मध्यखण्डम् - षष्ठोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


अत्यन्तशुष्कं यद्द्र व्यं सुपिष्टं वस्त्रगालितम्
तत्स्याच्चूर्णंरजः क्षोदस्तन्मात्रा कर्षसंमिता ॥१॥

चूर्णे गुडादिमानकल्पना
चूर्णे गुडः समो देयः शर्कराद्विगुणा भवेत्
चूर्णेषु भर्जितं हिंगु देयं नोत्क्लेदकृद्भवेत् ॥२॥

चूर्णानुपानमानव्यवस्था
लिहेच्चूर्णं द्र वैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः
पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्र वैः ॥३॥

चूर्णादीनां दोषानुसारेणानुपानमानकल्पना
चूर्णावलेहगुटिकाकल्कानामनुपानकम्
वातपित्तकफातङ्के त्रिद्व्येकपलमाहरेत् ॥४॥

अनुपानस्यावश्यकता
यथा तैलं जले क्षिप्तं क्षणेनैव प्रसर्पति
अनुपानबलादङ्गे तथा सर्पति भेषजम् ॥५॥

चूर्णार्थे भावनापरिमाणनिर्देशः
द्र वेण यावता सम्यक्चूर्णं सर्वं प्लुतं भवेत्
भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः ॥६॥

आमलक्यादिचूर्णं सर्वज्वरादौ
आमलं चित्रकः पथ्या पिप्पली सैन्धवं तथा
चूर्णितोऽय गणो ज्ञेयः सर्वज्वरविनाशनः
भेदी रुचिकरः श्लेष्मजेता दीपनपाचनः ॥७॥

पिप्पलीचूर्णं हिक्काज्वरादिषु
मधुनापिप्पलीचूर्णं लिहेत्कासज्वरापहम्
हिक्काश्वासहरं कण्ठ्यं प्लीहघ्नं बालकोचितम् ॥८

त्रिफलाचूर्णं मेहादिषु
एका हरीतकी योज्या द्वौ च योज्यौ बिभीतकौ
चत्वार्यामलकान्येव त्रिफलैषा प्रकीर्त्तिता ॥९॥

त्रिफला मेहशोथघ्नी नाशयेद्विषमज्वरान्
दीपनी श्लेष्मपित्तघ्नी कुष्ठहन्त्री रसायनी ॥१०॥

सर्पिर्मधुभ्यां संयुक्ता सर्वनेत्रामयाञ्जयेत् ॥११॥

त्र्! यूषणचूर्णं दीपनादौ
पिप्पली मरिचंशुण्ठी त्रिभिस्त्र्! यूषणमुच्यते
दीपनं श्लेष्ममेदोघ्नं कुष्ठपीनसनाशनम्
जयेदरोचकं सामं मेहगुल्मगलामयान् ॥१२

पंचकोलचूर्णमरुच्यादौ
पिप्पलीचव्यविश्वाह्वपिप्पलीमूलचित्रकैः ॥१३॥

पञ्चकोलमिति ख्यातं रुच्यं पाचनदीपनम्
आनाहप्लीहगुल्मघ्नं शूलश्लेष्मोदरापहम् ॥१४॥

त्रिगन्धचतुर्जातचूर्णयोर्गुणाः
त्रिगन्धमेलात्वक्पत्रैश्चतुर्जातं सकेशरैः
त्रिगन्धं सचतुर्जातं रूक्षोष्णं लघु पित्तकृत्
वर्ण्यं रुचिकरं तीक्ष्णं पित्तश्लेष्मामयाञ्जयेत् ॥१५॥

कृष्णादिचूर्णं शिशूनां ज्वरातिसारादौ
कृष्णारुणामुस्तकशृङ्गिकाणां तुल्येन चूर्णेन समाक्षिकेण
ज्वरातिसारः प्रशमं प्रयाति सश्वासकासः सवमिः शिशूनाम् ॥१६॥

जीवनीयगणः
काकोली क्षीरकाकोली जीवकर्षभकौ तथा
मेदा चान्या महामेदा जीवन्ती मधुकं तथा ॥१७॥

मुद्गपर्णी माषपर्णी जीवनीयो गणस्त्वयम्
जीवनीयो गणः स्वादुर्गर्भसन्धानकृद् गुरुः ॥१८॥

स्तन्यकृद् बृंहणो वृष्यः स्निग्धः शीतस्तृषाऽपहः
रक्तपित्तं क्षतं शोषं ज्वरदाहानिलाञ्जयेत् ॥१९॥

अष्टवर्गः
द्वे मेदे द्वे च काकोल्यौ जीवकर्षभकौ तथा ॥२०॥

ऋद्धिवृद्धी च तैः सर्वैरष्टवर्ग उदाहृतः
अष्टवर्गो बुधैः प्रोक्तो जीवनीयसमो गुणैः ॥२१॥

लवणपञ्चकचूर्णं सृष्टविण्मूत्रादौ
सिन्धु सौवर्चलं चैव विडं सामुद्रि कं गुडम्
एकद्वित्रिचतुः पञ्चलवणानि क्रमाद्विदुः ॥२२॥

तेषु मुख्यं सैन्धवं स्यादनुक्ते तत्प्रयोजयेत्
सैन्धवाद्यं रोमकान्तं ज्ञेयं लवणपञ्चकम् ॥२३॥

मधुरं सृष्टविण्मूत्रं स्निग्धं सूक्ष्मं बलापहम्
वीर्योष्णं दीपनं तीक्ष्णं कफपित्तविवर्द्धनम् ॥२४॥

क्षारयोगः
स्वर्जिका यावशूकश्च क्षारयुग्ममुदाहृतम्
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायाव शूकजौ ॥२५॥

क्षाराश्चान्येऽपि गुल्मार्शोग्रहणीरुक्छिदः सराः
पाचनाः कृमिपुंस्त्वघ्नाः शर्कराऽश्मरिनाशनाः ॥२६॥

सुदर्शनचूर्णं सर्वज्वरादौ
त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी
त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः ॥२७॥

कटुका पर्पटो मुस्तं त्रायमाणा च बालकम्
निम्बः पुष्करमूलं च मधुयष्टी च वत्सकम् ॥२८॥

यवानीन्द्र यवो भार्ङ्गीशिग्रुबीजं सुराष्ट्रजा
वचात्वक्पद्मकोशीरचन्दनातिविषाबलाः ॥२९॥

शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा
चित्रको देवकाष्ठं च चव्यं पत्रं पटोलजम् ॥३०॥

जीवकर्षभकौ चैव लवङ्गं वंशलोचना
पुण्डरीकं च काकोली पत्रकं जातिपत्रकम् ॥३१॥

तालीसपत्रं च तथा समभागानि चूर्णयेत्
सर्वचूर्णस्य चार्द्धांशं कैरातं निक्षिपेत्सुधीः ॥३२॥

एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम्
ज्वरांश्च निखिलान्हन्यान्नात्र कार्या विचारणा ॥३३॥

पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान्विषमज्वरान्
सन्निपातोद्भवांश्चापि मानसानपि नाशयेत् ॥३४॥

शीतज्वरैकाहिकादीन्मोहं तन्द्रा ं! भ्रमं तृषाम्
श्वासं कासं च पाण्डुं च हृद्रो गं हन्ति कामलाम् ॥३५॥

त्रिकपृष्ठकटीजानुपार्श्वशूलनिवारणम्
शीताम्बुना पिबेद्धीमान्सर्वज्वरनिवृत्तये ॥३६॥

सुदर्शनं यथा चक्रं दानवानां विनाशनम्
तद्वज्ज्वराणां सर्वेषामिदं चूर्णं प्रणाशनम् ॥३७॥

त्रिफलापिप्पलीचूर्णं कासश्वासज्वरेषु
कासश्वासज्वरहरा त्रिफला पिप्पलीयुता
चूर्णिता मधुना लीढा भेदिनी चाग्निबोधिनी ॥३८॥

कट्फलादिचूर्णं ज्वरादौ
कट्फलं मुस्तकं तिक्ता शटी शृङ्गी च पौष्करम्
चूर्णमेषां च मधुना शृङ्गवेररसेन वा ॥३९॥

लिहेज्ज्वरहरं कण्ठ्यं कासश्वासारुचीर्जयेत्
वायुं छर्दिं तथा शूलं क्षयं चैव व्यपोहति ॥४०॥

बृहत्कट्फलादिचूर्णं शूलानिलादिषु
कट्फलं पौष्करं शृङ्गी मुस्ता त्रिकटुकं शटी
समस्तान्येकशो वाऽपि सूक्ष्मचूर्णानि कारयेत् ॥४१॥

आर्द्र कस्वरसक्षौद्रै र्लिह्यात्कफविनाशनम्
शूलानिलारुचिच्छर्दिकासश्वासक्षयापहम् ॥४२॥

द्वितीयं कट्फलादिचूर्णं श्वासादिषु
कट्फलं पौष्करं कृष्णा शृङ्गी च मधुना सह
श्वासकासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् ॥४३॥

शृङ्ग्यादिचूर्णं विषाचूर्णं च शिशोः कासज्वरच्छर्दिषु
शृङ्गी प्रतिविषा कृष्णा चूर्णिता मधुना लिहेत्
शिशोः कासज्वरच्छर्दिशान्त्यै वा केवला विषा ॥४४॥

यवक्षारादिचूर्णं शिशोः कासे
यिवक्षारविषाशृङ्गीमागधीपौष्करोद्भवम्
चूर्णं क्षौद्र युतं लीढंपञ्चकासाञ्जयेच्छिशोः ॥४५॥

शुण्ठ्यादिचूर्णमामातीसारे
शुण्ठीप्रतिविषाहिङ्गुमुस्ताकुटजचित्रकैः
चूर्णमुष्णाम्बुना पीतमामातीसारनाशनम् ॥४६॥

हरीतक्यादिचूर्णमामातीसारे
हरीतकी प्रतिविषा सिन्धु सौवर्चलं वचा
हिङ्गु चेति कृतं चूर्णं पिबेदुष्णेन वारिणा ॥४७॥

आमातीसारशमनं ग्राहि चाग्निप्रबोधनम्
लघुगङ्गाधरचूर्णं पक्वातिसारे
मुस्तमिन्द्र यवं बिल्वं लोध्रं मोचरसं तथा
धातकीं चूर्णयेत्तक्रगुडाभ्यां पाययेत्सुधीः ॥४८॥

सर्वातीसारशमनं निरुणद्धि प्रवाहिकाम्
लघुगङ्गाधरं नाम चूर्णं संग्राहकं परम् ॥४९॥

बृहद्गङ्गाधरचूर्णं प्रवाहिकादौ
मुस्तारलुकशुण्ठीभिर्धातकीलोध्रबालकैः
बिल्वमोचरसाभ्यां च पाठेन्द्र यववत्सकैः ॥५०॥

आम्रबीजं प्रतिविषा लज्जालुरिति चूर्णितम्
क्षौद्र तण्डुलपानीयैः पीतैर्याति प्रवाहिका ॥५१॥

सर्वातिसारा ग्रहणी प्रशमं याति वेगतः
वृद्धगङ्गाधरं चूर्णं सरिद्वेगविबन्धकम् ॥५२॥

अजमोदादिचूर्णमतीसारे
अजमोदा मोचरसं सशृङ्गवेरं सधातकीकुसुमम्
गोदधिमन्थितयुक्तं गङ्गामपि वाहिनीं रुन्ध्यात् ॥५३॥

मरिचादिचूर्णं ग्रहण्यादौ
तक्रेण यः पिबेन्नित्यं चूर्णं मरिचसंभवम् ॥५४॥

चित्रसौवर्चलोपेतं ग्रहणी तस्य नश्यति
उदरप्लीहमन्दाग्निगुल्मार्शोनाशनं भवेत् ॥५५॥

कपित्थाष्टकं चूर्णं ग्रहण्यादौ
अष्टौ भागाः कपित्थस्य षड्भागा शर्करा मता
दाडिमं तिन्तिडीकं च श्रीफलं धातकी तथा ॥५६॥

अजमोदा च पिप्पल्यः प्रत्येकं स्युस्त्रिभागिकाः
मरिचं जीरकं धान्यं ग्रन्थिकं बालकं तथा ॥५७॥

सौवर्चलं यवानी च चातुर्जातं सचित्रकम्
नागरं चैकभागाः स्युः प्रत्येकं सूक्ष्मचूर्णितम् ॥५८॥

कपित्थाष्टकसंज्ञं स्याच्चूर्णमेतद् गलामयान्
अतीसारं क्षयं गुल्मं ग्रहणीं च व्यपोहति ॥५९॥

लघुदाडिमाष्टकचूर्णमरुच्यादौ कासज्वरादिषु च
दाडिमी द्विपला ग्राह्या खंडा चाष्टपलाऽपि च
त्रिगंधस्य पलं चैकं त्रिकटु स्यात्पलत्रयम् ॥६०॥

एतदेकीकृतं सर्वं चूर्णं स्याद्दाडिमाष्टकम्
रुचिकृद्दीपनं कंठ्यं ग्राहि कासज्वरापहम् ॥६१॥

बृहद्दाडिमाष्टकचूर्णमतीसारादौ
दाडिमस्य पलान्यष्टौ शर्करायाः पलाष्टकम्
पिप्पली पिप्पलीमूलं यवानी मरिचं तथा ॥६२॥

धान्यकं जीरकं शुण्ठी प्रत्येकं पलसम्मितम्
कर्षमात्रा तुगाक्षीरीत्वक्पत्रैलाश्च केशरम् ॥६३॥

प्रत्येकं कोलमात्राः स्युस्तच्चूर्णं दाडिमाष्टकम्
अतीसारं क्षयं गुल्मं ग्रहणीं च गलग्रहम्
मन्दाग्निं पीनसं कासं चूर्णमेतद्व्यपोहति ॥६४॥

पिप्पल्यादिचूर्णं वातग्रहण्याम्
इ!पिप्पली बृहती व्याघ्री यवक्षारकलिङ्गकाः
चित्रकं सारिवा पाठा शटी लवणपञ्चकम् ॥६५

तच्चूर्णं पाययेद्दध्ना सुरयोष्णाम्बुनाऽपि वा
मारुतग्रहणीदोषशमनं परमं हितमि! ॥६६॥

लवङ्गादिचूर्णमरोचकादौ
लवङ्गं शुद्धकर्पूरमेलात्वङ्नागकेशरम्
जातीफलमुशीरं च नागरं कृष्णजीरकम् ॥६७॥

कृष्णागरुस्तुगाक्षीरी मांसी नीलोत्पलंकणा
चन्दनं तगरं बालं कङ्कोलंचेति चूर्णयेत् ॥६८॥

समभागानि सर्वाणि सर्वेभ्योऽद्धा सिता भवेत्
लवङ्गाद्यमिदं चूर्णं राजार्हं वह्निदीपनम् ॥६९॥

रोचनं तर्पणं वृष्यं त्रिदोषघ्नं बलप्रदम्
हृद्रो गं कण्ठरोगं च कासं हिक्कां च पीनसम् ॥७०॥

यक्ष्माणं तमकं श्वासमतीसारमुरःक्षतम्
प्रमेहारुचिगुल्मादीन्ग्रहणीमपि नाशयेत् ॥७१॥

जातीफलादिचूर्णं ग्रहण्यादौ
जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः ॥७२॥

कर्पूरचन्दनतिलैस्त्वक्क्षीरीतगरामलैः
तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकैः ॥७३॥

शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः
यावन्त्येतानि सर्वाणि कुर्याद्भङ्गां च तावतीम् ॥७४॥

सर्वचूर्णसमा देया शर्करा च भिषग्वरैः
कर्षमात्रं ततः खादेन्मधुना प्लावितं सुधीः ॥७५॥

अस्य प्रभावाद् ग्रहणीकासश्वासारुचिक्षयाः
वातश्लेष्मप्रतिश्यायाः प्रशमं यान्ति वेगतः ॥७६॥

महाखाण्डवचूर्णमरुच्यादौ
मरिचं नागपुष्पाणि तालीसं लवणानि च
प्रत्येकमेकभागाः स्युः पिप्पलीमूलचित्रकैः ॥७७॥

त्वक्कणातिन्तिडीकं च जीरकं च द्बिभागिकम्
धान्याम्लवेतसौ विश्वं भद्रै ला बदराणि च ॥७८॥

अजमोदा जलधरः प्रत्येकं स्युस्त्रिभागिकाः
सर्वौषधिचतुर्थांशं दाडिमस्य फलं भवेत् ॥७९॥

द्र व्येभ्यो निखिलेभ्यश्च सिता देयाऽद्धमात्रया
महाखाण्डवसंज्ञं स्याच्चूर्णमेतत्सुरोचनम् ॥८०॥

अग्निदीप्तिकरं हृद्यं कासातीसारनाशनम्
हृद्रो गकण्ठजठरमुखरोगप्रणाशनम् ॥८१॥

विषूचिकां तथाध्मानमर्शोगुल्मकृमीनपि
छर्दिं पञ्चविधां श्वासं चूर्णमेतद्व्यपोहति ॥८२॥

नारायणचूर्णमुदरादौ
चित्रकं त्रिफला व्योषं जीरकं हपुषा वचा
यवानी पिप्पलीमूलं शतपुष्पाऽजगन्धिका ॥८३॥

अजमोदा शटी धान्यं विडङ्गं स्थूलजीरकम्
हेमाह्वा पौष्करं मूलं क्षारौ लवणपञ्चकम् ॥८४॥

कुष्ठं चेति समांशानि विशाला स्याद् द्विभागिका
त्रिवृत्त्रिभागा विज्ञेया दन्त्या भागत्रयं भवेत् ॥८५॥

चतुर्भागा शातला स्यात्सर्वाण्येकत्र चूर्णयेत्
पाचनस्नेहनाद्यैश्च स्निग्धकोष्ठस्य रोगिणः ॥८६॥

दद्याच्चूर्णं विरेकाय सर्वरोगप्रणाशनम्
हृद्रो गे पाण्डुरोगे च कासे श्वासे भगन्दरे ॥८७॥

मन्देऽग्नौ च ज्वरे कुष्ठे ग्रहण्यां च गलग्रहे
दद्याद्युक्तानुपानेन तथाध्माने सुरादिभिः ॥८८॥

गुल्मे बदरनीरेण विड्भेदे दधिमस्तुना
उष्णाम्बुभिरजीर्णे च वृक्षाम्लैः परिकर्त्तिषु ॥८९॥

उष्ट्रीदुग्धेनोदरेषु तथा तक्रेण वा गवाम्
प्रसन्नया वातरोगे दाडिमाम्भोभिरर्शसि ॥९०॥

द्विविधे च विषे दद्याद् घृतेन विषनाशनम्
चूर्णं नारायणं नाम दुष्टरोगगणापहम् ॥९१॥

हपुषाद्यं चूर्णमजीर्णोदरादौ
हपुषा त्रिफला चैव त्रायमाणा च पिप्पली
हेमक्षीरी त्रिवृच्चैव शातला कटुका वचा ॥९२॥

नीलिनी सैन्धवं कृष्णं लवणं चेति चूर्णयेत्
उष्णोदकेन मूत्रेण दाडिमत्रिफलारसैः ॥९३॥

तथा मांसरसेनापि यथायोग्यं पिबेन्नरः
अजीर्णे प्लीह्नि गुल्मेषु शोफार्शोविषमाग्निषु ॥९४॥

पञ्चसमचूर्णं शूलादौ
शुण्ठी हरीतकी कृष्णा त्रिवृत्सौवर्चलं तथा
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ॥९५॥

ज्ञेयं पञ्च समं चूर्णमेतच्छूलहरं परम्
आध्मानजठरार्शोघ्नमामवातहरंस्मृतम् ॥९६॥

नाराचचूर्णमाध्मानशूलादौ
कर्षमात्रा भवेत्कृष्णा त्रिवृता स्यात्पलोन्मिता
खण्डात्पलं च विज्ञेयं चूर्णमेकत्र कारयेत् ॥९७॥

कर्षोन्मितं लिहेदेतत्क्षौद्रे णाध्माननाशनम्
गाढविट्कोदरकफान्पित्तशूलं च नाशयेत् ॥९८॥

लवणत्रितयाद्यं चूर्णं यकृत्प्लीहादौ
लवणत्रितयं क्षारौ शतपुष्पाद्वयं वचा
अजमोदाऽजगन्धा च हपुषा जीरकद्वयम् ॥९९॥

मरिचं पिप्पलीमूलं पिप्पली गजपिप्पली
हिङ्गु च हिङ्गुपत्री च शटी पाठोपकुञ्चिका ॥१००॥

शुण्ठीचित्रकचव्यानि विडङ्गं चाम्लवेतसम्
दाडिमं तिन्तिडीकं च त्रिवद् दन्ती शतावरी ॥१०१॥

इन्द्र वारुणिका भार्ङ्गी देवदारु यवानिका
कुस्तुम्बुरुस्तुम्बुरूणि पौष्करं बदराणि च ॥१०२॥

