कार्तिकमासमाहात्म्यम् - अध्याय १९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान् ॥
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः ॥१॥
नंदिनं कालनेमिश्च शुम्भो लंबोदरं तथा ॥
निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः ॥२॥
निशुम्भः कार्तिकेयस्य मयूरं पंचभिः शरैः ॥
हृदि विव्याध वेगेन मूर्च्छितः स पपात च ॥३॥
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ॥
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ॥४॥
नंदीश्वरः शरव्रातैः कालनेमिमवध्यत ॥
सप्तभिश्च हयान्केतुं त्रिभिः सारथिमच्छिनत् ॥५॥
कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः ॥
तदपास्य स शूलेन तं वक्षस्यहनद्बली ॥६॥
स शूलभिन्नहृदयो हताश्वो हतसारथिः ॥
अद्रेः शिखरमामुच्य शैलादिं सोऽप्यपातयत् ॥७॥
अथ शुम्भो गणेशश्च रथमूषकवाहनौ ॥
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ॥८॥
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा ॥
सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥९॥
ततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम् ॥
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ॥१०॥
मूषकः शरभिन्नांगश्चचाल दृढवेदनः ॥
लंबोदरश्च पतितः पदातिरभवन्नृप ॥११॥
ततो लंबोदरः शुम्भं हत्वा परशुना हृदि ॥
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः ॥१२॥
कालनेमिर्निशुंभश्चाऽप्युभौ लंबोदरं शरैः ॥
युगपज्जघ्नतुः क्रोधात्तोत्रैरिव महाद्विपम् ॥१३॥
तं पीडयमानमालोक्य वीरभद्रो महाबलः ॥
अभ्यधावत वेगेन भूतकोटियुतस्तदा ॥१४॥
कूष्मांडभैरवाश्चाऽपि वेताला योगिनीगणाः ॥
पिशाचयोगिनीसंघा गणाश्चाऽपि तमन्वयुः ॥१५॥
ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः ॥
भेरीतालमृदंगैश्च पृथिवी समकंपत ॥१६॥
ततो भूतान्यधावंत भक्षयंतिस्म दानवान्॥
उत्पतंत्यापतंति स्म ननृतुश्च रणांगणे ॥१७॥
नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ ॥
निजघ्नतू रणे दैत्यान्निरंतरशरव्रजैः ॥१८॥
छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा ॥
व्याकुला साऽभवत्सेना विषण्णवदना तदा ॥१९॥
प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनंदनः ॥
रथेनाऽतिपताकेन गणानभिययौ बली ॥२०॥
हस्त्यश्वरथसंह्रादाः शंखभेरीस्वनास्तथा ॥
अभवन्सिंहनादाश्च सेनयोरुभयोस्तदा ॥२१॥
जलंधरशरव्रातैर्नीहारपटलैरिव ॥
द्यावापृथिव्योराच्छिन्नमंतरं समपद्यत ॥२२॥
गणेशं पंचभिर्विद्ध्वा शैलादिं नवभिः शरैः ॥
वीरभद्रं च विंशत्या ननाद जलदस्वनः ॥२३॥
कार्तिकेयस्तदा दैत्यं शक्त्या विव्याध सत्वरः ॥
युयुधे शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः ॥२४॥
ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः ॥
गदया ताडयामास स च भूमितलेऽपतत् ॥२५॥
तथैव नंदिनं वेगादपातयत भूतले ॥
ततो गणेश्वरः क्रुद्धो गदां परशुनाऽहनत् ॥२६॥
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ॥
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ॥२७॥
ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम् ॥
गणेशं पातयामास रथं चाऽन्यमथाऽऽरुहत् ॥२८॥
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ॥
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ॥२९॥
वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत् ॥
धनुश्चिच्छेद दैत्येंद्रः पुप्लुवे परिघायुधः ॥३०॥
स वीरभद्रं त्वरयाऽभिगम्य जघान दैत्यः परिघेण मूर्ध्नि ॥
स चाऽपि वीरः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन्॥ ३१॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वीरभद्रपतननामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP