मध्यखण्डम् - द्वादशोऽध्यायः
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
तत्रादौ रसप्रशंसा
पारदः सर्वरोगाणां जेता पुष्टिकरः स्मृतः
सुज्ञेन साधितः कुर्यात्संसिद्धिं देहलोहयोः ॥१॥
रसनामानि
रसेन्द्र ः! पारदः सूतो हरजः सूतको रसः
मिश्रकश्चेति नामानि ज्ञेयानि रसकर्मसु ॥२॥
ताम्रादिधातूनां सूर्यादीनामधिष्ठाननिर्देशः
ताम्रतारारनागाश्च हेमवङ्गौ च तीक्ष्णकम्
कांस्यकं कान्तलोहं च धातवो नव ये स्मृताः
सूर्यादीनां ग्रहाणां ते कथिता नामभिः क्रमात् ॥३॥
पारदशोधनविधिः
राजीरसोनमूषायां रसं क्षिप्त्वा विबन्धयेत्
वस्त्रेण दोलिकायन्त्रे स्वेदयेत्काञ्जिकैस्त्र्! यहम् ॥४॥
दिनैकं मर्दयेत्सूतं कुमारीसम्भवैर्द्र वैः
तथा चित्रकजैः क्वाथैर्मर्दयेदेकवासरम् ॥५॥
काकमाचीरसैस्तद्वद् दिनमेकं च मर्दयेत्
त्रिफलायास्तथा क्वाथै रसो मर्द्यः प्रयत्नतः ॥६॥
ततस्तेभ्यः पृथक्कुर्यात्सूतं प्रक्षाल्य काञ्जिकैः
ततः क्षिप्त्वा रसं खल्वे रसादर्द्धं च सैन्धवम् ॥७॥
मर्दयेन्निम्बुकरसैर्दिनमेकमनारतम्
ततो राजी रसोनश्च मुख्यश्च नवसादरः ॥८॥
एतै रससमैस्तद्वत्सूतो मर्द्यस्तुषाम्बुना
ततः संशोध्य चक्राभंकृत्वा लिप्त्वा च हिङ्गुना ॥९॥
द्विस्थालीसम्पुटे धृत्वा पूरयेल्लवणेन च
अधः स्थाल्यां ततो मुद्रा ं! दद्याद् दृढतरां बुधः ॥१०॥
विशोष्याग्निं विधायाधो निषिञ्चेदम्बुनोपरि
ततस्तु कुर्यात्तीव्राग्निं तदधः प्रहरत्रयम् ॥११॥
एवं निपातयेदूर्ध्वंरसो दोषविवर्जितः
अथोर्ध्वपिठरीमध्ये लग्नो रसो रसोत्तमः ॥१२॥
गन्धकशोधनविधिः
लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत्
तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥१३॥
विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिःक्षिपेत्
एवं गंधकशुद्धिः स्यात्सर्वकार्येषु योजयेत् ॥१४॥
हिङ्गुलशोधनविधिः
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥१५
हिङ्गुलात्पारदनिष्कासनविधिः
निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम् ॥१६॥
पिष्ट्वा दरदमूर्ध्वं च पातयेत्सूतयुक्तिवत्
ततः शुद्धरसं तस्मान्नीत्वा कार्येषु योजयेत् ॥१७॥
पारदस्य मुखकरणविधिः
कालकूटो वत्सनाभः शृङ्गकश्च प्रदीपकः
हालाहलो ब्रह्मपुत्रो हारिद्र ः! सक्तुकस्तथा ॥१८॥
सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव
अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकम् ॥१९॥
गुञ्जाऽहिफेनावित्येताः सप्तोपविषजातयः
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते
मुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् ॥२०॥
द्वितीयो रसमुखकरणविधिः
अथवा त्रिकटुक्षारौ राजी लवणपञ्चकम् ॥२१॥
रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः
समांशैः पारदादेतैर्जम्बीरेण द्र वेण वा
निम्बुतोयैः काञ्जिकैर्वा सोष्णखल्वे विमर्दयेत् ॥२२॥
अहोरात्रत्रयेण स्याद्र से धातुचरं मुखम्
तृतीयो रसमुखकरणविधिः
अथवा बिन्दुलीकीटै रसो मर्द्यस्त्रिवासरम्
लवणाम्लैर्मुखं तस्य जायते धातुघस्मरम् ॥२३॥
कच्छपयन्त्रेण गन्धकजारणविधिः
अथ कच्छपयन्त्रेण गन्धजारणमुच्यते
मृत्कुण्डे निक्षिपेत्तोयं तन्मध्ये च शरावकम् ॥२४॥
महत्कुण्डपिधानाभं मध्ये मेखलया युतम्
लिप्त्वा च मेखलामध्यं चूर्णेनात्र रसं क्षिपेत् ॥२५॥
रसस्योपरि गन्धस्य रजो दद्यात्समांशकम्
दत्त्वोपरि शरावं च भस्ममुद्रा प्रदापयेत् ॥२६॥
तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलैः
एवं पुनः पुनर्गन्धं षड्गुणं जारयेद् बुधः ॥२७॥
गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकर्मकृत् ॥२८॥
पारदमारणविधिः
धूमसारं रसं तोरीं गन्धकं नवसादरम् ॥२९॥
यामैकं मर्दयेदम्लैर्भागं कृत्वा समांशकम्
काचकूप्यां विनिक्षिप्य तां च मृद्वस्त्रमुद्र या ॥३०॥
विलिप्य परितो वक्त्रे मुद्रा दत्त्वा च शोषयेत्
अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत् ॥३१॥
पिठरीं वालुकापूरैर्भृत्वा चाकूपिकागलम्
निवेश्य चुल्ल्यां तदधः कुर्याद्वह्निं शनैः शनैः ॥३२॥
तस्मादप्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात्
एवं द्वादशभिर्यामैर्म्रियते सूतकोत्तमः ॥३३॥
स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत्
अधः स्थं मृतसूतं च सर्वकर्मसु योजयेत् ॥३४॥
द्वितीयः पारदमारणविधिः
अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत्
तत्सम्पुटे न्यसेत्सूतं मलयूदुग्धमिश्रितम् ॥३५॥
द्रो णपुष्पीप्रसूनानि विडङ्गमिरिमेदकः
एतच्चूर्णमधोर्ध्वं च दत्त्वा मुद्रा प्रदीयते ॥३६॥
तं गोलं सन्धयेत्सम्यङ्मृण्मूषासम्पुटे सुधीः
मुद्रा दत्त्वा शोधयित्वा ततो गजपुटे पचेत्
एवमेकपुटेनैव जायते भस्म सूतकम् ॥३७॥
तृतीयः पारदमारणविधिः
काकोदुम्बरिकादुग्धरसं किञ्चिद्विमर्दयेत् ॥३८॥
तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत्
क्षिप्त्वा तत्सम्पुटे सूतं तत्र मुद्रा ं! प्रदापयेत् ॥३९॥
धृत्वा तं गोलकं प्राज्ञो मृण्मूषासम्पुटेऽधिके
पचेन्मृदुपुटेनैव सूतको याति भस्मताम् ॥४०॥
चतुर्थः पारदमारणविधिः
नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः
मृण्मूषासम्पुटे पक्त्वा सूतो यात्येव भस्मताम् ॥४१॥
अथ ज्वरादौ रसाः प्रोच्यन्ते
तत्र ज्वराङ्कुशरसः
खण्डितं हरिणशृङ्गं ज्वालामुख्या रसैः समम्
रुद्ध्वा भाण्डे पचेच्चुल्ल्यां यामयुग्मं ततो नयेत् ॥४२॥
अष्टांशं त्रिकटुं दद्यान्निष्कमात्रं च भक्षयेत्
नागवल्लीरसैः सार्द्धं वातपित्तज्वरापहम् ॥४३॥
अयं ज्वराङ्कुशो नाम रसः सर्वज्वरापहः
एकाहिकं द्व्याहिकं च त्र्! याहिकं वा न संशयः ॥४४॥
ज्वरारिरसः
पारदं रसकं तालं तुत्थं टङ्कणगन्धके
सर्वमेतत्समं शुद्धं कारवेल्लीरसैर्दिनम् ॥४५॥
मर्दयेल्लेपयेत्तेन ताम्रपात्रोदरं भिषक्
अङ्गुल्यर्धप्रमाणेन ततो रुद्ध्वा च तन्मुखम् ॥४६॥
पचेत्तं वालुकायन्त्रे क्षिप्त्वा धान्यानि तन्मुखे
यदा स्फुटन्ति धान्यानि तदा सिद्धं विनिर्दिशेत् ॥४७॥
ततो नयेत्स्वाङ्गशीतं ताम्रपात्रोदराद्भिषक्
रसं ज्वरारिनामानं विचूर्ण्य मरिचैः समम् ॥४८॥
माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम्
त्रिदिनैर्विषमं तीव्रमेकद्वित्रिचतुर्थकम् ॥४९॥
शीतज्वरारिरसः
तालकं तुत्थकं ताम्रं रसं गन्धं मनःशिलाम्
कर्षं कर्षं प्रयोक्तव्यं मर्दयेत् त्रिफलाऽम्बुभिः ॥५०॥
गोलं न्यसेत्सम्पुटके पुटं दद्यात् प्रयत्नतः
ततो नीत्वाऽकदुग्धेन वज्रीदुग्धेन सप्तधा ॥५१॥
क्वाथेन दन्त्याः श्यामायाः भावयेत्सप्तधा पुनः
माषमात्रं रसं दिव्यं पञ्चाशन्मरिचैर्युतम् ॥५२॥
गुडं गद्याणकं चैव तुलसीदलयुग्मकम्
भक्षयेत्त्रिदिनं भक्त्या शीतारिर्दुर्लभः परः ॥५३॥
पथ्यं दुग्धौदनं देयं विषमं शीतपूर्वकम्
दाहपूर्वं हरत्याशु तृतीयकचतुर्थकौ
द्व्याहिकं सततं चैव वैवर्ण्यं च नियच्छति ॥५४॥
ज्वरघ्नी गुटिका
भागैकः स्याद्र साच्छुद्धादैलेयः पिप्पली शिवा
आकारकरभो गन्धः कटुतैलेन शोधितः ॥५५॥
फलानि चेन्द्र वारुण्याश्चतुर्भागमिता अमी
एकत्र मर्दयेच्चूर्णमिन्द्र वारुणिकारसैः ॥५६॥
माषोन्मितां गुटीं कृत्वा दद्यात्सद्योज्वरे बुधः
छिन्नारसानुपानेन ज्वरघ्नी गुटिका मता ॥५७॥
क्षयादौ लोकनाथरसः
शुद्धो बुभुक्षितः सूतो भागद्वयमितो भवेत्
तथा गन्धस्य भागौ द्वौ कुर्यात्कज्जलिकां तयोः ॥५८॥
सूताच्चतुर्गुणेष्वेव कपर्देषु विनिक्षिपेत्
भागैकं टङ्कणं दत्त्वा गोक्षीरेण विमर्दयेत् ॥५९॥
तथा शङ्खस्य खण्डानां भागानष्टौ प्रकल्पयेत्
क्षिपेत्सर्वं पुटस्यान्तश्चूर्णलिप्तशरावयोः ॥६०॥
गर्त्ते हस्तोन्मिते धृत्वा पुटेद्गजपुटेन च
स्वाङ्गशीतं समुद्धृत्य पिष्ट्वा तत्सर्वमेकतः
षड्गुञ्जासम्मितं चूर्णमेकोनत्रिंशदूषणैः ॥६१॥
तत्रानुपानानि
घृतेन वातजे दद्यान्नवनीतेन पित्तजे
क्षौद्रे ण श्लेष्मजे दद्यादतीसारे क्षये तथा ॥६२॥
अरुचौ ग्रहणीरोगे कार्श्ये मन्दानले तथा
कासश्वासेषु गुल्मेषु लोकनाथरसो हितः ॥६३॥
तद्भक्षणविधिः
तस्योपरि घृतान्नं च भुञ्जीत कवलत्रयम्
मञ्चे क्षणैकमुत्तानः शयीतानुपधानके ॥६४॥
पथ्यभोजनम्
अनम्लमन्नं सघृतं भुञ्जीत मधुरं दधि
प्रायेण जाङ्गलं मांसं प्रदेयं घृतपाचितम् ॥६५॥
सुदुग्धभक्तंदद्याच्च जातेऽग्नौ सान्ध्यभोजने
सघृतान्मुद्गवटकान्व्यञ्जनेष्ववचारयेत् ॥६६॥
तत्र स्नानव्यवस्था
तिलामलककल्केन स्नापयेत्सर्पिषाऽथवा
अभ्यञ्जयेत्सर्पिषा च स्नानं कोष्णोदकेन च ॥६७॥
सेवनसमये त्याज्यपदार्थाः
क्वचित्तैलं न गृह्णीयान्न बिल्वं कारवेल्लकम्
वार्ताकं शफरीं चिञ्चां त्यजेद्व्यायाममैथुने ॥६८॥
मद्यं सन्धानकं हिङ्गु शुण्ठीं माषान्मसूरकान्
कूष्माण्डं राजिकां कोपं काञ्जिकं चैव वर्जयेत् ॥६९॥
त्यजेदयुक्तनिद्रा च कांस्यपात्रे च भोजनम्
ककारादियुतं सर्वं त्यजेच्छाकफलादिकम् ॥७०॥
पथ्योऽय लोकनाथेऽस्तुऐ! शुभनक्षत्रवासरे
सेवनविधिः
पूर्णातिथौ सिते पक्षे जाते चन्द्र बले तथा ॥७१॥
पूजयित्वा लोकनाथं कुमारीं भोजयेत्ततः
दानं दत्त्वा द्विघटिकामध्ये ग्राह्यो रसोत्तमः ॥७२॥
रसजदाहशान्त्युपायः
रसाच्चेज्जायते तापस्तदा शर्करया युतम् ॥७३॥
सत्त्वं गुडूच्या गृह्णीयाद्वंशरोचनया युतम्
खर्जूरं दाडिमं द्रा क्षामिक्षुखण्डानि दापयेत् ॥७४॥
रोगानुसारेणानुपानानि
अरुचौ निस्तुषं धान्यं घृतभृष्टं सशर्करम्
दद्यात्तथा ज्वरे धान्यगुडूचीक्वाथमाहरेत् ॥७५॥
उशीरवासकक्वाथं दद्यात्समधुशर्करम्
रक्तपित्ते कफे श्वासे कासे च स्वरसंक्षये ॥७६॥
अग्निभृष्टजयाचूर्णं मधुना निशि दीयते
निद्रा नाशेऽतिसारे च ग्रहण्यां मन्दपावके ॥७७॥
सौवर्चलाभयाकृष्णाचूर्णमुष्णोदकैः पिबेत्
शूलेऽजीर्णे तथा कृष्णा मधुयुक्ता ज्वरे हिता ॥७८॥
प्लीहोदरे वातरक्ते छर्द्यां चैव गुदाङ्कुरे
नासिकादिषु रक्तेषु रसं दाडिमपुष्पजम् ॥७९॥
दूर्वायाः स्वरसं नस्ये प्रदद्याच्छर्करायुतम्
कोलमज्जा कणा बर्हिपक्षभस्म सशर्करम् ॥८०॥
मधुना लेहयेच्छर्दिहिक्काकोपस्य शान्तये
विधिरेष प्रयोज्यस्तु सर्वस्मिन्पोट्टलीरसे ॥८१॥
मृगाङ्के हेमगर्भे च मौक्तिकाख्ये रसेषु च
इत्ययं लोकनाथाख्यो रसः सर्वरुजो जयेत् ॥८२॥
लघुलोकनाथरसः
वराटभस्म मण्डूरं चूर्णयित्वा घृते पचेत्
तत्समं मारिचं चूर्णं नागवल्ल्यां विभावितम् ॥८३॥
तच्चूर्णं मधुना लेह्यमथवा नवनीतकैः
माषमात्रं क्षयं हन्ति यामे यामे च भक्षितम् ॥८४॥
लोकनाथरसो ह्येष मण्डलाद्रा जयक्ष्मनुत् ॥८५॥
क्षयादौ मृगाङ्कपोट्टलीरसः
भूर्जवत्तनुपत्राणि हेम्नः सूक्ष्माणि कारयेत्
तुल्यानि तानि सूतेन खल्वे क्षिप्त्वा विमर्दयेत् ॥८६॥
काञ्चनाररसेनैव ज्वालामुख्या रसेन वा
लाङ्गल्या वा रसैस्तावद्यावद्भवति पिष्टिका ॥८७॥
ततो हेम्नश्चतुर्थांशं टङ्कणं तत्र निक्षिपेत्
पिष्टमौक्तिकचूर्णं च हेमद्विगुणमावपेत् ॥८८॥
तेषु सर्वसमं गन्धं क्षिप्त्वा चैकत्र मर्दयेत्
तेषां कृत्वा ततो गोलवासोभिः परिवेष्टयेत् ॥८९॥
पश्चान्मृदा वेष्टयित्वा शोषयित्वा च धारयेत्
शरावसम्पुटस्यान्तस्तत्र मुद्रा ं! प्रदापयेत् ॥९०॥
लवणापूरिते भाण्डे धारयेत्तं च सम्पुटम्
मुद्रा ं! दत्त्वा शोषयित्वा बहुभिर्गोमयैः पुटेत् ॥९१॥
ततः शीते समाहृत्य गन्धं सूतसमं क्षिपेत्
घृष्ट्वा च पूर्ववत्खल्वे पुटेद् गजपुटेन च ॥९२॥
स्वाङ्गशीतं ततो नीत्वा गुञ्जायुग्मं प्रयोजयेत्
अष्टभिर्मरिचैर्युक्तः कृष्णात्रययुतोऽथवा ॥९३॥
विलोक्य देयो दोषादीनेकैका रसरक्तिका
सर्पिषा मधुना वाऽपि दद्याद्दोषाद्यपेक्षया ॥९४॥
लोकनाथसमं पथ्यं कुर्यात्स्वस्थमनाः शुचिः
श्लेष्माणं ग्रहणीं कासं श्वासं क्षयमरोचकम्
मृगाङ्कोऽय रसो हन्यात्कृशत्वं बलहीनताम् ॥९५॥
क्षयश्वासादौ हेमगर्भपोट्टलीरसः
सूतात्पादप्रमाणेन हेम्नः पिष्टं प्रकल्पयेत्
तयोः स्याद् द्विगुणो गन्धो मर्दयेत्काञ्चनारिणा ॥९६॥
कृत्वा गोलं क्षिपेन्मूषासम्पुटे मुद्र येत्ततः
पचेद् भूधरयन्त्रेण वासरत्रितयं बुधः ॥९७॥
तत उद्धृत्य तत्सर्वं दद्याद् गन्धं च तत्समम्
मर्दयेदार्द्र करसैश्चित्रकस्वरसेन च ॥९८॥
स्थूलपीतवराटांश्च पूरयेत्तेन युक्तितः
एतस्मादौषधात्कुर्यादष्टमांशेन टङ्कणम् ॥९९॥
टङ्कणार्धं विषं दत्त्वा पिष्ट्वा सेहुण्डदुग्धकैः
मुद्र येत्तेन कल्केन वराटानांमुखानि च ॥१००॥
भाण्डे चूर्णप्रलिप्तेऽथ धृत्वा मुद्रा ं! प्रदापयेत्
गर्त्ते हस्तोन्मिते धृत्वा पुटेद्गजपुटेन च ॥१०१॥
स्वाङ्गशीतं रसं ज्ञात्वा प्रदद्याल्लोकनाथवत्
पथ्यं मृगाङ्कवज्ज्ञेयं त्रिदिनं लवणं त्यजेत् ॥१०२॥
यदा छर्दिर्भवेत्तस्य दद्याच्छिन्नाशृतं तदा
मधुयुक्तं तथा श्लेष्मकोपे दद्याद्गुडार्द्र कम् ॥१०३॥
विरेके भर्जिता भङ्गा प्रदेया दधिसंयुता
जयेत्कासं क्षयं श्वासं ग्रहणीमरुचिं तथा ॥१०४॥
अग्निं च कुरुते दीप्तं कफवातं नियच्छति
हेमगर्भ परो ज्ञेयो रसः पोट्टलिकाऽभिधः ॥१०५॥
द्वितीयो हेमगर्भपोट्टलीरसः
रसस्य भागाश्चत्वारस्तावन्तः कनकस्य च
तयोश्च पिष्टिकां कृत्वा गन्धो द्वादशभागकः ॥१०६॥
कुर्यात्कज्जलिकां तेषां मुक्ताभागाश्च षोडशः
चतुर्विंशच्च शङ्खस्य भागैकं टङ्कणस्य च ॥१०७॥
एकत्र मर्दयेत्सर्वं पक्वनिम्बूकजैः रसैः
कृत्वा तेषां ततो गोलं मूषासम्पुटके न्यसेत् ॥१०८॥
मुद्रा ं! दत्त्वा ततो हस्तमात्रे गर्त्ते च गोमयैः
पुटेद् गजपुटेनैव स्वाङ्गशीतं समुद्धरेत् ॥१०९॥
पिष्ट्वा गुञ्जाचतुर्मानं दद्याद्गव्याज्यसंयुतम्
एकोनत्रिंशदुन्मानमरिचैः सह दीयते ॥११०॥
राजते मृण्मये पात्रे काचजे वाऽवलेहयेत्
लोकनाथसमं पथ्यं कुर्याच्च स्वस्थमानसः ॥१११॥
कासे श्वासे क्षये वाते कफे ग्रहणिकागदे
अतिसारे प्रयोक्तव्या पोट्टली हेमगर्भिका ॥११२॥
विषमज्वरादौ महाज्वराङ्कुशरसः
शुद्धसूतो विषं गन्धः प्रत्येकं शाणसम्मिताः
धूर्त्तबीजं त्रिशाणं स्यात्सर्वेभ्यो द्विगुणा भवेत् ॥११३॥
हेमाह्वा कारयेदेषां सूक्ष्मं चूर्णं प्रयत्नतः
देयं जम्बीरमज्जाभिश्चूर्णं गुञ्जाद्वयोन्मितम् ॥११४॥
आर्द्र कस्वरसैर्वाऽपि ज्वरं हन्ति त्रिदोषजम्
एकाहिकं द्व्याहिकं वा त्र्! याहिकं वा चतुर्थकम् ॥११५॥
विषमं च ज्वरं हन्याद्विख्यातोऽय ज्वराङ्कुशः ॥११६॥
अतिसारादौ आनन्द भैरवरसः
दरदं वत्सनाभं च मरिचं टङ्कणं कणाम्
चूर्णयेत्समभागेन रसो ह्यानन्दभैरवः ॥११७॥
गुञ्जैकं वा द्विगुञ्जं वा बलं ज्ञात्वा प्रयोजयेत्
मधुना लेहयेच्चानु कुटजस्य फलं त्वचम् ॥११८॥
चूर्णितं कर्षमात्रं तु त्रिदोषोत्थातिसारजित्
दध्यन्नं दापयेत्पथ्यं गवाज्यं तक्रमेव च
पिपासायां जलं शीतं विजया च हिता निशि ॥११९॥
त्रिदोषे लघुसूचिकाभरणरसः
विषं पलमितं सूतः शाणिकश्चूर्णयेद् द्वयम्
तच्चूर्णं सम्पुटे क्षिप्त्वा कावलिप्तशरावयोः ॥१२०॥
मुद्रा ं! दत्त्वा च संशोष्य ततश्चुल्यां निवेशयेत्
वह्निं शनैः शनैः कुर्यात्प्रहरद्वयसंख्यया ॥१२१॥
तत उद्घाटयेन्मुद्रा मुपरिस्थां शरावकात्
संलग्नो यो भवेत्सूतस्तं गृह्णीयाच्छनैः शनैः ॥१२२॥
वायुस्पर्शो यथा न स्यात्तथा कुप्यां निवेशयेत्
यावत्सूच्या मुखे लग्नं कुप्या निर्याति भेषजम् ॥१२३॥
तावन्मात्रो रसो देयो मूर्च्छिते सन्निपातिनि
क्षुरेण प्रच्छिते मूर्ध्निं तत्राङ्गुल्या च घर्षयेत् ॥१२४॥
रक्तभेषजसम्पर्कान्मूर्च्छितोऽपि हि जीवति
तथैव सर्पदष्टस्तु मृतावस्थोऽपि जीवति ॥१२५॥
यदा तापो भवेत्तस्य मधुरं तत्र दीयते ॥१२६॥
सन्निपाते जलबन्धुरसः
सूतभस्मसमं गन्धं गन्धात्पादं मनः शिला
माक्षिकं पिप्पली व्योषं प्रत्येकं शिलया समम् ॥१२७॥
चूर्णयेद्भावयेत्पित्तैर्मत्स्यमायूरसम्भवैः
सप्तधा भावयेच्छुष्कं देयं गुञ्जाद्वयं हितम् ॥१२८॥
तालपर्णीरसश्चानु पञ्चकोलशृतोऽथवा
जलबन्धुरसो नाम सन्निपातं नियच्छति
जलयोगश्च कर्त्तव्यस्तेन वीर्यं भवेद्र से ॥१२९॥
सन्निपाते पञ्चवक्त्ररसः
शुद्धसूतं विषं गन्धं मरिचं टङ्कणं कणाम्
मर्दयेद् धूर्त्तजद्रा वैर्दिनमेकं च शोषयेत् ॥१३०॥
पञ्चवक्त्रो रसो नाम द्विगुञ्जः सन्निपातजित्
अर्कमूलकषायं तु सत्र्! यूषमनुपाययेत् ॥१३१॥
युक्तं दध्योदनं पथ्यं जलयोगं च कारयेत्
रसेनानेन शाम्यन्ति सक्षौद्रे ण कफादयः ॥१३२॥
मध्वार्द्र करसं चानुपिबेदग्निविवृद्धये
यथेष्टं घृतमांसाशी शक्तो भवति पावकः ॥१३३॥
सन्निपाते उन्मत्तरसः
रसं गन्धकतुल्यांशं धत्तूरफलजद्र वैः
मर्दयेद्दिनमेकं तु तत्तुल्यं त्रिकटुं क्षिपेत् ॥१३४॥
उन्मत्ताख्यो रसो नाम्ना नस्ये स्यात्सन्निपातजित् ॥१३५॥
सन्निपातादौ अञ्जनरसः
निस्त्वग्जैपालबीजं च दशनिष्कं विचूर्णयेत्
मरिचं पिप्पलद्यं सूतं प्रतिनिष्कं विमिश्रयेत् ॥१३६॥
भाव्यो जम्बीरजैद्रा र्वैः! सप्ताहं सम्प्रयत्नतः
रसोऽयमञ्जने दत्तः सन्निपातं विनाशयेत् ॥१३७॥
शूलादौ नाराचरसः
सूतं टङ्कणकं तुल्यं मरिचं सूततुल्यकम्
गन्धकं पिप्पलद्यं शुण्ठीं द्वौ द्वौ भागौ विचूर्णयेत् ॥१३८॥
सर्वतुल्यं क्षिपेद्दन्तीबीजं निस्तुषितं भिषक्
द्विगुञ्जं रेचनं सिद्धं नाराचोऽय महारसः
आध्मानं मलविष्टम्भानुदावर्त्तं च नाशयेत् ॥१३९॥
शूलादौ इच्छाभेदीरसः
दरदं टङ्कणं शुण्ठी पिप्पली चेति कार्षिकाः
हेमाह्वा पलमात्रा स्याद्दन्तीबीजं च तत्समम् ॥१४०॥
विचूर्ण्यैकत्र सर्वाणि गोदुग्धेनैव पाययेत्
त्रिगुञ्जं रेचनं दद्याद्विष्टम्भाध्मानरोगिषु ॥१४१॥
सर्वमेहे वसन्तकुसुमाकररसः
द्वौ भागौ हेमभूतेश्च गगनं चापि तत्समम्
लोहभस्म त्रयो भागाश्चत्वारो रसभस्मनः ॥१४२॥
वङ्गभस्म त्रिभागं स्यात्सर्वमेकत्र मर्दयेत्
प्रवालं मौक्तिकं चैव रससाम्येन दापयेत् ॥१४३॥
भावना गव्यदुग्धेन रसैर्घृष्ट्वाऽटरुषकैः
हरिद्रा वारिणा चैव मोचकन्दरसेन च ॥१४४॥
शतपत्ररसेनापि मालत्याः स्वरसेन च
पश्चान्मृगमदश्चन्द्र तुलसीरसभावितः ॥१४५॥
कुसुमाकर इत्येष वसन्तपदपूर्वकः
गुञ्जाद्वयं ददीतास्य मधुना सर्वमेहनुत् ॥१४६॥
सिताचन्दनसंयुक्तश्चाम्लपित्तादिरोगजित् ॥१४७॥
क्षयादौ राजमृगाङ्करसः
सूतभस्म त्रयो भागा भागैकं हेमभस्मकम्
मृताभ्रस्य च भागैकं शिलागन्धकतालकम् ॥१४८॥
प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत्
वराटान्पूरयेत्तेन छागीक्षीरेण टङ्कणम् ॥१४९॥
पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे सन्निरोधयेत्
शुष्कं गजपुटे पक्त्वा चूर्णयेत्स्वाङ्गशीतलम् ॥१५०॥
रसो राजमृगाङ्कोऽय चतुर्गुञ्जः क्षयापहः
दशपिप्पलिकाक्षौद्रै रेकोनत्रिंशदूषणैः ॥१५१॥
सघृतं दापयेत्पथ्यं स्त्रीकोपाग्निश्रमांस्त्यजेत्
पथ्यं वा लघुमांसानि राजरोगप्रशान्तये ॥१५२॥
क्षयश्वासादौ स्वयमग्निरसः
शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलीम्
तयोः समं तीक्ष्णचूर्णं मर्दयेत्कन्यकाद्र वैः ॥१५३॥
द्वियामान्ते कृतं गोलं ताम्रपात्रे विनिक्षिपेत्
आच्छाद्यैरण्डपत्रेण यामार्धेऽत्युष्णता भवेद् ॥१५४॥
धान्यराशौ न्यसेत्पश्चादहोरात्रात्समुद्धरेत्
संचूर्ण्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ॥१५५॥
भावयेत्कन्यकाद्रा वैः सप्तधा भृङ्गजैस्तथा
काकमाचीकुरण्टोत्थद्र वैर्मुण्ड्याः पुनर्नवैः ॥१५६॥
सहदेव्यमृतानीलीनिर्गुण्डीचित्रजैस्तथा
सप्तधा तु पृथग्द्रा वैर्भाव्यं शोष्यं तथातपे ॥१५७॥
सिद्धयोगो ह्ययं ख्यातः सिद्धानां च मुखागतः
अनुभूतो मया सत्यं सर्वरोगगणापहः ॥१५८॥
स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत्
त्रिफलामधुसंयुक्तः सर्वरोगेषु योजयेत् ॥१५९॥
त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः
समभागोन्मितैरेतैः समः पूर्वरसो भवेत् ॥१६०॥
संचूर्ण्य लेहयेत्क्षौद्रै र्भक्ष्यं निष्कद्वयं द्वयम्
स्वयमग्निरसो नाम्ना क्षयकासनिकृन्तनः ॥१६१॥
सर्वकासेष्वमृतार्णवरसः
पारदं गन्धकं शुद्धं मृतलोहं च टङ्कणम्
रास्ना विडङ्गत्रिफला देवदारु कटुत्रयम् ॥१६२॥
अमृता पद्मकं क्षौद्रं विश्वं तुल्यांशचूर्णितम्
त्रिगुञ्जं सर्वकासार्त्तः सेवयेदमृतार्णवम् ॥१६३॥
श्वासे सूर्यावर्त्तो रसः
सूतार्धो गन्धको मर्द्यो यामैकं कन्यकाद्र वैः
द्वयोस्तुल्यं ताम्रपत्रं पूर्वकल्केन लेपयेत् ॥१६४॥
दिनैकंस्थालिकायन्त्रे पक्वमादाय चूर्णयेत्
सूर्यावर्त्तो रसो ह्येष द्विगुञ्जः श्वासजिद्भवेत् ॥१६५॥
वातरोगे स्वच्छन्दभैरवरसः
शुद्धं सूतं मृतं लोहं ताप्यं गन्धकतालके
पथ्याऽग्निमन्थं निर्गुडी त्र्! यूषणं टङ्कणं विषम् ॥१६६॥
तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्र वैः
मुण्डीद्रा वैर्दिनैकं तु द्विगुञ्जं वटकीकृतम् ॥१६७॥
भक्षयेद्वातरोगार्त्तोनाम्ना स्वच्छन्दभैरवम्
रास्नाऽमृतादेवदारुशुण्ठीवातारिजं शृतम्
सगुग्गुलुं पिबेत्कोष्णमनुपानं सुखावहम् ॥१६८॥
ग्रहणीरोगे हंसपोट्टलीरसः
दग्धान्कपर्दिकान्पिष्ट्वा त्र्! यूषणं टङ्कणं विषम्
गन्धकं शुद्धसूतं च तुल्यं जम्बीरजैर्द्र वैः ॥१६९॥
मर्दयेद्भक्षेयन्माषं मरिचाज्यं लिहेदनु
निहन्ति ग्रहणीरोगं पथ्यं तक्रौदनं हितम् ॥१७०॥
अश्मर्यां त्रिविक्रमो रसः
मृतं ताम्रमजाक्षीरैः पाच्यं तुल्यैर्गतद्र वम्
तत्ताम्रं शुद्धसूतं च गन्धकं च समं समम् ॥१७१॥
निर्गुण्डीस्वरसैर्मर्द्यं तद्गोलं सन्धयेद्दिनम्
यामैकं बालुकायन्त्रे पाच्यं योज्यं द्विगुञ्जकम् ॥१७२॥
बीजपूरकमूलं तु सजलं चानुपाययेत्
रसस्त्रिविक्रमो नाम्ना मासैकेनाश्मरीप्रणुत् ॥१७३॥
कुष्ठादौ महातालेश्वररसः
तालं ताप्यं शिलां सूतं शुद्धं सैन्धवटङ्कणे
समांशं चूर्णयेत्खल्वे सूताद् द्विगुणगन्धकम् ॥१७४॥
गन्धतुल्यं मृतं ताम्रं जम्बीरैर्दिनपञ्चकम्
मर्द्यं षड्भिः पुटैः पाच्यं भूधरे संपुटोदरे ॥१७५॥
पुटे पुटे द्र वैर्मर्द्यं सर्वमेतत्तु षट्पलम्
द्विपलं मारितं ताम्रं लोहभस्म चतुष्पलम् ॥१७६॥
जम्बीराम्लेन तत्सर्वं दिनं मर्द्यं पुटेल्लघु
त्रिंशदंशं विषं चास्य क्षिप्त्वा सर्वं विचूर्णयेत् ॥१७७॥
माहिषाज्येन संमिश्रं निष्कार्धं भक्षयेत्सदा
मध्वाज्यैर्वाकुचीचूर्णं कर्षमात्रं लिहेदनु ॥१७८॥
सर्वकुष्ठानि हन्त्याशु महातालेश्वरो रसः ॥१७९॥
कुष्ठकुठाररसः
भस्मसूतसमो गन्धो मृतायस्ताम्रगुग्गुलुः
त्रिफला च महानिम्बश्चित्रकश्चशिलाजतु
इत्येतच्चूर्णितं कुर्यात्प्रत्येकं शाणषोडशम् ॥१८०॥
चतुःषष्टिः करञ्जस्य बीजचूर्णं प्रकल्पयेत्
चतुःषष्टिमृतं चाभ्रं मध्वाज्याभ्यां विलोडयेत् ॥१८१॥
स्निग्धे भाण्डे धृतं खादेद् द्विनिष्कं सर्वकुष्ठनुत्
रसः कुष्ठकुठारोऽय गलत्कुष्ठनिवारणः ॥१८२॥
श्वेतकुष्ठादौ उदयादित्यो रसः
शुद्धं सूतं द्विधा गन्धं मर्द्यं कन्याद्र वैर्दिनम्
तद्गोलं पिठरीमध्ये ताम्रपात्रेण रोधयेत् ॥१८३॥
सूतकाद् द्विगुणेनैव शुद्धेनाधोमुखेन च
पार्श्वे भस्म निधायाथ पात्रोर्ध्वं गोमयं जलम् ॥१८४॥
किञ्चित् किञ्चित्प्रदातव्यं चुल्ल्यां यामद्वयं पचेत्
चण्डाग्निना तदुद्धृत्य स्वाङ्गशीतं विचूर्णयेत् ॥१८५॥
काष्ठोदुम्बरिकावह्नित्रिफलाराजवृक्षकम्
विडङ्गं वाकुचीबीजं क्वाथयेत्तेन भावयेत् ॥१८६॥
दिनैकमुदयादित्योरसो देयो द्विगुञ्जकः
विचर्चिकां दद्रुकुष्ठं वातरक्तं च नाशयेत् ॥१८७॥
अनुपानं च कर्तव्यं वाकुचीफलचूर्णकम्
खदिरस्य कषायेण समेन परिपाचितम् ॥१८८॥
त्रिशाणं तद् गवां क्षीरैः क्वाथैर्वा त्रैफलैः पिबेत्
त्रिदिनान्ते भवेत्स्फोटः सप्ताहाद्वा किलासके ॥१८९॥
नीलद्यं गुञ्जां च कासीसं धत्तूरं हंसपादिकाम्
सूर्यभक्तां च चाङ्गेरीं पिष्ट्वा मूलानिलेपयेत् ॥१९०॥
स्फोटस्थानप्रशान्त्यर्थं सप्तरात्रं पुनः पुनः
श्वेतकुष्ठं निहन्त्याशु साध्यासाध्यं न संशयः ॥१९१॥
अपरः श्वित्रलेपोऽपि कथ्यतेऽत्र भिषग्वरैः
गुञ्जाफलाग्निचूर्णं च लेपितं श्वेतकुष्ठनुत् ॥१९२॥
शिलाऽपामार्गभस्मापि लिप्तं श्वित्रं विनाशयेत् ॥१९३॥
कुष्ठादौ सर्वेश्वररसः
शुद्धं सूतं चतुर्गन्धं पलं यामं विचूर्णयेत्
मृतताम्राभ्रलोहानां दरदस्य पलं पलम्
सुवर्णं रजतं चैव प्रत्येकं दशनिष्ककम् ॥१९४॥
माषैकं मृतवज्रं च तालं शुद्धं पलद्वयम्
जम्बीरोन्मत्तवासाभिः स्नुह्यर्क विषमुष्टिभिः ॥१९५॥
मर्द्यं हयारिजैद्रा र्वैः! प्रत्येकेन दिनं दिनम्
एवं सप्तदिनं मर्द्यं तद्गोलं वस्त्रवेष्टितम् ॥१९६॥
वालुकायन्त्रगं स्वेद्यं त्रिदिनं लघुवह्निना
आदाय चूर्णयेच्छ्लक्ष्णं पलैकं योजयेद्विषम् ॥१९७॥
द्विपलं पिप्पलीचूर्णं मिश्रं सर्वेश्वरो रसः
द्विगुञ्जो लिह्यते क्षौद्रै ः! सुप्तिमण्डलकुष्ठनुत् ॥१९८॥
वाकुचीदेवकाष्ठं च कर्षमात्रं सुचूर्णयेत्
लिहेदैरण्डतैलाक्तमनुपानं सुखावहम् ॥१९९॥
सुप्त्यादौ स्वर्णक्षीरीरसः
हेमाह्वां पञ्चपलिकां क्षिप्त्वा तक्रघटे पचेत्
तक्रे जीर्णे समुद्धृत्य पुनः क्षीरघटे पचेत् ॥२००॥
क्षीरे जीर्णे समुद्धृत्य क्षालयित्वा विशोषयेत्
तच्चूर्णं पञ्चपलिकं मरिचानां पलद्वयम् ॥२०१॥
पलैकं मूर्च्छितं सूतमेकीकृत्य तु भक्षयेत्
निष्कैकं सुप्तिकुष्ठार्त्तः स्वर्णक्षीरीरसो ह्ययम् ॥२०२॥
प्रमेहे मेहबद्धरसः
भस्मसूतं मृतं कान्तं मुण्डभस्म शिलाजतु
शुद्धं ताप्यं शिलां व्योषं त्रिफलां कोलबीजकम् ॥२०३॥
कपित्थं रजनीचूर्णं भृङ्गराजेन भावयेत्
विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा ॥२०४॥
निष्कमात्रो हरेन्मेहान्मेहबद्धो रसो महान्
महानिम्बस्य बीजानि पिष्ट्वा षट्सम्मितानि च ॥२०५॥
पलतण्डुलतोयेन घृतनिष्कद्वयेन च
एकीकृत्य पिबेच्चानु हन्ति मेहं चिरन्तनम् ॥२०६॥
जलोदरादौ महावह्निरसः
चतुःसूतस्य गन्धाष्टौ रजनी त्रिफला शिवा
प्रत्येकं च द्विभागं स्यात्त्रिवृज्जैपालचित्रकम् ॥२०७॥
प्रत्येकं च त्रिभागं स्यात् त्र्! यूषणं दन्तिजीरके
प्रत्येकमष्टभागं स्यादेकीकृत्य विचूर्णयेत् ॥२०८॥
जयन्तीस्नुक्पयोभृङ्गवह्निवातारितैलकैः
प्रत्येकेन क्रमाद्भाव्यं सप्तवारं पृथक्पृथक् ॥२०९॥
महावह्निरसो नाम निष्कमुष्णजलैः पिबेत्
विरेचनं भवेत्तेन तक्रभक्तं ससैन्धवम् ॥२१०॥
दिनान्ते दापयेत्पथ्यं वर्जयेच्छीतलं जलम्
सर्वोदरहरः प्रोक्तो मूढवातहरः परः ॥२११॥
गुल्मप्लीहादौ विद्याधररसः
गन्धकं तालकं ताप्यं मृतताम्रं मनः शिलाम्
शुद्धं सूतं च तुल्यांशं मर्दयेद्भावयेद् दिनम् ॥२१२॥
पिप्पल्यास्तु कषायेण वज्रीक्षीरेण भावयेत्
निष्कार्धं भक्षयेत्क्षौद्रै र्गुल्मप्लीहादिकं जयेत् ॥२१३॥
रसो विद्याधरो नाम गोमूत्रं च पिबेदनु ॥२१४॥
पक्तिशूले त्रिनेरसः
टङ्कणं हारिणं शृङ्गं स्वर्णं शुल्बं मृतं रसम्
दिनैकमार्द्र कद्रा वैर्मर्द्यं रुद्ध्वा पुटे पचेत्
त्रिनेत्राख्यरसस्यैकं माषं मध्वाज्यकैर्लिहेत् ॥२१५॥
सैन्धवं जीरकं हिंगु मध्वाज्याभ्यां लिहेदनु
पक्तिशूलहरः ख्यातो मासमात्रान्न संशयः ॥२१६॥
शूले शूलगजकेसरी रसः
शुद्धं सूतं द्विधा गन्धं यामैकं मर्दयेद् दृढम्
द्वयोस्तुल्यं शुद्धताम्रं सम्पुटे तन्निरोधयेत् ॥२१७॥
ऊर्ध्वाधो लवणं दत्त्वा मृद्भाण्डे धारयेद्भिषक्
ततो गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ॥२१८॥
सम्पुटं चूर्णयेत्सूक्ष्मं पर्णखण्डे द्विगुञ्जकम्
भक्षयेत्सर्वशूलार्त्तो हिङ्गु शुण्ठी च जीरकम् ॥२१९॥
वचामरिचजं चूर्णं कर्षमुष्णजलैः पिबेत्
असाध्यं नाशयेच्छूलं रसोऽय गजकेसरी ॥२२०॥
अग्निमान्द्यादौ अग्नितुण्डीवटीरसः
शुद्धं सूतं विषं गन्धमजमोदां फलत्रयम्
स्वर्जिक्षारं यवक्षारं वह्निसैन्धवजीरकम् ॥२२१॥
सौवर्चलं विडङ्गानि सामुद्रं त्र्! यूषणं समम्
विषमुष्टिं सर्वतुल्यां जम्बीराम्लेन मर्दयेत् ॥२२२॥
मरिचाभां वटीं खादेद्वह्निमान्द्यप्रशान्तये ॥२२३॥
विषूचिकायाम् अजीर्णकण्टकरसः
शुद्धसूतं विषं गन्धं समं सर्वं विचूर्णयेत्
मरिचं सर्वतुल्यांशं कण्टकार्याः फलद्र वैः ॥२२४॥
मर्दयेद्भावयेत्सर्वमेकविंशतिवारकम्
वटीं गुञ्जात्रयं खादेत्सर्वाजीर्णप्रशान्तये
अजीर्णकण्टकः सोऽय रसो हन्ति विषूचिकाम् ॥२२५॥
कफरोगे मन्थानभैरवरसः
मृतं सूतं मृतं ताम्रं हिङ्गु पुष्करमूलकम्
सैन्धवं गन्धकं तालं कटुकीं चूर्णयेत्समम् ॥२२६॥
पुनर्नवादेवदालीनिर्गुण्डीतण्डुलीयकैः
तिक्तकोशातकीद्रा वैर्दिनैकं मर्दयेद् दृढम् ॥२२७॥
माषमात्रं लिहेत्क्षौद्रै रसं मन्थानभैरवम्
कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु ॥२२८॥
वातरोगे वातनाशनरसः
सूतहाटकवज्राणि ताम्रं लोहं च माक्षिकम्
तालं नीलाञ्जनं तुत्थमहिफेनं समांशकम् ॥२२९॥
पञ्चानां लवणानां च भागमेकं विमर्दयेत्
वज्रीक्षीरैर्दिनैकं तु रुद्ध्वाऽधो भूधरे पचेत् ॥२३०॥
माषैकमार्द्र कद्रा वैर्लेहयेद्वातनाशनम्
पिप्पलीमूलजक्वाथं सकृष्णमनुपाययेत् ॥२३१॥
सर्वान्वातविकारांस्तु निहन्त्याक्षेपकादिकान् ॥२३२॥
सन्निपातादौ कनकसुन्दरो रसः
कनकस्याष्टशाणाः स्युः सूतो द्वादशभिर्मतः
गन्धोऽपि द्वादश प्रोक्तस्ताम्रंशाणद्वयोन्मितम्
अभ्रकं स्याच्चतुः शाणं माक्षिकं च द्विशाणिकम् ॥२३३॥
वङ्गो द्विशाणः सौबीरं त्रिशाणं लोहमष्टकम्
विषं त्रिशाणिकं कृत्वा लाङ्गली पलसंमिता ॥२३४॥
मर्दयेद्दिनमेकं च रसैरम्लफलोद्भवैः
दद्यान्मृदुपुटं वह्नौ ततः सूक्ष्मं विचूर्णयेत् ॥२३५॥
माषमात्रो रसो देयः सन्निपाते सुदारुणे
आर्द्र कस्वरसेनैव रसोनस्य रसेन वा ॥२३६॥
किलासं सर्वकुष्ठानि विसर्पं च भगन्दरम्
ज्वरं गरमजीर्णं च जयेद्रो गहरो रसः ॥२३७॥
सन्निपातभैरवरसः
रसो गन्धस्त्रिकर्षः स्यात्कुर्यात्कज्जलिकां तयोः
ताराभ्रताम्रवङ्गाहिसाराश्चैकैककार्षिकाः ॥२३८॥
शिग्रुज्वालामुखीशुण्ठी बिल्वेभ्यस्तण्डुलीयकात्
प्रत्येकं स्वरसैः कुर्याद्यामैकैकं विमर्दनम् ॥२३९॥
कृत्वा गोलं वृतं वस्त्रे लवणापूरिते न्यसेत्
काचभाण्डे ततः स्थाल्यां काचकूपीं निवेशयेत् ॥२४०॥
बालुकाभिः प्रपूर्याथ वह्निर्यामद्वयं भवेत्
तत उद्धृत्य तं गोलं चूर्णयित्वा विमिश्रयेत् ॥२४१॥
प्रवालचूर्णकर्षेण शाणमात्रविषेण च
कृष्णसर्पस्य गरलैर्द्विवेलं भावयेत्तथा ॥२४२॥
तगरं मुशली मांसी हेमाह्वा वेतसः कणा
नीलिनी पद्मकं चैला चित्रकश्च कुठेरकः ॥२४३॥
शतपुष्पा देवदाली धत्तूरागस्त्यमुण्डिकाः
मधूकजातीमदनरसैरेषां विमर्दयेत् ॥२४४॥
प्रत्येकमेकवेलं च ततः संशोष्य धारयेत्
बीजपूरार्द्र कद्रा वैर्मरिचैः षोडशोन्मितैः ॥२४५॥
रसो द्विगुञ्जाप्रमितः सन्निपातेषु दीयते
प्रसिद्धोऽय रसो नाम्ना सन्निपातस्य भैरवः ॥२४६॥
अतीसारादौ ग्रहणीकपाटरसः
तारमौक्तिकहेमानि सारश्चैकैकभागकाः
द्विभागो गन्धकः सूतस्त्रिभागो मर्दयेदिमान् ॥२४७॥
कपित्थस्वरसैर्गाढं मृगशृङ्गे ततः क्षिपेत्
पुटेन्मध्यपुटेनैव तत उद्धृत्य मर्दयेत् ॥२४८॥
बलारसैः सप्तवेलमपामार्गरसैस्त्रिधा
लोध्रप्रतिविषामुस्तधातकीन्द्र यवामृताः ॥२४९॥
प्रत्येकमेषां स्वरसैर्भावना स्यात्त्रिधा त्रिधा
माषमात्रोरसोदेयोमधुना मरिचैस्तथा ॥२५०॥
हन्यात्सर्वानतीसारान्ग्रहणीं सर्वजामपि
कपाटो ग्रहणीरोगे रसोऽय वह्निदीपनः ॥२५१॥
ग्रहणीवज्रकपाटरसः
मृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम्
अग्निमन्थं वचां कुर्यात्सूततुल्यानिमान्सुधीः ॥२५२॥
ततो जयन्तीजम्बीरभृङ्गद्रा वैर्विमर्दयेत्
त्रिवासरं ततो गोलं कृत्वा संशोष्य धारयेत् ॥२५३॥
लोहपात्रे शरावं च दत्त्वोपरि विमुद्र येत्
अधो वह्निं शनैः कुर्याद्यामार्धं तत उद्धरेत् ॥२५४॥
रसतुल्यां प्रतिविषां दद्यान्मोचरसं तथा
कपित्थविजयाद्रा वैर्भावयेत्सप्तधा पृथक् ॥२५५॥
धातकीन्द्र यवा मुस्ता लोध्रं बिल्वं गुडूचिका
एतद्र सैर्भावयित्वा वेलैकैकं च शोषयेत् ॥२५६॥
रसं वज्रकपाटाख्यं शाणैकं मधुना लिहेत्
वह्निं शुण्ठीं विडं बिल्वं लवणं चूर्णयेत्समम् ॥२५७॥
पिबेदुष्णाम्बुना चानु सर्वजां ग्रहणीं जयेत् ॥२५८॥
वाजीकरणे मदनकामदेवो रसः
तारं वज्रं सुवर्णं च ताम्रं सूतकगन्धकम्
लोहं क्रमविवृद्धानि कुर्यादेतानि मात्रया ॥२५९॥
विमर्द्य कन्यकाद्रा वैर्न्यसेत्काचमये घटे
विमुच्य पिठरीमध्ये धारयेत्सैन्धवामृते ॥२६०॥
पिठरीं मुद्र येत्सम्यक् ततश्चुल्ल्यां निवेशयेत्
वह्निं शनैः शनैः कुर्याद्दिनैकं तत उद्धरेत् ॥२६१॥
स्वाङ्गशीतं च सञ्चूर्ण्य भावयेदर्कदुग्धकैः
अश्वगन्धा च काकोली वानरी मुसली क्षुरा ॥२६२॥
त्रित्रिवेलं रसैरासां शतावर्याश्च भावयेत्
पद्मकन्दकसेरूणां रसैः काशस्य भावयेत् ॥२६३॥
कस्तूरीव्योषकर्पूरकङ्कोलैलालवङ्गकम्
पूर्वचूर्णादष्टमांशमेतच्चूर्णं विमिश्रयेत् ॥२६४॥
सर्वैः समां शर्करां च दत्त्वा शाणोन्मितं पिबेत्
गोदुग्धद्विपलेनैव मधुराहारसेवकः ॥२६५॥
अस्य प्रभावात्सौन्दर्यं बलं तेजोऽभिवर्धते
तरुणी रमयेद्बह्वीः शुक्रहानिर्न जायते ॥२६६॥
वाजीकरणे कन्दर्पसुन्दर रसः
सूतो वज्रमहिर्मुक्ता तारं हेमासिताभ्रकम्
रसैः कर्षांशकानेतान्मर्दयेदिरिमेदजैः ॥२६७॥
प्रवालचूर्णं गन्धश्च द्विद्विकर्षं विमिश्रयेत्
ततोऽश्वगन्धास्वरसैर्विमर्द्य मृगशृङ्गके ॥२६८॥
क्षिप्त्वा मृदुपुटे पक्त्वा भावयेद्धातकीरसैः
काकोली मधुकं मांसी बलात्रयबिसेङ्गुदम् ॥२६९॥
द्रा क्षापिप्पलिवन्दाकं वरी पर्णीचतुष्टयम्
परूषकं कसेरुश्च मधूकं वानरी तथा ॥२७०॥
भावयित्वा रसैरेषां शोषयित्वा विचूर्णयेत्
एला त्वक्पत्रकं मांसी लवङ्गागुरुकेशरम् ॥२७१॥
मुस्तं मृगमदः कृष्णा जलं चन्द्र श्च मिश्रयेत्
एतच्चूर्णैः शाणमितै रसं कन्दर्पसुन्दरम् ॥२७२॥
खादेच्छाणमितं रात्रौ सिता धात्री विदारिका
एतासां कर्षचूर्णेन सर्पिष्कर्षेण संयुतम् ॥२७३॥
तस्यानु द्विपलं क्षीरं पिबेत्सुस्थितमानसः
रमणी रमयेद्बह्वीः शुक्रहानिर्न जायते ॥२७४॥
लोहरसायनम्
शुद्धं रसेन्द्रं भागैकं द्विभागं शुद्धगन्धकम्
क्षिपेत्कज्जलिकां कुर्यात्तत्र तीक्ष्णभवं रजः ॥२७५॥
क्षिप्त्वा कज्जलिकातुल्यं प्रहरैकं विमर्दयेत्
ततः कन्याद्र वैर्घर्मे त्रिदिनं परिमर्दयेत् ॥२७६॥
ततः सञ्जायते तस्य सोष्णो धूमोद्गमो महान्
अत्यन्तं पिण्डितं कृत्वा ताम्रपात्रे निधापयेत् ॥२७७॥
मध्ये धान्यैकशूकस्य त्रिदिनं धारयेद् बुधः
उद्धृत्य तस्मात्खल्वे च क्षिप्त्वा घर्मे निधाय च ॥२७८॥
रसैः कुठारच्छिन्नायास्त्रिवेलं परिभावयेत्
संशोष्य घर्मे क्वाथैश्च भावयेत्त्रिकटोस्त्रिधा ॥२७९॥
वासाऽमृताचित्रकाणां रसैर्भाव्यं क्रमात्त्रिधा
लोहपात्रे ततः क्षिप्त्वा भावयेत्त्रिफलाजलैः ॥२८०॥
निर्गुण्डीदाडिमत्वग्भिर्बिसभृङ्गकुरण्टकैः
पलाशकदलीद्रा वैर्बीजकस्य शृतेन च ॥२८१॥
नीलिकाऽलम्बुषाद्रा वैर्बब्बूलफलिकारसैः
भावयेत्त्रित्रिवेलं च ततो नागबलारसैः ॥२८२॥
ततः प्रातर्लिहेत्क्षौद्र घृताभ्यां कोलमात्रकम्
पलमात्रं वराक्वाथं पिबेदस्यानुपानकम् ॥२८३॥
मासत्रयं शीलितं स्याद्वलीपलितनाशनम्
मन्दाग्निं श्वासकासौ च पाण्डुतां कफमारुतौ ॥२८४॥
पिप्पलीमधुसंयुक्तं हन्यादेतन्न संशयः
वातास्रं मूत्रदोषांश्च ग्रहणीं गुदजां रुजम् ॥२८५॥
अण्डवृद्धिं जयेदेतच्छिन्नासत्त्वमधुप्लुतम्
बलवर्णकरं वृष्यमायुष्यं परमं स्मृतम् ॥२८६॥
जयेत्सर्वामयान्कालादिदं लोहरसायनम्
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा ॥२८७॥
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ॥२८८॥
अनुक्तसंग्रहश्लोकाः
तत्र जयपाल शोधनम्
जैपालं रहितं त्वगङ्कुररसज्ञाभिर्मले माहिषे
निक्षिप्तं त्र्! यहमुष्णतोयविमलं खल्वे सवासोऽदितम्
लिप्तं नूतनखर्प रेषु विगतस्नेहं रजःसन्निभं
निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् ॥२८९॥
विषशोधनम्
विषं तु खण्डशः कृत्वा वस्त्रखण्डेन बन्धयेत्
गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्! यहम् ॥२९०॥
गोमूत्रं च प्रदातव्यं नूतनं प्रत्यहं बुधैः
त्र्! यहेऽतीते समुद्धृत्य शोषयेन्मृदु पेषयेत्
शुद्ध्य्त्येवं विषं तच्च योग्यं भवति चार्त्तिजित् ॥२९१॥
अथवा
खण्डीकृत्य विषं वस्त्रपरिबद्धं तु दोलया ॥२९२॥
अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात्
अजादुग्धाभावतस्तु गव्यक्षीरेण शोधयेत् ॥२९३॥
इति श्रीशार्ङ्गधरसंहितायां मध्यखण्डे रसादिशोधन मारणकल्पना नाम द्वादशोऽध्यायः
इति मध्यखण्डं समाप्तम्
N/A
References : N/A
Last Updated : March 14, 2021
TOP