शिवा चेति समांशानां चूर्णमेकत्र कारयेत्
भावयेदार्द्र करसैर्बीजपूररसैस्तथा ॥१०३॥

तत्पिबेत्सर्पिषा जीर्णमद्येनोष्णोदकेन वा
कोलाम्भसा वा तक्रेण दुग्धेनौष्ट्रेण मस्तुना ॥१०४॥

यकृत्प्लीहकटीशूलगुदकुक्षिहृदामयान्
अर्शोविष्टम्भमन्दाग्निगुल्मप्लीहोदराणि च ॥१०५॥

हिक्काध्मानश्वासकासाञ्जयेदेतान्न संशयः
एतैरेवौषधैः सम्यग्घृतं वा साधयेद्भिषक् ॥१०६॥

तुम्बुर्वादिचूर्णं शूलादौ
तुम्बुरूणि त्रिलवणं यवानी पुष्कराह्वयम् ॥१०७॥

यवक्षाराभयाहिङ्गुविडङ्गानि समानि च
त्रिवृत् त्रिभागा विज्ञेया सूक्ष्मचूर्णानि कारयेत् ॥१०८॥

पिबेदुष्णेन तोयेन यवक्वाथेन वा पिबेत्
जयेत्सर्वाणि शूलानि गुल्माध्मानोदराणि च ॥१०९॥

चित्रकाद्यं चूर्णं मन्दाग्न्यादौ
चित्रको नागरं हिङ्गु पिप्पली पिप्पलीजटा
चव्याजमोदामरिचं प्रत्येकं कर्षसम्मितम् ॥११०॥

स्वर्जिका च यवक्षारः सिन्धु सौवर्चलं बिडम्
सामुद्र कं रोमकं च कोलमात्राणि कारयेत् ॥१११॥

एकीकृत्याखिलं चूर्णं भावयेन्मातुलुङ्गजैः
रसैर्दाडिमजैर्वाऽपि शोषयेदातपेन च ॥११२॥

एतच्चूर्णं जयेद् गुल्मं ग्रहणीमामजां रुजम्
अग्निं च कुरुते दीप्तं रुचिकृत्कफनाशनम् ॥११३॥

वडवानलचूर्णं मन्दाग्न्यादौ
सैन्धवं पिप्पलीमूलं पिप्पलीचव्य चित्रकम्
शुण्ठी हरीतकी चेति क्रमवृद्धानि चूर्णयेत् ॥११४॥

वडवानलनामैतच्चूर्णं स्यादग्निदीपनम् ॥११४॥

अजमोदादिचूर्णमामवातशोथादौ
अजमोदा विडङ्गानि सैन्धवं देवदारु च
चित्रकः पिप्पलीमूलं शतपुष्पा च पिप्पली ॥११५॥

मरिचं चेति कर्षांशं प्रत्येकं कारयेद् बुधः
कर्षास्तु पञ्च पथ्याया दश स्युर्वृद्धदारुकात् ॥११६॥

नागराच्च दशैव स्युः सर्वाण्येकत्र चूर्णयेत्
पिबेत्कोष्णजलेनैव चूर्णं श्वयथुनाशनम् ॥११७॥

आमवातरुजं हन्ति सन्धिपीडां च गृध्रसीम्
कटिपृष्ठगुदस्थां च जङ्घयोश्च रुजं जयेत् ॥११८॥

तूनीप्रतूनीविश्वाचीकफवातामयाञ्जयेत्
समेन वा गुडेनास्य वटकान्कारयेद्भिषक् ॥११९॥

शुण्ठ्यादिचूर्णं श्वासादौ
शुण्ठी सौवर्चलं हिङ्गु दाडिमं चाम्लवेतसम्
चूर्णमुष्णाम्बुना पेयं श्वासहृद्रो गशान्तये ॥१२०॥

हिङ्ग्वादिचूर्णं शूलादौ
हिङ्गु पाठाऽभया धान्यं दाडिमं चित्रकः शटी ॥१२१॥

अजमोदा त्रिकटुकं हपुषा चाम्लवेतसम्
अजगन्धा तिन्तिडीकं जीरकं पौष्करं वचा ॥१२२॥

चव्यं क्षारद्वयं पञ्च लवणानि विचूर्णयेत्
प्राग्भोजनस्य मध्ये वा चूर्णमेतत्प्रयोजयेत् ॥१२३॥

पिबेद्वा जीर्णमद्येन तक्रेणोष्णोदकेन वा
गुल्मे वातकफोद्भूते हृद्ग्रहेऽष्ठीलिकासु च ॥१२४॥

हृद्वस्तिपार्श्वशूलेषु शूले च गुदयोनिजे
मूत्रकृच्छ्रे तथानाहे पाण्डुरोगेऽरुचौ तथा ॥१२५॥

हिक्कायां यकृति प्लीह्नि कासे श्वासे गलग्रहे
ग्रहण्यर्शोविकारेषु चूर्णमेतत्प्रशस्यते ॥१२६॥

भावितं मातुलुङ्गस्य बहुशः स्वरसेन वा
कुर्याच्च गुटिका बह्व्यो वातश्लेष्मामयापहाः ॥१२७॥

यवानीखाण्डवचूर्णमरोचकादौ
यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसौ
बदराम्लं च कुर्वीत चतुःशाणमितानि च ॥१२८॥

सार्धद्विशाणंमरिचं पिप्पली दशशाणिका
त्वक्सौवर्चलधान्याकं जीरकं द्विद्विशाणकम् ॥१२९॥

चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत्
चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम् ॥१३०॥

चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीं ज्वरम्
छर्दिशोकातिसारांश्च प्लीहानाहविबन्धताः
अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान् ॥१३१॥

तालीसादिचूर्णमरोचकादौ
तालीसं मरिचं शुण्ठी पिप्पली वंशरोचना
एकद्वित्रिचतुःपञ्चकर्षैर्भागान्प्रकल्पयेत् ॥१३२॥

एलात्वचोस्तु कर्षार्द्धं प्रत्येकं भागमाचरेत्
द्वात्रिंशत्कर्षतुलिता प्रदेया शर्करा बुधैः ॥१३३॥

तालीसाद्यमिदं चूर्णं रोचनं पाचनं स्मृतम्
कासश्वासज्वरहरं छर्द्यतीसारनाशनम् ॥१३४॥

शोषाध्मानहरं प्लीहाग्रहणीपाण्डुरोगजित्
पक्त्वा वा शर्करां चूर्णं क्षिपेत्स्याद् गुटिका ततः ॥१३५॥

सितोपलादिचूर्णं कासक्षयपित्तदाहादौ
सितोपला षोडश स्यादष्टौ स्याद्वंशरोचना
पिप्पली स्याच्चतुष्कर्षा स्यादेला च द्विकार्षिकी ॥१३६॥

एकः कर्षस्त्वचः कार्यश्चूर्णयेत्सर्वमेकतः
सितोपलादिकं चूर्णं मधुसर्पिर्युतं लिहेत् ॥१३७॥

श्वासकासक्षयहरं हस्तपादाङ्गदाहजित्
मन्दाग्निं सुप्तजिह्वत्वं पार्श्वशूलमरोचकम्
ज्वरमूर्ध्वगतं रक्तं पित्तमाशु व्यपोहति ॥१३८॥

लवणभास्करचूर्णं ग्रहणीगुल्मादौ
समुद्र लवणं कार्यमष्टकर्षमितं बुधैः
पञ्चसौवर्चलं ग्राह्यं बिडं सैन्धवधान्यके ॥१३९॥

पिप्पली पिप्पलीमूलं कृष्णजीरकपत्रकम्
नागकेशरतालीसमम्लवेतसकं तथा ॥१४०॥

द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद् बुधः
मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् ॥१४१॥

दाडिमंस्याच्चतुष्कर्षं त्वगेला चार्द्धकार्षिकी
एतच्चूर्णीकृतं सर्वं लवणं भास्कराभिधम् ॥१४२॥

शाणप्रमाणं देयं तु मस्तुतक्रसुरासवैः
वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् ॥१४३॥

अर्शांसि ग्रहणीं कुष्ठं विबन्धं च भगन्दरम्
शोफं शूलं श्वासकासावामवातं च हृद्रुजम् ॥१४४॥

मन्दाग्निं नाशयेदेतद् दीपनं पाचनं परम्
सर्वलोकहितार्थाय भास्करेणोदितं पुरा ॥१४५॥

एलादिचूर्णं छर्दिरोगे
एलाप्रियङ्गुमुस्तानि कोलमज्जा च पिप्पली
श्रीचन्दनं तथा लाजा लवङ्गं नागकेशरम् ॥१४६॥

एतच्चूर्णीकृतं सर्वं सिताक्षौद्र युतं लिहेत्
वातपित्तकफोद्भूतां छर्दिं हन्त्यतिवेगतः ॥१४७॥

व्याघ्रीचूर्णमूर्ध्ववातमहाश्वासादौ
व्यिआ!घ्रीजीरकधात्रीणां चूर्णं मधुयुतंलिहेत्
ऊर्ध्ववातमहाश्वासतमकैर्मुच्यते क्षणात् ॥१४८॥

पञ्चनिम्बचूर्णं कुष्ठादौ
मूलं पत्रं फलं पुष्पं त्वचं निम्बात्समाहरेत्
सूक्ष्मचूर्णमिदंकुर्यात्पलैः पञ्चदशोन्मितैः ॥१४९॥

लोहभस्महरीतक्यौ चक्रमर्दकचित्रकौ
भल्लातकं बिडङ्गानि शर्करामलकं निशा ॥१५०॥

पिप्पली मरिचं शुण्ठी वाकुची कृतमालकः
गोक्षुरश्च पलोन्मानमेकैकं कारयेद् बुधः ॥१५१॥

सर्वमेकीकृतं चूर्णं भृङ्गराजेन भावयेत्
अष्टभागावशिष्टेन खदिरासनवारिणा ॥१५२॥

भावयित्वा च संशुष्कं कर्षमात्रं ततः पिबेत्
खदिरासनतोयेन सर्पिषा पयसाथवा ॥१५३॥

मासेन सर्वकुष्ठानि विनिहन्ति रसायनम्
पञ्चनिम्बमिदं चूर्णं सर्वरोगप्रणाशनम् ॥१५४॥

शतावरीचूर्णं वाजीकरणे
शतावरी गोक्षुरश्च बीजं च कपिकच्छुजम्
गाङ्गेरुकी चातिबला बीजमिक्षुरकोद्भवम् ॥१५५॥

चूर्णितं सर्वमेकत्र गोदुग्धेन पिबेन्निशि
न तृप्तिं याति नारीभिर्नरश्चूर्णप्रभावतः ॥१५६॥

अश्वगन्धादिचूर्णं वाजीकरणे
अश्वगन्धा दशपला तन्मात्रो वृद्धदारकः
चूर्णीकृत्योभयं विद्वान्घृतभाण्डे निधापयेत् ॥१५७॥

कर्षैकं पयसा पीत्वा नारीभिर्नैव तृप्यति
अगत्वा प्रमदां भूयाद्वलीपलितवर्जितः ॥१५८

मुसल्यादिचूर्णं क्लीवतायाम्
मुसलीकन्दचूर्णं तु गुडूचीसत्त्वसंयुतम्
वानरीगोक्षुराभ्यां च शाल्मलीशर्करामलैः
आलोड्य घृतदुग्धेन पाययेत्कामवर्धनम् ॥१५९॥

नवायसचूर्णं पाण्डुरोगादौ
चित्रकं त्रिफला मुस्तं विडङ्गं त्र्! यूषणानि च
समभागानि कार्याणि नव भागा हतायसः ॥१६०॥

एतदेकीकृतं चूर्णं मधुसर्पिर्युतं लिहेत्
गोमूत्रमथवा तक्रमनुपाने प्रशस्यते ॥१६१॥

पाण्डुरोगं जयत्युग्रं हृद्रो गं च भगन्दरम्
शोथकुष्ठोदरार्शांसि मन्दाग्निमरुचिं कृमीन् ॥१६२॥

आकारकरभादिचूर्णं स्तम्भने
आकारकरभः शुण्ठी कङ्कोलं कुङ्कुमं कणा
जातीफलं लवङ्गं च चन्दनं चेति कार्षिकान् ॥१६३॥

चूर्णानि मानतः कुर्यादहिफेनं पलोन्मितं
सर्वमेकीकृतं चूर्णं माषैकं मधुना लिहेत् ॥१६४॥

शुक्रस्तम्भकरं चूर्णं पुंसामानन्दकारकम्
नारीणां प्रीतिजननं सेवेत निशि कामुकः ॥१६५॥

बकुलत्वक्चूर्णं दन्तदार्ढ्ये
बकुलत्वग्भवं चूर्णं घर्षयेद्दन्तपङ्क्तिषु
वज्रादपि दृढीभूता दन्ताः स्युश्चपला ध्रुवम् ॥१६६॥

इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे चूर्णकल्पनानाम पष्ठोऽध्यायः

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP