मध्यखण्डम् - नवमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


घृततैलकल्पना

कल्काच्चतुर्गुणीकृत्य घृतं वा तैलमेव वा
चतुर्गुणे द्र वे साध्यं तस्य मात्रा पलोन्मिता ॥१॥

स्नेहसाधनार्थं क्वाथपरिभाषा
निक्षिप्य क्वाथयेत्तोयं क्वाथ्यद्र व्याच्चतुर्गुणम्
पादशिष्टं गृहीत्वा च स्नेहं तेनैव साधयेत् ॥२॥

मृदुद्र व्यादौ क्वथने जलप्रमाणम्
चतुर्गुणं मृदुद्र व्ये कठिनेऽष्टगुणं जलम्
तथा च मध्यमे द्र व्ये दद्यादष्टगुणं पयः
अत्यन्तकठिने द्र व्ये नीरं षोडशकं मतम् ॥३॥

मतान्तरे परिमाणविशेषः
कर्षादितः पलं यावत्क्षिपेत्षोडशकं जलम् ॥४॥

तदूर्ध्वं कुडवं यावद्भवेदष्टगुणं पयः
प्रस्थादितः क्षिपेन्नीरं खारीं यावच्चतुर्गुणम् ॥५॥

अम्ब्वादिभिर्यत्र स्नेहसाधनं तत्र कल्कप्रमाणम्
अम्बुक्वाथरसैर्यत्र पृथक्स्नेहस्य साधनम्
कल्कस्यांशं तत्र दद्याच्चतुर्थं षष्ठमष्टमम् ॥६॥

दुग्धादिपाकपरिभाषा
दुग्धे दध्नि रसे तक्रे कल्को देयोऽष्टमांशकः
कल्कस्य सम्यक्पाकार्थं तोयमत्र चतुर्गुणम् ॥७॥

स्नेहे पञ्चाधिकद्र वव्यवस्था
द्र वाणि यत्र स्नेहेषु पञ्चादीनि भवन्ति हि
तत्र स्नेहसमान्याहुर्यथापूर्वं चतुर्गुणम् ॥८॥

केवलद्र व्यस्य स्नेहपाकार्थं मानम्
द्र व्येण केवलेनैव स्नेहपाको भवेद्यदि
तत्राम्बुपिष्टः कल्कः स्याज्जलं चात्र चतुर्गुणम् ॥९॥

केवलक्वाथस्य स्नेहपाकार्थं मानम्
क्वाथेन केवलेनैव पाको यत्रेरितः क्वचित्
क्वाथ्यद्र व्यस्य कल्कोऽपि तत्र स्नेहे प्रयुज्यते ॥१०॥

कल्कहीनस्नेहपाकविधिः
कल्कहीनस्तु यः स्नेहः स साध्यः केवले द्र वे ॥११॥

पुष्पकल्कस्नेहपाकविधिः
पुष्पकल्कस्तु यः स्नेहस्तत्र तोयं चतुर्गुणम्
स्नेहे स्नेहाष्टमांशश्च पुष्पकल्कः प्रयुज्यते ॥१२॥

स्नेहसिद्धलक्षणम्
वर्त्तिवत्स्नेहकल्कः स्याद्यदाङ्गुल्याविमर्दितः
शब्दहीनोग्निनिक्षिप्तःस्नेहःसिद्धोभवेत्तदा ॥१३॥

घृततैलपाकयोः सिद्धौ स्वरूपनिर्देशः
यदा फेनोद्गमस्तैले फेनशान्तिश्च सर्पिषि
गन्धवर्णरसोत्पत्तिः स्नेहः सिद्धस्तदा भवेत् ॥१४॥

स्नेहपाकस्य भेदास्तल्लक्षणानि च
स्नेहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा
ईषत्सरसकल्कस्तु स्नेहपाको मृदुर्भवेत् ॥१५॥

मध्यपाकस्य सिद्धिश्च कल्के नीरसकोमले
ईषत्कठिनकल्कश्च स्नेहपाको भवेत्खरः
तदूर्ध्वं दग्धपाकः स्याद्दाहकृन्निष्प्रयोजनः ॥१६॥

आमपाकस्नेहगुणाः
आमपाकश्च निर्वीर्यो वह्निमान्द्यकरो गुरुः ॥१७॥

मृद्वादिपाकस्नेहानां नियमाः
नस्यार्थं स्यान्मृदुः पाको मध्यमः सर्वकर्मसु
अभ्यङ्गार्थं खरः प्रोक्तो युञ्ज्यादेवं यथोचितम् ॥१८॥

घृतादिसाधने कालनिर्देशः
घृततैलगुडादींश्च साधयेन्नैकवासरे
प्रकुर्वन्त्युषिता ह्येते विशेषाद् गुणसञ्चयम् ॥१९॥

अथ घृतकल्पना
क्षीरषट्पलघृतं विषमज्वरादौ
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
ससैन्धवैश्च पलिकैर्घृतप्रस्थं विपाचयेत्
क्षीरं चतुर्गुणं दत्त्वा तद् घृतं प्लीहनाशनम्
विषमज्वरमन्दाग्निहरं रुचिकरं परम् ॥२०॥

चाङ्गेरीघृतमतीसारग्रहण्योः
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली
श्वदंष्ट्रा नागरं धान्यं पाठा बिल्वं यवानिका ॥२१॥

द्र व्यैश्च पलिकैरेतैश्चतुः षष्टिपलं घृतम्
घृताच्चतुर्गुणं दद्याच्चाङ्गेरीस्वरसं बुधः ॥२२॥

तथा चतुर्गुणं दत्त्वा दधि सर्पिर्विपाचयेत्
शनैः शनैर्विपक्तव्यं चाङ्गेरीघृतमुत्तमम् ॥२३॥

तद् घृतं कफवातघ्नं ग्रहण्यर्शोविकारनुत्
हन्त्यानाहं गुदभ्रंशं मूत्रकृच्छ्रं प्रवाहिकाम् ॥२४॥

मसूरघृतमतीसारादौ
मसूराणां पलशतं नीरद्रो णे विपाचयेत्
पादशेषं शृतं नीत्वा दत्त्वा बिल्वपलाष्टकम् ॥२५॥

घृतप्रस्थं पचेत्तेन सर्वातीसारनाशनम्
ग्रहणीं भिन्नविट्कं च नाशयेच्च प्रवाहिकाम् ॥२६॥

कामदेवघृतं रक्तपित्तादौ
अश्वगन्धा तुलैका स्यात्तदर्धो गोक्षुरः स्मृतः
बलाऽमृता शालिपर्णी विदारी च शतावरी ॥२७॥

अश्वत्थस्य च शुङ्गानि पद्मबीजं पुनर्नवा
काश्मर्याश्च फलं चैव माषबीजं तथैव च ॥२८॥

पृथग्दशपलान् भागाँ श्चतुद्रो र्णे!ऽम्भसि पचेत्
द्रो णशेषे रसे तस्मिन् पचेच्चैव घृताढकम् ॥२९॥

मृद्वीका पद्मकं कुष्ठं पिप्पली रक्तचन्दनम्
पत्रकं नागपुष्पं च आत्मगुप्ताफलं तथा ॥३०॥

नीलोत्पलं सारिवे द्वे जीवनीयो गणस्तथा
पृथक् कर्षसमा भागाः शर्करायाः पलद्वयम् ॥३१॥

रसश्च पौण्ड्रकेक्षूणामाढकैकं समाहरेत्
चतुर्गुणेन पयसा घृताढकं विपाचयेत् ॥३२॥

घृतमेतन्निहन्त्याशु रक्तपित्तमुरःक्षतम्
हलीमकं पाण्डुरोगं वर्णभेदं स्वरक्षयम् ॥३३॥

मूत्रकृच्छ्रमुरोदाहं पार्श्वशूलं च नाशयेत्
एतत् सर्पिः प्रयोक्तव्यं बह्वन्तः पुरवासिनाम् ॥३४॥

स्त्रीणां चैवाप्रजातानां दुर्बलानां च देहिनाम्
श्रेष्ठं बलकरं वर्ण्यं हृद्यं पुष्टिरसायनम् ॥३५॥

ओजस्तेजस्करं हृद्यमायुष्यं प्राणवर्द्धनम्
संवर्द्धयति शुक्रस्य पुरुषं दुर्बलेन्द्रि यम् ॥३६॥

सर्वरोगविनिर्मुक्तः पयःसिक्तो यथा द्रुमः
कामदेव इति ख्यातं सर्पिरुक्तं महागुणम् ॥३७॥

पानीयकल्याणकं घृतमपस्मारादौ
त्रिफला द्वे निशे कौन्ती सारिवे द्वे प्रियङ्गुका
शालिपर्णी पृष्ठिपर्णी देवदार्व्येलवालुकम् ॥३८॥

नतं विशाला दन्ती च दाडिमं नागकेशरम्
नीलोत्पलैला मञ्जिष्ठा विडङ्गं कुष्ठपद्मकम् ॥३९॥

जातिपुष्पं चन्दनं च तालीसं बृहती तथा
एतैः कर्षसमैः कल्कैर्जलं दत्त्वा चतुर्गुणम् ॥४०॥

घृतप्रस्थं पचेद्धीमानपस्मारे ज्वरे क्षये
उन्मादे वातरक्ते च कासे मन्दानले तथा ॥४१॥

प्रतिश्याये कटीशूले तृतीयक चतुर्थके
मूत्रकृच्छ्रे विसर्पे च कण्डूपाण्ड्वामये तथा ॥४२॥

विषद्वये प्रमेहेषु सर्वथैवोपयुज्यते
वन्ध्यानां पुत्रदं भूतयक्षरक्षोहरं स्मृतम् ॥४३॥

अमृताघृतं कुष्ठादौ
अमृताक्वाथकल्काभ्यां सक्षीरं विपचेद् घृतम्
वातरक्तं जयत्याशु कुष्ठं जयति दुस्तरम् ॥४४॥

महातिक्तकघृतं वातरक्तकुष्ठादौ
सप्तच्छदः प्रतिविषा शम्याकः कटुरोहिणी
पाठा मुस्तमुशीरं च त्रिफला पर्पटस्तथा ॥४५॥

पटोलनिम्बमञ्जिष्ठाः पिप्पली पद्मकं शटी
चन्दनं धन्वयासश्च विशाले द्वे निशे तथा ॥४६॥

गुडूची सारिवे द्वे च मूर्वा वासा शतावरी
त्रायन्तीन्द्र यवा यष्टी भूनिम्बश्चाक्षभागिकाः ॥४७॥

घृतं चतुर्गुणं दद्यात् घृतादामलकीरसः
द्विगुणः सर्पिषश्चात्र जलमष्टगुणं भवेत् ॥४८॥

तत्सिद्धं पाययेत्सर्पिर्वातरक्तेषु सर्वथा
कुष्ठानि रक्तपित्तं च रक्तार्शांसि च पाण्डुताम् ॥४९॥

हृद्रो गगुल्मवीसर्पप्रदरं गण्डमालिकाम्
क्षुद्र रोगाञ्ज्वरांश्चैव महातिक्तमिदं जयेत् ॥५०॥

कासीसाद्यघृतं कुष्ठे दद्रू पामाशिरः स्फोटादौ
कासीसं द्वे निशे मुस्तं हरितालं मनः शिलाम्
कम्पिल्लकं गन्धकं च विडङ्गं गुग्गुलुं तथा ॥५१॥

सिक्थकं मरिचं कुष्ठं तुत्थकं गौरसर्षपान्
रसाञ्जनं च सिन्दूरं श्रीवासं रक्तचन्दनम् ॥५२॥

इरिमेदं निम्बपत्रं करञ्जं सारिवां वचाम्
मञ्जिष्ठां मधुकं मांसीं शिरीषं लोध्रपद्मकम् ॥५३॥

हरीतकीं प्रपुन्नाटं चूर्णयेत्कार्षिकान्पृथक्
ततस्तच्चूर्णमालोड्य त्रिंशत्पलमिते घृते ॥५४॥

स्थापयेत्ताम्रपात्रे च घर्मे सप्तदिनानि वै
अस्याभ्यङ्गेन कुष्ठानि दद्रुपामाविचर्चिकाः ॥५५॥

शूकदोषा विसर्पाश्च विस्फोटा वातरक्तजाः
शिरः स्फोटोपदंशाश्च नाडीदुष्टव्रणानि च ॥५६॥

शोथो भगन्दरश्चैव लूताः शाम्यन्ति देहिनाम्
शोधनं रोपणं चैव सवर्णकरणं घृतम् ॥५७॥

जात्यादिघृतं व्रणे
जातीनिम्बपटोलाश्च द्वे निशे कटुरोहिणी
मञ्जिष्ठा मधुकं सिक्थं करञ्जोशीरसारिवाः ॥५८॥

तुत्थं च विपचेत्सम्यक्कल्कैरेभिर्घृतं बुधः
अस्य लेपात्प्ररोहन्ति सूक्ष्मनाडीव्रणा अपि ॥५९॥

मर्माश्रिताः क्लेदिनश्च गम्भीराः सरुजो व्रणाः ॥६०॥

बिन्दुघृतं जलोदरविरेचनादौ
चित्रकः शङ्खिनी पथ्या कंपिल्लास्त्रिवृतायुगम्
वृद्धदारुश्च शम्याको दन्ती दंतीफलं तथा ॥६१॥

कोशातकी देवदाली नीलिनी गिरिकर्णिका
सातला पिप्पलीमूलं विडङ्गं कुटकी तथा ॥६२॥

हेमक्षीरी च विपचेत्कल्कैरेभिः पिचून्मितैः
घृतप्रस्थं स्नुहीक्षीरे षट्पले तु पलद्वये ॥६३॥

अर्कक्षीरस्य मतिमांस्तत्सिद्धं गुल्मकुष्ठहृत्
हन्ति शूलमुदावर्त्तं शोथाध्मानं भगन्दरम् ॥६४॥

शमयत्युदराण्यष्टौ निपातं बिन्दुसङ्ख्यया
गोदुग्धेनोष्ट्रदुग्धेन कौलत्थेन शृतेन वा ॥६५॥

उष्णोदकेन वा पीत्वा बिन्दुवेगैर्विरेचयेत्
एतद्विन्दुघृतं नाम नाभिलेपाद्वि रेचयेत् ॥६६॥

त्रिफलाद्यं घृतं नेत्ररोगे तिमिरादौ
त्रिफलाया रसप्रस्थं प्रस्थं वासारसोद्भवम्
भृङ्गराजरसप्रस्थं प्रस्थमाजं पयः स्मृतम्
दत्त्वा तत्र घृतप्रस्थं कल्कैः कर्षमितैः पृथक् ॥६७॥

त्रिफला पिप्पली द्रा क्षा चन्दनं सैन्धवं बला
काकोली क्षीरकाकोली मेदा मरिचनागरम् ॥६८॥

शर्करा पुण्डरीकं च कमलं च पुनर्नवा
निशायुग्मं च मधुकं सर्वै रेभिर्विपाचयेत् ॥६९॥

नक्तान्ध्यं नकुलान्ध्यं च कण्डूं पिल्लं तथैव च
नेत्रस्रावं च पटलं तिमिरं काचकं जयेत् ॥७०॥

अन्येऽपि प्रशमं यान्ति नेत्ररोगाः सुदारुणाः
त्रैफलं घृतमेतद्धि पाने नस्यादिषूचितम् ॥७१॥

गौराद्यं घृतं व्रणे
द्वे हरिद्रे स्थिरा मूर्वा सारिवा चन्दनद्वयम्
मधुपर्णी च मधुकपद्मकेशरपद्मकैः ॥७२॥

उत्पलोशीरमेदाभिस्त्रिफलापञ्चवल्कलैः
कल्कैः कर्षमितैरेतैर्घृतप्रस्थं विपाचयेत् ॥७३॥

विसर्पलूताविस्फोटविषकीटव्रणापहम्
गौराद्यमिति विख्यातं सर्पिर्विषहरं परम् ॥७४॥

मयूरघृतं शिरोरोगादौ
बलामधुकरास्नाभिर्दशमूलफलत्रिकैः
पृथग्द्विपलिकैरेभिद्रो र्ण!नीरेण पाचयेत् ॥७५॥

मयूरं पक्षपित्तान्त्रयकृत्पादास्यवर्जितम्
पादशेषं शृतं नीत्वा क्षीरं दत्त्वा च तत्समम् ॥७६॥

घृतप्रस्थं पचेत्सम्यग्जीवनीयैः पिचून्मितैः
तत्सिद्धं शिरसः पीडां मन्यापृष्ठग्रहं तथा ॥७७॥

अर्दितं कर्णनासाऽक्षिजिह्वागलरुजो जयेत्
पाने नस्ये तथाऽभ्यङ्गे कर्णपूरेषु युज्यते ॥७८॥

हेमन्तकालशिशिरवसन्तेषु च शस्यते ॥७९॥

फलघृतं वन्ध्यादोषे
त्रिफला मधुकं कुष्ठं द्वे निशे कटुरोहिणी
विडङ्गं पिप्पली मुस्ता विशाला कट्फलं वचा ॥८०॥

द्वे मेदे द्वे च काकोल्यौ सारिवे द्वे प्रियङ्गुका
शतपुष्पा हिङ्गु रास्ना चन्दनं रक्तचन्दनम् ॥८१॥

जाती पुष्पं तुगाक्षीरी कमलं शर्करा तथा
अजमोदा च दन्ती च कल्कैरेतैश्च कार्षिकैः ॥८२॥

जीवद्वत्सैकवर्णाया घृतप्रस्थं च गोः क्षिपेत्
चतुर्गुणेन पयसा पचेदारण्यगोमयैः ॥८३॥

सुतिथौ पुष्यनक्षत्रे मृद्भाण्डे ताम्रजे तथा
ततः पिबेच्छुभदिने नारी वा पुरुषोऽथवा ॥८४॥

एतत्सर्पिर्नरः पीत्वा स्त्रीषु नित्यं वृषायते
पुत्रानुत्पादयेद्धीमान्वन्ध्याऽपि लभते सुतम् ॥८५॥

अनायुषं या जनयेद्या च सूता पुनः स्थिता
पुत्रं प्राप्नोति सा नारी बुद्धिमन्तं शतायुषम् ॥८६॥

एतत्फलघृतं नाम भरद्वाजेन भाषितम्
अनुक्तं लक्ष्मणामूलं क्षिपेत्तत्र चिकित्सकः ॥८७॥

लघुफलघृतं योनिरोगे
त्रिफलां द्वे सहचरे गुडूचीं सपुनर्नवाम्
शुकनासां हरिद्रे द्वे रास्नां मेदां शतावरीम् ॥८८॥

कल्कीकृत्य घृतप्रस्थं पचेत्क्षीरे चतुर्गुणे
तत्सिद्धंपाययेन्नारीं योनिशूलनिपीडिताम् ॥८९॥

पीडिता चलिता या च निःसृता विवृता च या
पित्तयोनिश्च विभ्रान्ता षण्ढयोनिश्च या स्मृता ॥९०॥

प्रपद्यन्ते हिताः स्थानं गर्भं गृह्णन्ति चासकृत्
एतत्फलघृतं नाम योनिदोषहरं परम् ॥९१॥

पञ्चतित्तकं घृतं विषमज्वरादौ
वृषनिम्बामृताव्याघ्रीपटोलानां शृतेन च
कल्केन पक्वं सर्पिस्तु निहन्याद्विषमज्वरान्
पाण्डुं कुष्ठं विसर्पं च कृमीनर्शांसि नाशयेत् ॥९२॥

अथ तैल कल्पना
लाक्षादितैलं विषमज्वरादौ
लाक्षाढकं क्वाथयित्वा जलस्य चतुराढकैः
चतुर्थांशं शृतं नीत्वा तैलप्रस्थे विनिक्षिपेत् ॥९३॥

मस्त्वाढकं च गोदध्नस्तत्रैव विनियोजयेत्
शतपुष्पामश्वगन्धां हरिद्रा ं! देवदारु च ॥९४॥

कुटकीं रेणुकां मूर्वां कुष्ठं च मधुयष्टिकाम्
चन्दनं मुस्तकं रास्नां पृथक्कर्षप्रमाणतः ॥९५॥

चूर्णयेत्तत्र निक्षिप्य साधयेन्मृदुवह्निना
अस्याभ्यङ्गात्प्रशाम्यन्ति सर्वेऽपि विषमज्वराः ॥९६॥

कासश्वासप्रतिश्यायत्रिकपृष्ठग्रहास्तथा
वातं पित्तमपस्मारमुन्मादं यक्षराक्षसान् ॥९७॥

कण्डूशूलं च दौर्गन्ध्यं गात्राणां स्फुरणं जयेत्
पुष्टगर्भा भवेदस्य गर्भिण्यभ्यङ्गतो भृशम् ॥९८॥

अङ्गारतैलं सर्वज्वरेषु
मूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्र वारुणी
बृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी ॥९९॥

आरनालाढके तत्र तैलप्रस्थं विपाचयेत्
तैलमङ्गारकं नाम सर्वज्वरविमोक्षणम् ॥१००॥

नारायणतैलं वातरोगादौ
अश्वगन्धां बलां बिल्वं पाटलां बृहतीद्वयम्
श्वदंष्ट्राऽतिबलानिम्बं स्योनाकं च पुनर्नवाम् ॥१०१॥

प्रसारिणीमग्निमन्थं कुर्याद्दशपलं पृथक्
चतुद्रो र्णे! जले पक्त्वा पादशेषं शृतं नयेत् ॥१०२॥

तैलाढकेन संयोज्य शतावर्या रसाढकम्
क्षिपेत्तत्र च गोक्षीरं तैलात्तस्माच्चतुर्गुणम् ॥१०३॥

शनैर्विपाचयेदेभिः कल्कैर्द्विपलिकैः पृथक्
कुष्ठैलाचन्दनं मूर्वा वचा मांसी ससैन्धवैः ॥१०४॥

अश्वगन्धावचारास्नाशतपुष्पेन्द्र दारुभिः
पर्णीचतुष्टयेनैव तगरेण च साधयेद् ॥१०५॥

तत्तैलं नावनेऽभ्यङ्गे पाने बस्तौ न योजयेत्
पक्षाघातं हनुस्तम्भं मन्यास्तम्भं गलग्रहम् ॥१०६॥

खल्लत्वं बधिरत्वं च गतिभङ्गं कटिग्रहम्
गात्रशोषेन्द्रि यध्वंसावसृक्शुक्रज्वरक्षयान् ॥१०७॥

अन्त्रवृद्धिं कुरण्डं च दन्तरोगं शिरोग्रहम्
पार्श्वशूलं च पाङ्गुल्यं बुद्धिहानिं च गृध्रसीम् ॥१०८॥

अन्यांश्च विषमान्वाताञ्जयेत्सर्वाङ्गसंश्रयान्
अस्य प्रभावाद्वन्ध्याऽपि नारी पुत्रं प्रसूयते ॥१०९॥

मर्त्यो गजो वा तुरगस्तैलादस्मात्सुखी भवेत्
यथा नारायणो देवो दुष्टदैत्यविनाशनः ॥११०॥

तथैव वातरोगाणां नाशनं तैलमुत्तमम् ॥१११॥

वारुणीतैलं कम्परोगे
वारुण्या औत्तरं मूलं कुट्टितं तु पलत्रयम्
पलद्वादशकं तैलं क्षणं वह्नौ विपाचितम् ॥११२॥

निष्कत्रयं भक्तयुक्तं सेवेतास्माद्विनश्यति
हस्तकम्पः शिरःकम्पः कम्पो मन्याशिराभवः ॥११३॥

बलाद्यं तैलं वातव्याधौ
बलामूलकषायेण दशमूलशृतेन च
कुलत्थयवकोलानां क्वाथेन पयसा तथा ॥११४॥

अष्टाष्टभागयुक्तेन भागमेकं च तैलकम्
गणेन जीवनीयेन शतावर्येन्द्र दारुणा ॥११५॥

मञ्जिष्ठाकुष्ठशैलेयतगरागरुसैन्धवैः
वचापुनर्नवामांसीसारिवाद्वयपत्रकैः ॥११६॥

शतपुष्पाऽश्वगंधाभ्यामेलया च विपाचयेत्
गर्भार्थिनीनां नारीणां नराणांक्षीणरेतसाम् ॥११७॥

व्यायामक्षीणगात्राणां सूतिकानां च युज्यते
राजयोग्यमिदं तैलं सुखिनां च विशेषतः
बलातैलमिति ख्यातं सर्ववातामयापहम् ॥११८॥

प्रसारिणीतैलं वातकफरोगादौ
प्रसारिणीपलशतं जलद्रो णे विपाचयेत्
पादशिष्टः शृतो ग्राह्यस्तैलं दधि च तत्समम् ॥११९॥

काञ्जिकं च समं तैलात्क्षीरं तैलाच्चतुर्गुणम्
तैलात्तथाऽष्टमांशेन सर्वकल्कानि योजयेत् ॥१२०॥

मधुकं पिप्पलीमूलं चित्रकः सैन्धवं वचा
प्रसारिणी देवदारु रास्ना च गजपिप्पली ॥१२१॥

भल्लातः शतपुष्पा च मांसी चैभिर्विपाचयेत्
एतत्तैलं वरं पक्वं वातश्लेष्मामयाञ्जयेत् ॥१२२॥

कौब्जं पङ्गुत्वखञ्जत्वे गृध्रसीमर्दितं तथा
हनुपृष्ठशिरोग्रीवाकटिस्तम्भान्विनाशयेत् ॥१२३॥

अन्यांश्च विषमान्वातान्सर्वानाशु व्यपोहति ॥१२४॥

माषादितैलं वातविकारादौ
माषा यवातसी क्षुद्रा मर्कटी च कुरण्टकः
गोकण्टष्टुण्टुकश्चैषां कुर्यात्सप्तपलं पृथक् ॥१२५॥

चतुर्गुणाम्बुना पक्त्वा पादशेषं शृतं नयेत्
कर्पासास्थीनि बदरं शणबीजं कुलत्थकम् ॥१२६॥

पृथक्चतुर्दशपलं चतुर्गुणजले पचेत्
चतुर्थांशावशिष्टं च गृह्णीयात्क्वाथमुत्तमम् ॥१२७॥

प्रस्थैकं छागमांसस्य चतुःषष्टिपले जले
निक्षिप्य पाचयेद्धीमान्पादशेषं शृतं नयेत् ॥१२८॥

तैलप्रस्थे ततः सर्वान्क्वाथानेतान्विनिक्षिपेत्
कल्कैरेभिश्च विपचेदमृताकुष्ठनागरैः ॥१२९॥

रास्नापुनर्नवैरण्डैः पिप्पल्या शतपुष्पया
बलाप्रसारिणीभ्यां च मांस्या कटुकया तथा ॥१३०॥

पृथगर्द्धपलैरेतैः साधयेन्मृदुवह्निना
हन्यात्तैलमिदं शीघ्रं ग्रीवास्तम्भापबाहुकौ ॥१३१॥

अर्धाङ्गशोषमाक्षेपमूरुस्तम्भापतानकौ
शाखाकम्पं शिरः कम्पं विश्वाचीमर्दितं तथा
माषादिकमिदं तैलं सर्ववातविकारनुत् ॥१३२॥

शतावरीतैलं वातादौ
शतावरी बलायुग्मं पर्ण्यौ गन्धर्वहस्तकः
अश्वगन्धा श्वदंष्ट्रश्च बिल्वः काशः कुरण्टकः ॥१३३॥

एषां सार्द्धपलान्भागान्कल्पयेच्च विपाचयेत्
चतुर्गुणेन नीरेण पादशेषं शृतं नयेत् ॥१३४॥

नियोज्य तैलप्रस्थे च क्षीरप्रस्थं विनिक्षिपेत्
शतावरीरसप्रस्थं जलप्रस्थं च योजयेत् ॥१३५॥

शतावरीदेवदारुमांसीतगरचन्दनम्
शतपुष्पा बला कुष्ठमेला शैलेयमुत्पलम् ॥१३६॥

ऋद्धिर्मेदा च मधुकं काकोली जीवकस्तथा
एषां कर्षसमैः कल्कैस्तैलं गोमयवह्निना ॥१३७॥

पचेत्तेनैव तैलेन स्त्रीषु नित्यं वृषायते
नारी च लभते पुत्रं योनिशूलं च नश्यति ॥१३८॥

अङ्गशूलं शिरः शूलं कामलां पाण्डुतां गरम्
गृध्रसीप्लीहशोषांश्च मेहान्दण्डापतानकम् ॥१३९॥

सदाहं वातरक्तं च वातपित्तगदार्दितम्
असृग्दरं तथाध्मानं रक्तपित्तं च नश्यति ॥१४०

शतावरीतैलमिदं कृष्णात्रेयेण भाषितम्
ॐ नारायण्यै स्वाहा उत्तराभिमुखो भूत्वा खनेत्खदिरशङ्कुना ॥१४१॥

ॐ सर्वव्याधिनाशिन्यै स्वाहा इत्युत्पाटनमन्त्रः
ॐ कुमारजीविन्यै स्वाहा इति पानमन्त्रः ॥१४२॥

कासीसाद्यं तैलमर्श आदौ
कासीसं लाङ्गली कुष्ठं शुण्ठी कृष्णा च सैन्धवम्
मनः शिलाश्वमारश्च विडङ्गं चित्रको वृषः ॥१४३॥

दन्ती कोशातकीबीजं हेमाह्वा हरितालकम्
कल्कैः कर्षमितैरेतैस्तैलप्रस्थं विपाचयेत् ॥१४४॥

स्नुह्यर्कपयसी दद्यात्पृथग्द्विपलसंमिते
चतुर्गुणं गवां मूत्रं दत्त्वा सम्यक्प्रसाधयेत् ॥१४५॥

कथितं खरनादेन तैलमर्शोविनाशनम्
क्षारवत्पातयत्येतदर्शांस्यभ्यङ्गतो भृशम्
वलीर्न दूषयत्येतत्क्षारकर्मकरं स्मृतम् ॥१४६॥

पिण्डतैलं वातरक्ते
मञ्जिष्ठासारिवासर्जयष्टीसिक्थैः पलोन्मितैः
पिण्डाख्यं साधयेत्तैलमभ्यङ्गात् वातरक्तनुत् ॥१४७॥

अर्कतैलं कुष्ठरोगादौ
अर्कपत्ररसे पक्वं हरिद्रा कल्कसंयुतम्
नाशयेत्सार्षपं तैलं पामां कच्छूं विचर्चिकाम् ॥१४८॥

मरिचादितैलं कुष्ठव्रणादौ
मरिचं हरितालं च त्रिवृतं रक्तचन्दनम्
मुस्तं मनःशिला मांसी द्वे निशे देवदारु च ॥१४९॥

विशाला करवीरं च कुष्ठमर्कपयस्तथा
तथैव गोमयरसं कुर्यात्कर्षमितान्पृथक् ॥१५०॥

विषं चार्द्धपलं देयं प्रस्थं च कटुतैलकम्
गोमूत्रं द्विगुणं दद्याज्जलं च द्विगुणं भवेत् ॥१५१॥

मरिचाद्यमिदं तैलं सिध्मकुष्ठहरं परम्
जयेत्कुष्ठानि सर्वाणि पुण्डरीकं विचर्चिकाम्
पामां श्वित्राणि रक्तं च कण्डूं कच्छूं प्रणाशयेत् ॥१५२॥

त्रिफलादितैलमरूंषिकायाम्
त्रिफलाऽरिष्टभूनिम्बं द्वे निशे रक्तचन्दनम्
एतैः सिद्धमरूंषीणां तैलमभ्यज्जने हितम् ॥१५३॥

निम्बबीजतैलं पलिते
भावयेन्निम्बबीजानि भृङ्गराजरसेन हि
तथाऽसनस्य तोयेन तत्तैलं हन्ति नस्यतः ॥१५४॥

अकालपलितं सद्यः पुंसां दुग्धान्नभोजिनाम् ॥१५५॥

यष्टीमधुकतैलं खलिते
यष्टीमधुकक्षाराभ्यां नवधात्रीफलैः शृतम्
तैलं नस्यकृतं कुर्यात्केशाञ्श्मश्रूणि सङ्घशः ॥१५६॥

करञ्जतैलमिन्द्र लुप्तरोगे
करञ्जश्चित्रको जाती करवीरश्च पाचितम्
तैलमेभिर्द्रुतं हन्यादभ्यङ्गादिन्द्र लुप्तकम् ॥१५७॥

नीलिकाद्यं तैलं केशकल्पादौ
नीलिका केतकीकन्दं भृङ्गराजः कुरण्टकः
तथाऽजुनस्य पुष्पाणि बीजकात्कुसुमान्यपि ॥१५८॥

कृष्णास्तिलाश्च तगरं समूलं कमलं तथा
अयोरजः प्रियङ्गुश्च दाडिमत्वग्गुडूचिका ॥१५९॥

त्रिफला पद्मपङ्कश्च कल्कैरेभिः पृथक्पृथक्
कर्षमात्रः पचेत्तैलं त्रिफलाक्वाथसंयुतम् ॥१६०॥

भृङ्गराजरसेनैव सिद्धं केशस्थिरीकृतम्
अकालपलितं हन्ति दारुणं चोपजिह्विकाम् ॥१६१॥

भृङ्गराजतैलमकालपलितादौ
भृङ्गराजरसेनैव लोहकिट्टं फलत्रिकम्
सारिवां च पचेत्कल्कैस्तैलं दारुणनाशनम्
अकालपलितं कण्डूमिन्द्र लुप्तं च नाशयेत् ॥१६२॥

इरिमेदाद्यं तैलं मुखदन्तरोगादौ
इरिमेदत्वचं क्षुण्णां पचेच्छतपलोन्मिताम्
जलद्रो णेततः क्वाथं गृह्णीयात्पादशेषितम् ॥१६३॥

तैलस्यार्द्धाढकं दत्त्वा कल्कैः कर्षमितैः पचेत्
इरिमेदलवङ्गाभ्यां गैरिकागरुपद्मकैः ॥१६४॥

मञ्जिष्ठालोध्रमधुकैर्लाक्षान्यग्रोधमुस्तकैः
त्वग्जातीफलकर्पूरकङ्कोलखदिरैस्तथा ॥१६५॥

पतङ्गधातकीपुष्पसूक्ष्मैलानागकेशरैः
कट्फलेन च संसिद्धं तैलं मुखरुजं जयेत् ॥१६६॥

प्रदुष्टमांसं पलितं शीर्णदन्तं च सौषिरम्
श्यावदन्तं प्रहर्षं च विद्र धिं कृमिदन्तकम् ॥१६७॥

दन्तस्फुटं च दौर्गन्ध्यं जिह्वाताल्वोष्ठजां रुजम् ॥१६८॥

जात्यादितैलं नाडीव्रणादौ
जातीनिम्बपटोलानां नक्तमालस्य पल्लवाः
सिक्थं समधुकं कुष्ठं द्वेनिशे कटुरोहिणी ॥१६९॥

मञ्जिष्ठापद्मकं लोध्रमभया नीलमुत्पलम्
तुत्थकं सारिवाबीजं नक्तमालस्य दापयेत् ॥१७०॥

एतानि समभागानि पिष्ट्वा तैलं विपाचयेत्
नाडीव्रणे समुत्पन्ने स्फोटके कच्छुरोगिषु ॥१७१॥

सद्यः शस्त्रप्रहारेषु दग्धविद्धेषु चैव हि
नखदन्तक्षते देहे व्रणे दुष्टे प्रशस्यते ॥१७२॥

हिङ्ग्वादितैलं कर्णशूले
हिङ्गुतुम्बुरुशुण्ठीभिः कटुतैलं विपाचयेत्
तस्य पूरणमात्रेण कर्णशूलं प्रणश्यति ॥१७३॥

बिल्वादितैलं बाधिर्ये
बालबिल्वानि गोमूत्रे पिष्ट्वा तैलं विपाचयेत्
साजक्षीरं च नीरं च बाधिर्यं हन्ति पूरणात् ॥१७४॥

क्षारतैलं कर्णरोगेषु
बालमूलकशिम्बीनां क्षारः क्षारयुगं तथा
लवणानि च पञ्चैव हिङ्गुशिग्रु महौषधम् ॥१७५॥

देवदारु वचा कुष्ठं शतपुष्पा रसाञ्जनम्
ग्रन्थिकं भद्र मुस्तं च कल्कैः कर्षमितैः पृथक् ॥१७६॥

तैलप्रस्थं च विपचेत्कदलीबीजपूरयोः
रसाभ्यां मधुशुक्तेन चातुर्गुण्यमितेन च ॥१७७॥

पूयस्रावं कर्णनादं शूलं बधिरतां कृमीन्
अन्यांश्च कर्णजान्रोगान्मुखरोगांश्च नाशयेत् ॥१७८॥

मधुशुक्तम्
जम्बीराणां फलरसः प्रस्थैकः कुडवोन्मितम्
माक्षिकं तत्र दातव्यं पलैका पिप्पली स्मृता ॥१७९॥

एतदेकीकृतं सर्वं मृद्भाण्डे च निधापयेत्
यवाम्भो मधुसंयुक्तं शृङ्गवेरगुडान्वितम्
धान्यराशौ त्रिरात्रस्थं मधुशुक्तमुदाहृतम् ॥१८०॥

पाठादितैलं पीनसे
पाठा द्वे च निशे मूर्वा पिप्पली जातिपल्लवैः
दन्त्या च तैलं संसिद्धं नस्यं स्याद्दुष्टपीनसे ॥१८१॥

व्याघ्रीतैलं पीनसे
व्याघ्रीदन्तीवचाशिग्रुतुलसीव्योषसैन्धवैः
कल्कश्च पाचनं तैलं पूतिनासागदापहम् ॥१८२॥

कुष्ठादितैलं छिक्कायां
कुष्ठंबिल्वकणाशुण्ठीद्रा क्षाकल्ककषायवत्
साधितं तैलमाज्यं वा नस्यात्क्षवथुनाशनम् ॥१८३॥

गृहधूमतैलं नासार्शसि
गृहधूमकणादारुक्षारनक्ताह्वसैन्धवैः
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम् ॥१८४॥

वज्रतैलं कुष्ठादौ
वज्रीक्षीरं रविक्षीरं द्र वं धत्तूरचित्रजम् ॥१८५॥

महिषीविड्भवं द्रा वं सर्वांशं तिलतैलकम्
पचेत्तैलावशेषं च गोमूत्रेऽथ चतुर्गुणे ॥१८६॥

तैलावशेषं पक्त्वा च तत्तैलं प्रस्थमात्रकम्
गन्धकाग्निशिलातालं विडङ्गातिविषाविषम् ॥१८७॥

तिक्तकोशातकीकुष्ठवचामांसीकटुत्रयम्
पीतदारु च यष्ट्याह्वं स्वर्जिकाक्षारजीरकम् ॥१८८॥

देवदारु च कर्षांशं चूर्णं तैले विनिक्षिपेत्
वज्रतैलमिदं ख्यातमभ्यङ्गात्सर्वकुष्ठनुत् ॥१८९॥

करवीरतैलं लोमशातनार्थम्
करवीरशिफादन्ती त्रिवृत्कोशातकी फलम्
रम्भाक्षारोदके तैलं प्रशस्तं लोमशातनम् ॥१९०॥

चन्दनादितैलं क्षयरोगादौ
चन्दनाम्बुनखैर्याम्यं यष्टीशैलेयपद्मकम्
मञ्जिष्ठा सरलं दारु सेव्यैलं पूतिकेसरम् ॥१९१॥

पत्रकैलं मुरामांसी कङ्कोलं वनिताऽम्बुदम्
हरिद्रा सारिवा तिक्ता लवङ्गागरुकुङ्कुमम् ॥१९२॥

त्वग्रेणुनलिका चेति तैलं मस्तु चतुर्गुणम्
लाक्षारससमं सिद्धं ग्रहघ्नं बलवर्द्धनम् ॥१९३॥

अपस्मारज्वरोन्मादकृत्याऽलक्ष्मीविनाशनम्
आयुः पुष्टिकरं चैव वशीकरणमुत्तमम्
विशेषात्क्षयरोगघ्नं रक्तपित्तहरं परम् ॥१९४॥

वचादितैलं गण्डमालायाम्
वचां शटीं हरिद्रे द्वे देवदारु महौषधी
हरीतकीमतिविषां मुस्तकेन्द्र यवान्समान् ॥१९५॥

एतान्दशपलान्भागांश्चतुद्रो र्णे!ऽम्भसः पचेत्
चक्रमर्दरसैस्तैलं कटुकं मृदुनाऽग्निना ॥१९६॥

पादशेषे विनिक्षिप्य सिन्दूरमवतारयेत्
एतत्तैलं निहन्त्याशु गण्डमालां सुदारुणाम् ॥१९७॥

लाङ्गलीतैलं गण्डमालायाम्
निर्गुण्डीस्वरसे तैलं लाङ्गलीमूलकल्कितम्
तैलं नस्यान्निहन्त्याशु गण्डमालां सुदारुणाम् ॥१९८॥

धत्तूरादितैलं वातरोगादौ
धत्तूररसमादाय हयमारान्तिकारसम्
भृङ्गराजरसश्चैव सारिणी निम्बपत्रकम् ॥१९९॥

शोभाञ्जनश्चित्रकश्च अश्वगन्धा प्रसारिणी
शिरीषः कुटजोऽनन्ता शाल्मली नक्तपत्रकम् ॥२००॥

रविप्रियो महानिम्बो डिण्डिघोषा महेरणा
बला ज्योतिष्मती चैव श्यामाकश्चक्रमर्दकः ॥२०१॥

एतैस्तु रसमादाय तैलतुल्यं च दीयते
देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनम् ॥२०२॥

मरिचं त्रिवृता दन्ती हरितालं मनः शिला
कम्पिल्लको गन्धकश्च खदिरः पिप्पली वचा ॥२०३॥

रसाञ्जनं च सिन्दूरं श्रीवासो रक्तचन्दनम्
इरिमेदस्तथा तुम्बी मञ्जिष्ठा सिन्दुवारकः ॥२०४॥

करवीरजटा रास्ना विश्वा श्रेष्ठा च पौष्करम्
शटी तालीसपत्रं च प्रियङ्गू रेणुका तथा ॥२०५॥

चातुर्जातकमञ्जीरं कङ्कोलं जातिपत्रिका
ज्योतिष्मती च पलिका विषस्य द्विपलं भवेत् ॥२०६॥

आढकं कटुतैलस्य गोमूत्रं च चतुर्गुणम्
मृत्पात्रे लोहपात्रे च शनैर्मृद्वग्नि पचेत् ॥२०७॥

मज्जाश्रितं त्वग्गतं च वातं चास्थिगतं तथा
ऊरुग्रहं चाढ्यवातं कृच्छ्रं दण्डापतानकम् ॥२०८॥

कुब्जत्वं चाथ शोथं च पक्षाघातं तथाऽदितम्
हनुस्तम्भं शिरः कम्पं मूर्च्छितं दृष्टिविभ्रमम् ॥२०९॥

अपस्मारं तथोन्मादं तथा चैवापतन्त्रकम्
आक्षेपकं चास्थिभग्नं सन्धिभग्नं च नाशयेत् ॥२१०॥

इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे स्नेहकल्पनानाम नवमोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP