२६
सं मा भगेन द्विगुणेन वर्चसा सं मा पृथिव्या सं मौषधीभि: ।
सं मा पयो मयोभुवो भगेन वर्चसा सिचन् ॥१॥
वर्चो मे मित्रावरुणा वर्चो देवी सरस्वती ।
वर्चो मे अश्विनोभा धत्तां पुष्कर स्रजा ॥२॥
ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते ।
वि ते सदसि राजतो यज्ञं देवेषु यच्छताम् ॥३॥
अङ्गमङ्गं सं तनोमि चक्षुः प्राणमथोबलम् ।
प्रिया: श्रुतस्य भूयास्मायुष्मन्त: सुमेधस: ॥४॥
एतन् नो देव सवितर्जगर्दात्री च रक्षितम् ।
पूषैनत् पुनराजत्वविलिष्टमविहृतम् ॥५॥
यावन्त्येव पलितानि साकं यज्ञिरे अग्रश: ।
तेभ्य: परि ब्रवीमि त्वा कृष्णा: केशा भवन्तु मे ॥६॥
कृष्णान् केशान् सिनीवाली कृष्णान् केशान् सरस्वती ।
कृष्णान् मे अश्विना केशान् कृणुतं पुष्करस्रजा ॥७॥
अदो यदग्ने देवानां पुरस्तादवतिष्ठति।
तन् मे अब्रवीत् त्वष्टा विलिष्टभेषजम् ॥८॥
विश्वथाया असि विश्वभेषज्याकृता।
यदामयति निष्कृधि निष्कृतिर्नाम वा असि ॥९॥
सं ते चृतामि तगरीं सं योनिं सं गवीन्यौ ।
सं मातरं च पुत्रं च सं गर्भं च जरायुजम् ॥१०॥

२७
तिर्यङ् ते गर्भो भवतु हृदयेष्टं जरायु ते॥
आा दोषमग्निमारोहाद् गच्छेयमसादनम् ॥१॥
वि ते चृतामि तगरीं वि योनिं वि गवीन्यौ॥
वि मातरं च पुत्रं च वि गर्भं च जरायुजम् ॥२॥
अन्नं ते गर्भो भवत्वनुसोत जरायुजे ।
यथा त्वं पुत्रं विन्दस्व यथा जीवासि भद्रया ॥३॥
प्रवृष्ठे गर्भ मन्दो यो वियोनि आस्यं सृज ।
निरैतु दशमास्यो गर्भो गविन्योरधि ॥४॥
विष्कम्भेण वि ष्कम्भाय तौ विश्वञ्चौ व्या कुरु ।
एष वामग्निरन्तरा स विश्वञ्चौ व्यस्यतु ॥५॥
विस्कम्भो विष्कभायतु मनश्च हृदयं च वाम् ।
वि वर्तय नि वर्तय शश्वतीभ्य: समाभ्य: ॥६॥
समुद्रं त्वा प्र हिणोमि स्वां योनिमपीहि ।
अछिद्रस्तन्वा भूयासं मा परा सेचि मे पय: ॥७॥
यदत्रापि रसस्य मे परा पपातास्मृतम् ।
तदिहोप ह्वयामहे तन् म आ प्यायतां पुन: ॥८॥
कविरग्ने प्र विलेषु धर्ता केशाङ् अधारयत् ।
इहैव विश्वतोदधत् धाता त्वष्टा त्वचि केशान् अचीक्लृपत् ॥९॥
सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।
मन्त्रे हिरण्यवर्तने प्र ण आयूंषि तारिषन् ॥१०॥आयुंषि

२८
यदप्सुते सरस्वति गोष्वश्वेषु यन् मधु ।
तेन नो वाजिनीवति मुखमङ्धि सरस्वति वर्चसा ॥१॥
यो अद्य देव सूर्य त्वां च मां चान्तरायति ।
तस्मिन् दुष्वप्न्यं सर्वं दुरितानि च मृज्महे ॥२॥
यो नोभिच्छायमत्येष्यग्निं तिष्ठत्यन्तरा ।
तस्य वृश्चामि ते मूलं न छायां करवोपरम् ॥३॥
घ्नन्त्वेनं देवेषवो ब्रह्मणो घ्नन्तु मेन्या: ।
यो ऽस्माकं प्रजापते अग्निं तिष्ठत्यन्तरा ॥४॥
प्रजापते यो ऽस्माङ् आ वृश्चाग्निं तिष्ठत्यन्तरा ।
तं मृत्यवे प्रयच्छामि स रुद्रस्यास्त्वा गण: ॥५॥
प्र सुवैनान् देव वज्रेभ्यो मृत्युविक्रमतामधि ।
सिनात्वेनान् निर्ऋतिर्मृत्यो: पाशैर्बन्धैरविमोक्यै: ॥६॥
सुमङ्गलेन वचसा केशिन् ग्रामान् न आ वद ।
ब्रह्मणा ब्रह्मणा त्वोलूकाछा वदामसि ॥७॥
पराङ् एव परावतं पराचीमनु संवतम् ।
यथा यमस्य त्वा गृहेरसं प्रतिचाकशान्
निरस्तं प्रतिचाकशान् ॥८॥
शूनमुलूक नो वद यं द्विष्मस्तमितो नय ।
राज्ञो यमस्य ते गृहे सिकता उर्वि देव्यमाखुस्ते मूषिकेभागः ॥९॥
आा वद बहुलं गोष्ठं धीतवत्समनुष्टुगम् ।
ध्वाङ्क्षाय द्विपदां वद शुने चतुष्पदां वद ॥१o॥

२९
पुनर्मे राजा वरुणः पुनरिन्द्र: पुनर्भगः ।
पुनर्मे विश्वे देवा आयुर्जीवातव आदु: ॥१॥
उत्तिष्ठात: प्र द्रवार्वाङ् मात्र तिष्ठो ऽभिचाकशत् ।
सपत्न्या वर्च आदायाथास्माभि: सहामसि ॥२॥
उत्तिष्ठत निर्द्रवत न व इहास्तु न्यञ्चनम् ।
अमुष्य वित्तमभि व: सुवामि तदनुवपध्वं सुदतीरहिनस्तत् ॥३॥
यो ऽस्माकं सबन्धवो विष्ठिताः पृथिवीमनु ।
तेषामिन्द्र इव देवानामहं भूयासमुत्तमः ॥४॥
ये अग्नयः पार्थिवा आहिता: पृथिवीमनु ।
तेषामसि त्वं सङ्गथे स नो जीवातवे कृधि ॥५॥
चित: स्थ परिचित: स्थाग्नय: स्थ निहवा नाम ।
तेनो मा निहवान् वध्यान् तेभ्यो वो नमो नवोहं वमेमि ।
यो ऽस्मां द्वेष्टि यं वयं द्विष्म: सो ऽव वो हवमेतु ॥६॥
इन्द्राग्नि पुनराकूतिं नयत स्थिरवीरावपरावीत गू ।
अस्माकं सर्वा निहवे सन्त्वेषां वयं विद्याम गुह्यं नाम गवाम् ॥७॥
प्रजापतेरनु नि क्रन्दय विश्वे देवाः पदवाया: संत्वासाम् ।
आदित्या अनु संगत्य शूरा इन्द्रज्येष्ठा: पुनरावर्तयन्तु ॥८॥
इन्द्र प्रणेतर्वर्धय मामश्ववान् वहतु मां स्वश्वः ।
ऐन्द्राग्नं वर्म प्रतिमुञ्चमानो यथोभयेभ्यश्चारु समिति मा वदानि ॥९॥
चारुवाक् चारुवदनश्चारु संकाशी नो नृभि: ।
य द्वेष्य: प्रतीकाशो जिगीवाङ् अपराजित: ॥१०॥

३०
अपि वृश्च पुराणवद् व्रततेरिव गुष्पितम् । तु. शौ.सं. ९
ओजो दासस्य दम्भय ॥१॥
यथेतदस्य संभृतं मधु तदिन्द्रस्य वि भजावहै ।
म्लापयामि भ्रज: शिभ्रं वरुणस्य व्रतेन ते ॥२॥
यथा शेपो अपायस स्त्रीषु चासदनावयाः ।
अवस्थस्य क्नदीवतो भंगुरस्य नितोदिन: ।
यदुत्ततमवतत्तनु यदाततं नि तत्तनु ॥३॥
अमी म्लापयन्ते तन्वं क्लीबं त्वा वीरुधाकरम ।
अन्त: कोश इव कोशेषु स्त्रीष्वप्याकृतश्चन: ॥४॥
आा नो मेदं गृहपतिर्दधात्विन्द्रेण मेदिना ।
आ नो मेदं सरस्वत्या नो वहन्ति सिन्धव : ॥५॥
मेदं धाता मेदं पूषा मेदमिन्द्रो दधातु मे ।
मेदं मे अश्विनोभा धत्तां पुष्करस्रजा ॥६॥
ऊरू मेदं य मे बाहू अष्ठीवन्ता उरश्च मे ।
अपां पर्यस्य उदरे मेदमिन्द्रो दधातु मे ॥७॥
चर्मणीवोपनीतस्य सर्वान् केशान् वृहासि ते ।
अयस्पात्रमिव ते शिरो यथासत्समरं समाम् ॥८॥
(इत्येकर्चनाम विंशतिकाण्डे पञ्चमो अनुवाकः)

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP