
ततोऽनुज्ञाप्य तत् सर्वं विसृज्याप्सु विनिक्षिपेत् ॥२०॥
ततश्चाराधयेत् सम्यगन्नाद्यं चोत्सवं पुनः ।
स्नपनं कारयेदेवं सर्वसम्पद् भविष्यति ॥२१॥
वर्णसङ्करविप्रैस्तु स्पृष्टेऽष्टशतमादिशेत् ।
सवर्णगामिभिश्चैवं ब्रह्मघ्नेऽष्टसहस्रकम् ॥२२॥
जलसंप्रोक्षणं चात्र गुरुतल्पगते तथा ।
सुवर्णस्तेयसंसर्गे जलसंप्रोक्षणं तथा ॥२३॥
द्विजानां भोजनं चात्र स्नपनं चैव कारयेत् ।
सुरापैरपि संस्पृष्टे जलसंप्रोक्षणादिकम् ॥२४॥
गोदानं बहुविप्राणामन्नाद्यं स्नपनं तथा ।
ब्रह्महत्यादिसंसृष्टैर्यादि स्पृष्टो जनार्दनः ॥२५॥
जलसंप्रोक्षणस्नानहोमाध्ययनभोजनैः ।
भूहेमकपिलादानपारायणशतं तथा ॥२६॥
एकसंपर्कविप्रेण प्रमादाद् यदि गम्यते ।
गेहं वा देवबिम्बं वा जलसंप्रोक्षणं तथा ॥२७॥
बहुसंपर्कविप्रैस्तु स्पृष्टे बहुगुणं तथा ।
चण्डालश्वपचैः स्पृष्टे प्रासादे बिम्ब एव वा ॥२८॥
अर्चाद्रव्ये च संस्पृष्टे जलसंप्रोक्षणादिकम् ।
पञ्च षट् सप्त वाऽहानि महास्नानं द्विजार्चनम् ॥२९॥
सप्तकारुजनैः स्पृष्टे बिम्बे प्रासाद एव वा ।
जलसंप्रोक्षणस्नानगोदानान्नाद्यविस्तरः ॥३०॥
चोररूपेण शूद्रास्तु संस्पृष्टा प्रतिमा यदा ।
जलसंप्रोक्षणान्नाद्यस्नपनैः सुद्धिरिष्यते ॥३१॥
चोररूपेण वैश्यैस्तु जलसंप्रोक्षणं क्रमात् ।
स्नपनं भोजनं चैव कारयेत् सुसमाहितः ॥३२॥
मोहादथार्थकामाद् वा चोररूपेण चेन्नृपैः ।
जलसंप्रोक्षणेनैव शुद्धिः स्यान्नात्र संशयः ॥३३॥
वर्णोत्तमेव चेत् स्पष्टश्चोररूपेण केशवः ।
स्नपनं कारयेत् तत्र षोडशैव घटाः स्मृताः ॥३४॥
अस्नात्वा यदि भक्त्या तु मन्त्रसंस्कारवर्जितम् ।
द्विजोत्तमेन स्पृश्येत पञ्चगव्येन शोधयेत् ॥३५॥
नृपेण यदि भक्त्या तु स्पृष्टो देवो जनार्दनः ।
यथोक्तैर्नवभिः कुम्भैः स्नपनेनैव शुध्यति ॥३६॥
वैश्येन यदि संस्पृष्टो भक्त्या मन्त्रविवर्जितम् ।
पञ्चाशत्कलशैरेव स्नपेन विशुध्यति ॥३७॥
स्पृष्टः शूद्रेण भक्त्या तु मन्त्रसंस्कारवर्जितम् ।
अष्टोत्तरशतेनैव कर्तव्यं स्नपनं पुनः ॥३८॥
सप्तकारुजनैश्चापि भक्त्या स्पृष्टे जनार्दने ।
जलसंप्रोक्षणेनात्र स्नपनेन च शुध्यति ॥३९॥
एतेषां चेत् स्त्रिया स्पृष्टो मोहाद् वा यदि कामतः ।
पूर्वोक्ता निष्कृतिः कार्या शेषं ब्राह्मणपूजनम् ॥४०॥
गोदानं च पुनः कुर्याद् गव्यस्नानं च युक्तितः ।
ब्राह्मण्या चोरमार्गेण स्पृष्टे तु मधुसूदने ॥४१॥
स्नपनं कारयेच्छक्त्या ब्राह्मणानां च भोजनम् ।
राजन्यवैश्ययोः स्पर्शे मोहाद् वा चौर्यकेण वा ॥४२॥
जलसंप्रोक्षणं स्नानं विप्रभोजनसंयुतम् ।
शूद्रा यदि स्पृशेच्चौर्याद् गर्भगेहं तु वा विशेत् ॥४३॥
जलसंप्रोक्षणं कुर्यान्महास्नपनसंयुतम् ।
अन्त्यजानां शुनां वाऽपि गर्भे कारुस्रियाऽपि वा ॥४४॥
प्रसूते प्रोक्षणं कुर्याद् द्वादशाहं दशैव वा ।
महास्नानं च कर्तव्यमुत्सवान्नाद्यसंयुतम् ॥४५॥
वर्णजा यदि सूयेत् प्रमादाद् देवमन्दिरे ।
जलसंप्रोक्षणं कृत्वा महास्नानेन शुध्यति ॥४६॥
क्षत्रिया वाऽथ वैश्या वा यद्यज्ञानात् प्रसूयते ।
जलसंप्रोक्षणं कुर्यात् त्रिदिनं वा चतुर्दिनम् ॥४७॥
द्विगुणं सूतशावर्तुसूतिकादाहकैः क्रमात् ।
एवं मार्गेण वै कुर्याज्जलसंप्रोक्षणं बुधः ॥४८॥
पारायणं चाध्ययनं गोदानं भोजनं तथा ।
बलिभ्रमण्वेलायां तत्पात्रं यानमेव वा ॥४९॥
पतेद् यस्मिन् दिशाभागे तन्मन्त्रेणात्र होमयेत् ।
घृतेन हविषा चैव पालाशाष्टशतेन च ॥५०॥
तथा नित्यबलिस्पर्शे कृते श्वानद्विकादिभिः ।
मूलमन्त्रद्वयेनैव पञ्चोपनिषदा तथा ॥५१॥
विष्णुसूक्तेन चैवात्र होमं कुर्यात् समाहितः ।
प्रायश्चित्तेषु सर्वेषु जपहोमेषु शस्यते ॥५२॥
अष्टाक्षरं स्वसंख्यानं द्वादशाक्षरमेव वा ।
पात्रं प्रक्षाल्य तु स्नात्वा कृत्वा न्यासं यथाविधि ॥५३॥
सम्यगावृत्य तां भूमिं गोमयेनोपलिप्य च ।
पायसं श्रवयेन्मन्त्री घृतमिश्रं सुशोभनम् ॥५४॥
व्रिहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोऽथ तण्डुलान् ।
कुशपुष्पाणि विन्यस्य प्रोक्ष्यास्त्रेण समाहितः ॥५५॥
मूलेन विन्यसेत् पात्रं प्रणवेन स्पशेत् पुनः ।
ततश्चास्त्रेण संप्रोक्ष्य दक्षिणे शान्तिमर्चयेत् ॥५६॥
हुत्वाऽन्नं मूलमन्त्रेण प्रणवेनाज्यमेव च ।
अष्टोत्तरशतं वाऽपि सहस्रं वा यथाक्रमम् ॥५७॥
हविःशेषं ततः पश्चाद् बलिपात्रे विनिक्षिपेत् ।
तत् कृत्वा लिङ्गवत् प्रोक्ष्य मूलेनावाह्य पूर्ववत् ॥५८॥
कर्मार्चां शोधयित्वा वा तस्यामावाह्य पूजयेत् ।
पाद्यार्घ्याचमनं दत्त्वा गम्धपूष्पैरथर्चयेत् ॥५९॥
नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः ।
उद्धृत्य व्याहृतीर्जप्त्या मूर्ध्रि तारेण विन्यसेत् ॥६०॥
शङ्खतूर्यादिसंयुक्तं शनैर्गत्वा प्रदक्षिणम्,
अन्तः प्रविश्य तत् पात्रमैशान्यां स्थापयेद् बुधः ॥६१॥
उद्वास्य क्षालितं त्यक्त्वा पात्रमन्यत् समाहरेत् ।
अनुयागे नवं बिम्बं शोधयित्वाऽधिवासयेत् ॥६२॥
वैष्णवाग्नौ तु जुहुयात् प्रायश्चित्तं विशेषतः ।
पञ्चोपनिषदैर्मन्त्रैराचार्यः सुसमाहितः ॥६३॥
पूर्णाहुतिं ततो दद्याद् द्वादशाक्षरविद्यया ।
अष्टाक्षरेण जुहुयात् समिदाज्यचरून् क्रमात् ॥६४॥
सहस्रं वा शतं वाऽपि पञ्चविंशतिमेव वा ।
लोहकुम्भं तु संगृह्य सुदुढं सूत्रवेष्टितम् ॥६५॥
पूरयित्वा तु विधना सरत्नं हेमसंयुतम् ।
बीजैः सर्वैः समायुक्तं स्थापयेत् तत्र सुस्थितम् ॥६६॥
तत्रावाह्य हरिं पश्चात् पूजयेच्च विधानतः ।
पूर्वोक्तेनैव मार्गेण शेषं कर्म समाचरेत् ॥६७॥
स्नपनं चोत्सवं कुर्याद् विधिदृष्टेन कर्मणा ।
संवत्सरं नरो भक्त्या समभ्यर्च्य जनार्दनम् ॥६८॥
यत् फलं समवाप्नोति पवित्रारोहणेन तत् ।
न करोति विधानेन पवित्रारोहणं तु यः ॥६९॥
तस्य सांवत्सरी पूजा निष्फला कथिता बुधैः ।
तस्मात् कर्तव्यमब्देऽब्दे पवित्रारोहणं हरेः ॥७०॥
श्रवणस्य सिते पक्षे द्वादश्यां तु यथाविधि ।
सिंहस्थे वा रवौ कार्यं कन्यायां तु स्थितेऽथवा ॥७१॥
कन्यया कर्तितं सूत्रं कार्पासं पद्मजं तु वा ।
क्षौमसूत्रं तु वा कुर्यादलाभे दर्भसम्भवम् ॥७२॥
नोपयुक्तं क्रियायां स्यादन्यभक्तादिदूषितम् ।
त्रिगुणेन त कर्तव्यं हीनमद्योत्तमं त्रिधा ॥७३॥
तत् सप्तविंशकं कुर्याच्चतुष्पञ्चाशकं तथा ।
अष्टोत्तरशतं वा स्याद् वनमाला सहस्रिका ॥७४॥
फलं च मानुषं दिव्यं सालोक्यं मुक्तिरेव च ।
नाभ्यूरुजानुमात्रं स्यात् परं बिम्बप्रमाणतः ॥७५॥
ग्रन्थयो द्वादश प्रोक्ता द्विगुणास्रिगुणास्तथा ।
कर्तव्यं वनमालायां शतमष्टोत्तरं सदा ॥७६॥
अधिवासनसूत्रे तु ग्रन्थयो द्वादशैव तु ।
मन्त्रो द्विजोष्विदंविष्णुरन्येषु द्वादशाक्षरम् ॥७७॥
तावदावर्तयेन्मन्त्रं यावन्तो ग्रन्थयः कृताः ।
एकधा च द्विधा चैव त्रिधा चापि पवित्रके ॥७८॥
कुङ्कुमोशीरकर्पूरचन्दनादिविलेपनैः ।
ग्रन्थिमध्ये विलिप्याथ तत्त्वन्यासं तु योजयेत् ॥७९॥
अधिवास्य पवित्राणि चैकादश्यामुपोषितः ।
गन्धपुष्पैः सम्भ्यर्च्य न्यसेद् देवाग्रतो निशि ॥८०॥
तत्त्वज्ञानपरैः कार्यं पवित्रारोहणं हरेः ।
एकादश्यां तदभ्यर्च्य मूलमन्त्रेण भक्तिमान् ॥८१॥
भूषादामनिवेद्यैश्च संपूज्य गरुडध्वजम् ।
नृत्तगीतादिसंयुक्तं जागरं तत्र कारयेत् ॥८२॥
सोपवासः शुचिर्भूत्वा कृतजप्यो जितेन्द्रियः ।
दद्यात् दानं द्विजाग्रेभ्यो भक्त्याऽभ्यर्च्य हरिं स्मरन् ॥८३॥
तत्राधिवासितं प्रातस्तदादाय पवित्रकम् ।
अतोदेवेति सूक्तेन विष्णोर्मूर्ध्नि निवेशयेत् ॥८४॥
शूद्रस्तु मूलमन्त्रेण येन वा पूजयेद्धरिम् ।
वेदघोषैर्जयस्तोत्रगीतमङ्गलनिस्वनैः ॥८५॥
पवित्रारोहणं कुर्याद् देवं विज्ञापयेत् ततः ।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥८६॥
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज! ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन! ॥८७॥
यत् पूजितं मया देव! परिपूर्णं तदस्तुते ।
वनमालां यथा देव! कौस्तुभं सततं हृदि ॥८८॥
तद्वत् पवित्रतन्तूंश्च पूजां चेमां हृदा वह ।
इति विज्ञाप्य देवेशं भक्त्याऽऽनम्य क्षमापयेत् ॥८९॥
ततश्च दद्याद् विप्रेभ्यो हरिमुद्दिश्य दक्षिणाम् ।
ततोऽनुपूजयेद् भक्त्या गुरुमन्यांश्च भक्तितः ॥९०॥
मूलमन्त्रेण जुहुयाद् वह्नौ सघृतयावकम् ।
ततश्च पूजयेत् भक्त्या विप्रान् दद्याच्च दक्षिणाम् ॥९१॥
सर्वांश्चैवार्थिनः शक्त्या पूजयेदोदनादिभिः ।
यावत्तत्त्वयुता पूजा तावत्योऽङ्गुलयोऽत्र वा ॥९२॥
यावन्तो ग्रन्थयश्चोक्तास्तत्त्वैस्तैरनुमन्त्रयेत् ।
सांवत्
॥इति विष्णुसंहितायां अष्टाविंशः पटलः॥
N/A
References : N/A
Last Updated : January 01, 2021
TOP