धीती वा ये अनयन् वाचो अग्रं मनसा वा येवदन्नृतानि । तु. शौ.सं. १
तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥
स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत् स भुवत् पुनर्मघः ।
स द्यामौर्णोदन्तरिक्षं स स्वर्विश्वा भुवो अभवत् स आभवत् ॥२॥
अथर्वाणं पितरं विश्वदेवं मातुर्गर्भं पितरसुं युवानम् ।
य इं चिकेता अमृतस्य धामन् नित्यस्य रायः परिधीँरपश्यत् ॥३॥
शिवास्त एका अशिवास्त एकाः सर्वा बिभर्ष्यहृणीयमानः ।
गुहा वाच निहितास्तिस्र एता एकेदिदं वि बभूवानु सर्वे ॥४॥बभु
बभु अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्र: ।
विश्वे देवा अदिति: पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥५॥
दितेः पुत्राणामदितेरकार्षं महाशर्मणां महतामनर्मणाम् ।
तेषां हि धाम गभिषक् समुद्रियं नैषां ये अपस: परो अस्ति किं चन ॥६॥
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।
यस्यामिदं विश्वं भुवनमाविवेश सा नो देवी सुहवा शर्म यच्छतु ॥७॥
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम ।
तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥८॥
सुत्रामाणं पृथिवी द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । सूत्रा
दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥९॥
एकया च दशभिश्चा सुहुते द्वाभ्यामिष्टये विंशत्या च ।
तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वायविह ता वि मुञ्च॥१०॥


अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । तु. शौ.सं. ३
स प्रत्युदैद्धरुणे मध्वो अग्रं स्वा यत् तनू तन्वामैरयन्त ॥१॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा: ॥२॥
यज्ञो बभूव स आ बभूव स पृथिव्या अधिपतिर्बभूव ।
स प्रत्य यज्ञे स उ वावृधे पुनः सो अस्मासु द्रविणमा दधातु ॥३॥
देवा यद् देवान् हविषायजन्तामर्त्त्यान् मनसामर्त्त्येन ।
ब्रवाम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥४॥
मुग्धा देवा उत शुनायजन्तोत गोरङ्गैर्बहुधायजन्त । र्वहु
य इमं यज्ञं मनसान्वविन्दत् प्र णो वोचस्तमिहेह ब्रवाम ॥५॥
यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
क्वस्वीत्तदद्य नो श्रेयान् यद् वि हव्येनेजिरे ॥६॥
इन्द्रः सुत्रामा स्ववाङ् अवोभिः सुमृडीको भवतु विश्व वेदाः ।
बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥७॥
स सुत्रामा स्ववाङ् इन्द्रो अस्मदाराच्चिद् द्वेषः सनुतर्युयोतु ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥८॥
यस्ते पृथु स्तनइत्नुर्य ऋष्वो यो दैवः केतुर्विश्वमाभूषतीदम् ।
मृडया नो विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥९॥
यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदक्ष: ।
येन विश्वा वनसि वार्याणि सरस्वति तमिह धातवे कः ॥१०॥


इदं ते हव्यं घृतवत् सरस्वतीदं पितॄणां हविरास्यं यत् । तु. शौ.सं. ६८
इमानि त उदिता शंतमानि तेभिर्वयं मघवानः स्याम ॥१॥
प्रपथे पथामजनिष्ट पूषा प्रपथे दिव: प्रपथे पृथिव्या: ।
उभे अभि प्रियतमे सधस्थे आा च परा च चरति प्रजानन् ॥२॥
पूषेमा आशा अनु वेद सर्वाः सो अस्माङ् अभयतमेन नेषत् ।
स्वस्तिदा आघृणिः सर्ववीरोप्रयुच्छन् पुर एतु प्रजानन् ॥३॥
पूषा गा अन्ये तु न: पूषा रक्षत्वर्वत:॥
पूषावाजां स नो तु नः ॥४॥
पूषन् तव व्रते वयं न रिष्येम कदा चन । ब्रते
स्तोतारस्त इह स्मसि ॥५॥
शुक्रं ते अन्यद्यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥६॥
धाता दधातु दाशुषे प्राञ्चं जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥७॥
धाता विश्वानि दाशुषे दधातु प्रजाकामाय दाशुषे दुरोणे॥
तस्य प्रजा अमृताः सं व्ययन्तु विश्वे देवासो अदितिः सजोषाः ॥८॥
धाताराति: सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।
त्वष्टा पूषा प्रजया सं रराणा यजमानाय द्रविणं दधातु ॥९॥
धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान ।
सं दाशुषे वहतु भूरिपुष्टा तस्मै देवाय हविषा विधेम ॥१०॥


सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै ! १ तु. शौ.सं. १४
अथास्मभ्यं सवितर्वार्याणि दिवे दिवे आ सुवा भूरि पश्वः ॥१॥
भद्रादधि श्रेयः प्रेहि बृहस्पति: पुरएता ते अस्तु ।
अथेममस्या वर आ पृथिव्या आरे शत्रुं कृणुहि सर्ववीरम् ॥२॥
दमूना देवः सविता वरेण्यो दधद् रत्नं दक्षं पितृभ्य आयूंषि ।
पिबात् सोमं ममददेनमिष्टे परिज्मा चित् रमते अस्य धर्मणि ॥३॥
तां सवितु: सत्यसवस्य चित्रां वयं देवस्य प्रसवे मनामहे ।
यामस्य कण्वो अदुहत् प्रपीनां सहस्रधारां महिषो भगाय ॥४॥
को नो अस्या द्रुहोवद्यवत्या उन्नेष्यति क्षत्रियो वस्य इच्छन् ।
क पूर्तिकामः क उ यज्ञकामः को देवेषु वनुते दीर्घमायुः ॥५॥
कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम्॥
तां बृहस्पतिना सख्यं दुहानो यथावशं तन्वं कल्पयाति ॥६॥
न घ्रंस्तताप न हिमो जघान प्र सरस्तते पृथिवी जीरदानुः ।
आपश्चिदस्मै सदमित् क्षरन्ति यत्र सोमः सदमित् तत्र भद्रम् ॥७॥
यस्या उपस्थ उर्वन्तरिक्षं सा न: शर्म बहुलं नि यच्छात् ॥८॥
अन्वद्य नो अनुमतिर्यज्ञं देवेषु यच्छताम् ।
अग्निश्च हव्यवाहनो भवतां दाशुषे मयः ॥९॥
अन्विदनुमते त्वं मंससे शं च नस्कृधि ।
इषं तोकाय नो दधत् प्र ण आयुंषि तारिषन् ॥१०॥


अनु मन्यतामनुमन्यमानः प्रजावती समक्षीयमाणम् । तु. शौ.सं. २०.३
तस्या वयं हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु ॥१॥
अनुमते अनुमन्यस्वतानो या ते वयं चकृमा या तनूभिः । तनु
या ते केषु तनूषु या प्रजायां या गोष्वोषधीष्वप्स्वन्त: ॥२॥
आ नो देव्यनुमतिर्जगम्यात् सुक्षेत्रता वीरताया सुजाता ।
भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवजुष्टा ॥३॥
अनुमतिर्विश्वमिदं जजान यदेजति चरति यच्च तिष्ठति ।
तस्यास्ते देवि सुमतौ स्याम अनुमते अनु हि मंससे न: ॥४॥
यत् ते नाम सुहवं सुप्रणीते अनुमते अनुमतं सुदानु ।
तेन त्वं सुमतिं देव्यस्मा इषं पिन्व विश्ववारं सुवीरम् ॥५॥
प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्तु प्रजा: त्वं अनु प्राणिहि ।
शुक्र ते शुक्रेण चन्द्रं चन्द्रेणामृतममृतेन प्रीणामि ॥६॥
तपसस्तनूरसि प्रजापतेर्वर्णः । स्तनु
परमेण पशुना क्रीयसे ॥७॥
अभि त्यं देवं सवितारमोण्यो: कविक्रतुम् ।
अर्चामि सत्यसवं रत्नधामभि: प्रियं मतिम् ॥८॥
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि।
हिरण्यपाणिरमिमीत सुक्रतुः कृपात् स्वः ॥९॥
अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि।
ब्रध्न: समीचीरुषस: समीरयात् ॥१०॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP