मध्यखण्डम् - प्रथमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अथ पञ्च कषायाः
अथातः स्वरसः कल्कः क्वाथश्च हिमफाण्टकौ
ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् ॥१॥

स्वरसस्य लक्षणम्
आहतात्तत्क्षणाकृष्टाद् द्र व्यात् क्षुण्णात्समुद्धरेत्
वस्त्रनिष्पीडितो यः स रसः स्वरस उच्यते ॥२॥

स्वरसस्य द्वितीयं लक्षणम्
कुडवं चूर्णितं द्र व्यं क्षिप्तं च द्विगुणे जले
अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः ॥३॥

स्वरसस्य तृतीयं लक्षणम्
आदाय शुष्कद्र व्यं वा स्वरसानामसम्भवे
जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते ॥४॥

स्वरसमात्रा
स्वरसस्य गुरुत्वाच्च पलमर्धं प्रयोजयेत्
निशोषितं चाग्निसिद्धं पलमात्रं रसं पिबेत् ॥५॥

स्वरसे प्रक्षेप्यद्र व्याणि तेषां परिमाणं च
मधुश्वेतागुडक्षाराञ्जीरकं लवणं तथा
घृतं तैलं च चूर्णादीन्कोलमात्रान् रसे क्षिपेत् ॥६॥

अथ रोगानुसारेण स्वरसप्रयोगाः
तत्र प्रमेहेऽमृतास्वरसो धात्रीस्वरसश्चस तथा
अमृताया रसः क्षौद्र युक्तः सर्वप्रमेहजित्
हरिद्रा चूर्णयुक्तो वा रसो धात्र्! याः समाक्षिकः ॥७॥

रक्तपित्तादिषु वासकस्वरसः
वासकस्वरसः पेयो मधुना रक्तपित्तजित्
ज्वरकासक्षयहरः कामलाश्लेष्मपित्तहा ॥८॥

कामलायां त्रिफलाऽदीनां स्वरसचतुष्टयम्
त्रिफलाया रसः क्षौद्र युक्तो दार्वीरसोऽथ वा
निम्बस्य वा गुडूच्या वा पीतो जयति कामलाम् ॥९॥

विषमज्वरे तुलसीद्रो णपुष्पीपत्रस्वरसौ
पीतो मरिचचूर्णेन तुलसीपत्रजो रसः
द्रो णपुष्पीरसो वाऽपि निहन्ति विषमज्वरान् ॥१०॥

रक्तातीसारे जम्ब्वादिस्वरसः
जम्ब्वाम्रामलकीनां च पल्लवोत्थो रसो जयेत्
मध्वाज्यक्षीर संयुक्तो रक्तातीसारमुल्बणम् ॥११॥

सर्वातिसारे निष्कण्टकबब्बूलदल कुटजादित्वक् स्वरसौ
स्थूलबब्बूलिकापत्ररसः पानाद्व्यपोहति
सर्वातिसारान्श्योनाककुटजत्वग्रसोऽथ वा ॥१२॥

वृषणवातप्रतिश्यायादिष्वार्द्र कस्वरसः
आर्द्र कस्वरसः क्षौद्र युक्तो वृषणवातनुत्
श्वासकासारुचीर्हन्ति प्रतिश्यायं व्यपोहति ॥१३॥

पार्श्वदिशूलादिषु बीजपूरस्वरसः
बीजपूररसः पानान्मधुक्षारयुतो जयेत्
पार्श्वहृद्वस्तिशूलानि कोष्ठवातं च दारुणम् ॥१४॥

पित्तशूले शतावरीस्वरसः प्लीहाऽपच्योः कन्यास्वरसश्च
शतावर्याश्च मधुना पित्तशूलहरो रसः
निशाचूर्णयुतः कन्यारसः प्लीहाऽपचीहरः ॥१५॥

अपच्यादावलम्बुषास्वरसः
अलम्बुषायाः स्वरसः पीतो द्विपलमात्रया
अपचीगण्डमालानां कामलायाश्च नाशनः ॥१६

सूर्यावर्त्तार्धभेदकयोर्मुण्डीस्वरसः
शशमुण्ड्या रसः कोष्णो मरिचैरवधूलितः
जयेत्सप्तदिनाभ्यासात्सूर्यावर्त्तार्धभेदकौ ॥१७॥

सर्वोन्मादे ब्राह्म्यादीनां स्वरसचतुष्टयम्
ब्राह्मीकूष्माण्डषड्ग्रन्थाशङ्खिनीस्वरसाः पृथक्
मधुकुष्ठयुताः पीताः सर्वोन्मादापहारिणः ॥१८॥

कोद्र वजमदे कूष्माण्डकस्वरसः
कूष्माण्डकस्य स्वरसो गुडेन सह योजितः
दुष्टकोद्र वसञ्जातमदं पानाद्व्यपोहति ॥१९॥

खड्गादिक्षतव्रणे गाङ्गेरुकीस्वरसः
खड्गादिच्छिन्नगात्रस्य तत्कालं पूरितो व्रणः
गाङ्गेरुकीमूलरसैर्जायते गतवेदनः ॥२०॥

अथ पुटपाकप्रकरणम्
तत्र पुटपाकविधिकथने हेतुः
पुटपाकस्य कल्कस्य स्वरसो गृह्यते यतः
अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया ॥२१॥

पुटपाकविधिः
पुटपाकस्य मात्रेयं लेपस्याङ्गारवर्णता
लेपं च द्व्यङ्गुलं स्थूलं कुर्याद्वाऽङगुष्ठमात्रकम् ॥२२॥

काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम्
पलमात्रं रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत्
कल्कचूर्णद्र वाद्यास्तु देयाः स्वरसवद् बुधैः ॥२३॥

सर्वातिसारे कुटजपुटपाकः
तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा ॥२४॥

पिष्टां चतुष्पलमितो जम्बूपल्लववेष्टिताम्
सूत्रेण बद्धां गोधूमपिष्टेन परिवेष्टिताम् ॥२५॥

लिप्तां च घनपङ्केन गोमयैर्वह्निना दहेत्
अङ्गारवर्णां च मृदं दृष्ट्वा वह्नेः समुद्धरेत् ॥२६॥

ततो रसं गृहीत्वा च शीतं क्षौद्र युतं पिबेत्
जयेत्सर्वानतीसारान्दुस्तरान्सुचिरोत्थितान् ॥२७॥

तण्डुलोदकविधिः
कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत्
भावयित्वा जलं ग्राह्यं देयं सर्वत्र कर्मसु ॥२८॥

सर्वातिसारेऽरलूपुटपाकः
अरलूत्वक्कृतश्चैव पुटपाकोऽग्निदीपनः
मधुमोचरसाभ्यां च युक्तः सर्वातिसारनुत् ॥२९॥

सर्वातिसारे न्यग्रोधादितित्तिरपुटपाकः
न्यग्रोधादेश्च कल्केन पूरयेद्गौरतित्तिरेः
निरन्त्रमुदरं सम्यक्पुटपाकेन तत्पचेत्
तत्कल्कस्य रसः क्षौद्र युक्तः सर्वातिसारनुत् ॥३०॥

सर्वातिसारे दाडिमपुटपाकः
पुटपाकेन विपचेत्सुपक्वं दाडिमीजलम्
तद्र सो मधुसंयुक्तः सर्वातीसारनाशनः ॥३१॥

छर्द्यां बीजपूरादिपुटपाकः
बीजपूराम्रजम्बूनां पल्लवानि जटाः पृथक् ॥३२॥

विपचेत्पुटपाकेन क्षौद्र युक्तश्च तद्र सः
छर्दिं निवारयेद्धोरां सर्वदोषसमुद्भवाम् ॥३३॥

रक्तपित्तादौ वासापुटपाकः
पिष्टानां वृषपत्राणां पुटपाकरसो हिमः
मधुयुक्तो जयेद्र क्तपित्तकासज्वरक्षयान् ॥३४॥

कासश्वासादौ कण्टकारीपुटपाकः
पचेत्क्षुद्रा ं! सपञ्चाङ्गां पुटपाकेन तद्र सः
पिप्पली चूर्णसंयुक्तः कासश्वासकफापहः ॥३५॥

कासादौ बिभीतकपुटपाकः
बिभीतकफलं किञ्चिद् घृतेनाभ्यज्य लेपयेत्
गोधूमपिष्टेनाङ्गारैर्विपचेत्पुटपाकवत् ॥३६॥

ततः पक्वं समुद्धृत्य त्वचं तस्य मुखे क्षिपेत्
कासश्वासप्रतिश्यायस्वरभङ्गाञ्जयेत्ततः ॥३७॥

आमातीसारे शुण्ठीपुटपाकः
चूर्णं किञ्चिद् घृताभ्यक्तं शुण्ठ्या एरण्डजैर्दलैः
वेष्टितं पुटपाकेन विपचेन्मन्दवह्निना ॥३८॥

तत उद्धृत्य तच्चूर्णं ग्राह्य प्रातः सितासमम्
येन यान्ति शमं पीडा आमातीसारसंभवाः ॥३९॥

आमवातेऽन्य शुण्ठीपुटपाकः
शुण्ठीकल्कं विनिक्षिप्य रसैरेरण्डमूलजैः
विपचेत्पुटपाकेन तद्र सः क्षौद्र संयुतः
आमवातसमुद्भूतां पीडां जयति दुस्तराम् ॥४०॥

अर्शोरोगे सूरणपुटपाकः
सौरणं कन्दमादाय पुटपाकेन पाचयेत्
सतैललवणस्तस्य रसश्चार्शोविकारनुत् ॥४१॥

हृच्छूले पुटपाकजमृगशृङ्गभस्म
शरावसम्पुटे दग्धं शृङ्गं हरिणजं पिबेत्
गव्येन सर्पिषा युक्तं हृच्छूलं नाशयेद् ध्रुवम् ॥४२॥

इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे स्वरसादिकल्पना नाम प्रथमोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP