३६
इन्द्राणी नारी सुभगा सुपत्न्युदंशेन पतिविद्ये बिभेद ।
त्रिंशद्यस्या जघनं योजनान्युपस्थ इन्द्रं स्थवीरं पिपर्त्तु ॥१॥
सेनासि पृथिवी धनंजया अदितिर्विश्वरूपा सूर्यत्वक् ।
इन्द्राणी प्राषाट् संजयन्ती तस्यै त एना हविषा विधेम ॥२॥
अजिरोत्तिष्ठत्युत्थिताग्रे त्वरी प्राषाट् तूर्त्तमुप चरन्तीम् !
प्राषाट कस्त्वियिषोग्रे त्वरिकत्स्वयिष मे स त्वा भद्रे ॥३॥
पर्यावर्ते दुष्वप्न्यात् पापात् स्वप्नादभूत्याः ।
ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखा: शुचः ॥४॥
यत् स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते ।
सर्वं तदस्तु नः शिवं नहि तद् दृश्यते दिवा ॥५॥
(इत्येकर्चनाम विंशतिकाण्डे षष्ठो अनुवाकः)

३७
विश्वं विव्यज्मि पृथिवीव पुष्टमायदायत् प्रतिगृह्णाम्यन्नम् ।
वैश्वानरस्य महतो महिम्ना स्योनमस्मभ्यं मधुमत् कृणोतु ॥१॥
त्रिशृङ्गमसि दुरभिधर्षमिन्द्राय ध्रियसे ।
पूषा ते प्राषिता ! ॥२॥
पाहि नो अग्ने तन्वं पाहि गाः पाहि यत् तनू कृतम् । ..
अहुतादावमर्त्यौ तावस्मिन् पातु अंहसः ॥३॥
यौ देवानामहुतादावमर्त्यौ स्वर्भानुश्च स्वर्ज्योतिश्च ।
तयोस्त्वास्येन प्राश्नाम्यग्नेष्ट्वा वैश्वानरस्य त्चास्येन प्राश्नामि ॥४॥
दक्षश्च त्वा मानस: प्राश्नीतां स्वर्भानुश्च मारुत: ।
सा पृणन् पूर्त्वा वि राधिमो वयं प्रजया धनेन ॥५॥
अनाधृष्यस्य ते पितोरनाधृष्य: शवसः ।
सर्ववीरा: सर्वात्मानो भक्षं क्रियास्म ॥६॥
कामो मे राज्ञः प्र विवेश त्वां तमहं निरुह्यये पुन: ।
गृहेषु गोषु मे मनो अक्षोरस्तु मे भगो जिह्वायामस्तु मे रसो बाह्वोरस्तु मे बलमूर्वोरस्तु मे जव: ॥७॥वाह्वो
दिवो ऽसि निर्मथितं पृथिव्या अध्युद्भृतम् ।
समुद्रादुच्यसे जातमक्ष्यामय भेषजमस्याथर्वणम् ॥८॥
पूषा पुरस्तादावर्तय चतस्रो भूम्यादिश: ।
सगलिग पूषलिग पुनर्न नष्टमायति जीवेन भुनजामहै ॥९॥
यदाभरच्छृजदग्नि: तेजने नष्टवेदनम् ।
खर्गलेव पुनर्दहं पुनरस्माश्विना नष्टमाजतम् ॥१०॥

३८
यद्यस्यप्रियजा यदि वान्यत आभृतः ।
विसल्पकस्य भेषजीर्देवीराप इमामवन् ॥१॥
वयस्य पूतिकस्य दृशाम्वस्योत शर्मुत: ।
तेषां समग्रभं शुष्ममाशूनान् धावतामिव ॥२॥
यस्तनुः पृथुर्वीणा वधू इव प्र सर्पति ।
मयूरः किल ते विषं कृक वा कृश्च जक्षतु ॥३॥
उदीचीन: प्र तनोति नितत्नीर्भूम्यामधिम् । र्भुम्या
ओज्मानं पश्य वीरुधो मिथुना समवीवनत् ॥४॥
नि त्वा तनन्नितत्निना परि त्वा गां सहीयसा ।
सेनादभिद्रवीयसी सुपर्णान्नि गरीयसी ॥५॥
यदत्रापि मधोरहं निरिष्टं विषमश्नुतम् ।
अग्निश्च तत् सविता च पुनर्मे जठरे धत्ताम् ॥६॥
अग्ने रुद्रस्य जायासि दुहितासि प्रजापतेः ।
उच्चै: श्लोको दानपत्नी हवीश्रव उप त्वा ह्वयस्व उप त्वा मा हयस्व ॥७॥
नरिष्टा नाम वा असि ।
यासौ हरिणो वृक: उलादधि प्र स्कन्दति ।
एवा नि स्कन्दति पित्र्यात् भगं जयन्ती धनं जयन्ती ॥८॥
रिज्यश्वा मह्यमब्रवीत् गन्धर्वस्यानुशासनम् ।
एतत्ते पतिवेदनम् ॥९॥
पाटा भिनत्ति कुम्भीं पाटा कुम्भी गो दहनीम ।
पाटा सर्वस्य पात्रस्य वधूं कृणोतु विश्वत: ॥१०॥

३९
अपेहि तक्मन्चर परो अन्यमस्मदिच्छ पुरुषं किं च दैवम् ।
वेद ते तक्मन् पितरं वेद मातरम् ॥१॥
शमीवान् यशसामेति शमीवानभिशोकः ।
अभिशोकोहार्षणी हर्षणी जांजभि: ॥२॥
यः पशूनां मार्जनीयो यं त्वमंशेन भेजिषे ।
अभि हि तक्मन् न गर्दभं न मामभ्येतुमर्हति ॥३॥
विस्निस नाम ते माता किकसा नाम ते पिता ।
शमिदा नाम ते स्वसा ।
गिरिं गच्छ गिरिजा असि गिरी ते माहिषो गृह: ॥४॥
दासी चक्रमा स्थापनास्ना ते निष्क्रन्दयिष्यति ।
आा वातो वात्वनघः सर्वस्य दूतो अभिशस्ति या: ॥५॥
जलासमित् प्र सिञ्चतु तद्विषस्यापसिञ्चतु ।
यामस्यति पृश्निबाहुरिष्टं हरिद्रुपर्ण्यम् ॥६॥
तामस्य निष्खिदामसि यथा जीवासि भद्रया |
अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च ॥७॥
उत् कुलमुद्वहो भुवोदुह्यत् प्रतिधावतात् ॥
एतं दन्तं निर्ऋत्या घोरमाहुर्यस्त आसन्नवरूढ एष: ॥८॥न्नवरुढ
तं दुर्हार्दे प्रहिणोमि घोरं मा नो हिंसीज्ज्यायसो मा कनीयसः । हींसी
शिव: शग्म भवतु दन्त एष मा नो हिंसीज्ज्यायसो मा कनीयसः ॥९॥
हींसी अघमारमघशंसं निर्ऋथं तं ते दन्तं सचतां घोर एषः ॥१०॥

४०
अघमारमघशंसं निर्ऋथं दुहार्दे दन्तं प्रहिणोमि घोरम् ।
सो अस्यात्तु द्विपदश्चतुष्पदः शिवो अस्मभ्यं सुमना अत्स्वेषः ॥१॥
शिवं ते दन्तं हविषा कृणोमि शिवो मह्यं कुर्वते दन्तो अस्तु ।
शिवानि ते त्रीणि त्रिकद्रुकाणि सन्तु शिवो मह्यं नभसीरोदसीस्ताम् ॥२॥त्रिणि
पुरुरूपा पृथुपेषा अरंकृद्वहतोरसि ।
प्रतिष्ठासि चतुष्पदां यस्त एष पञ्चमः पादस्तं तेन प्रतिगृह्णामि ॥३॥
स सर्परी रमतिं वाधमाना बृहन् मीमाय यमदग्नि दत्ता ।
आ सूर्य दुहिता ततान श्रवो देष्वमृतमदुर्यम् ॥४॥
स सर्परीरभरत् भूयमेभ्यो ऽधिश्रव: पाञ्चजन्याषु कृष्टिषु ।
सा पक्षीया न भूमायुर्दधाना यां मे पुलस्ति यमदग्नयो ददु: ॥५॥
अघ्न्ये ये दूरमुत्क्रन्दन्निपदचतुरो जहि ।
अथा गो दुह: शीर्षणि शपां उरसि वा दय ॥६॥
शृङ्गाभ्यामुपस्रष्टारं पदावर्तय गो दुहम् ।
अथो ये अन्ये तिष्ठन्ति तान् विशूचो विनाशय ॥७॥
यथानर्त्ता सक्षिकाजिं कुल्पं मभिनृत्यति ।
एवा त्वमघ्न्ये पद: सर्वान् साकमुदर्दय ॥८॥
उदुक्षीरमुत्तभितं स्यन्दन्तामस्य धेनव: ।
असृक्तस्य गावो दुहां यो अस्मान्नापचायति ॥९॥
ऋक्षीकाया यथा मनो व्याघ्रस्य यथा मन:॥
एवा तस्य गवां मनो अस्मान्नापचायति ॥१०॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP