कार्तिकमासमाहात्म्यम् - विषयानुक्रमणिका

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अथ वैष्णवखण्डे चतुर्थ कार्तिकमासमाहात्म्यम् ॥

१ मङ्गलाचरणम, कार्तिकमासवैभवं ज्ञातुं सूतं प्रति शौनकप्रश्नः, प्रश्नोत्तरं वक्तुं सूतोक्तिः, ब्रह्मनारदसंवादे प्रस्तावपूर्वकं कार्तिकव्रतप्रशंसनम, आपत्काले कार्तिकव्रतकरणनिर्णयः ॥

२ ब्रह्मा नारदं प्रति कार्तिकव्रतधर्मानाह, तत्र गुरुशुश्रूषाप्रसंगेन गौतमशिप्याणां मेधाविकपिलसुमतीनामितिहासो व्रतधर्माश्च, अन्नदानप्रसंगेन सत्यकेतुद्विजाख्यानम्, गोदानप्रसङ्गेन सुमतिब्राह्मणेतिहासः, नामस्मरणप्रसङ्गेन पुष्करेतिहासकथनम, गीतापठनमाहात्म्यप्रसङ्गेन जडब्राह्मणेतिहासकथनम, शिलादानप्रसङ्गेन ब्राह्मणीकथाकथनम् ॥

३ कार्तिकव्रतारंभावसानकालनिर्णयपूर्वकव्रतवैभववर्णनम् ॥

४ स्नानकालनिरूपणपूर्वक स्नानविधिः, कूपतीर्थादिषूत्तरोत्तराधिकपुण्यदायकस्नानकालनिरूपणम्, तुलार्के कावेरीस्नानफलनिरूपणम्, पञ्चनदीतीर्थमाहात्म्यम, स्नान उत्तममध्यमाधमकाललक्षणं भर्तृप्रशंसा च, तीर्थस्नानफलभाड्मनुष्यलक्षणम्, चतुर्विधस्नानलक्षणम् ॥

५ उषःकालमारभ्य दिनकृत्यनिरूपणम्, तत्र मूत्रपुरीषोत्सर्जनविधिः, दन्तधावनादिविधिः, स्नानादिकृत्यम्, हविष्यान्नामिषान्ननिरूपणम्, मुखशुद्ध्यादिशयनान्तकर्मनिरूपणम् ॥

६ कार्तिके कर्तव्याकर्तव्यव्रतदाननिरूपणम् ॥

७ विष्णुमंदिरे दीपदानमाहात्म्ये कुत्सद्विजकथानकम्, परदीपप्रबोधमाहात्म्यप्रसंगेनेन्दुमतीवेश्येतिहासकथनम्, आकाशदीपदानमाहात्म्यम्, खगमार्जारकथानकम, तत्रैव चन्द्रशर्मसुनन्दनृपसंवादेन कार्तिकव्रतधर्मनिरूपणम्, दीपमाहात्म्यम, आकाशदीपदानविधिः, आकाशदीपदानेन पिशाचमुक्तिकथनम्, पञ्चदिनेषु दीपदानम्, कार्तिकदीपकरणे स्थलानि, दीपदाने हरिकरब्राह्मणेतिहासः, कर्पूरदीपदानादिफलम्.  ॥

८ तुलसीमाहात्म्यकथनप्रसङ्गेन हरिमेधःसुमेधोब्राह्मणेतिहासः ॥

९ वत्सद्वादशीविधानम्, पञ्चदीपे शकुनावलोकनम्, वत्सद्वादशीव्रतेनैकाङ्गीगोपालिकाया धनधान्यसुखप्राप्तिवृत्तान्तवर्णनम्, यमत्रयोदशीविधानम्, हेमनकस्येतिहासः, नरकचतुर्दशीविधानम्, दीपावलिविधानम्, तत्र कौमुदीशब्दार्थः, पार्वणश्राद्धादिकरणम्, सायं महालक्ष्मीमहाकालीमहासरस्वतीपूजा, लक्ष्मीप्रबोधोत्सवप्रकरणम्, दीपोत्सवनीराजनम्, बलिराज्यबालक्रीडाशुभाशुभशकुनावलोकनम्, अर्धरात्रेऽलक्ष्म्या बहिर्निष्कासनम्, सुखरात्रिव्रतकथनम् ॥

१० द्यूतप्रतिपद्वर्णनम्, बलिराज्यप्रतिपन्निरूपणम्, प्रतिपत्तिथिनिर्णयः, अंगणे गोमयमूर्तिपूजनम्, गोवर्धनपूजा, बलीवर्दमहिषवृषभाणां युद्धक्रीडादर्शनम्, मार्गपालीविधिः, रात्रौ बलिपूजाविधानम्, गोक्रीडावर्णनम्, यष्टिशकुनावलोकनम् ॥

११ यमद्वितीयाव्रतविधानम् ॥

१२ धात्रीमाहात्म्यम्, तत्र धात्रीपूजाविधिः, धात्रीवृक्षोत्पत्तिवृत्तान्तः, धात्र्यां देवतानिवासवर्णनम, धात्रीच्छायामाहात्म्यम्, तत्र वैश्येतिहासः, कथाश्रवणेन मूषकमुक्तिकथनम्, धात्रीच्छायायां भोजनमाहात्म्यम्, धात्रीच्छायासु भोजनेन दोषविनाशवर्णनम, धात्रीमालाधारणम्, धात्रीच्छायायां दीपमालार्पणम, धात्रीच्छायायां दंपतिभोजनफलम्, धात्रीफलमाहात्म्यम्, आमलकस्नानफलं वर्ज्यकालश्च, धात्रीच्छायायां पिण्डदानफलम्, धात्रीफलधारणेऽङ्गावयवविशेषवर्णनम्, धात्रीच्छायायां ब्राह्मणपूजनफलम्, धात्रीपूजायां तिथयः, वनभोजनविधानम्, धात्रीस्पर्शमाहात्म्यम्, गृहे धात्रीवृक्षमाहात्म्यम् ॥

१३ सत्यभामाकृष्णसंवादे सत्यभामायाः पूर्वजन्मनि कातिकव्रतपुण्येन कृष्णभार्यात्वप्राप्तिर्जातेति वर्णनम, सर्वेषां मध्ये कार्तिकः प्रवरः कथमिति पृष्टेन कृष्णेन सत्यभामां प्रति शंखासुराख्यानेन कार्तिकप्रवरत्वनिरूपणम्, प्रयागस्थानमाहात्म्यम ॥

१४ तुलसी कथमुत्पन्ना कथं च हरिप्रिया जातेति पृथुना पृष्टे नारदेन तदुत्पत्तिं वक्तुमादाविन्द्रवज्रपातेन क्रुद्धस्य शिवस्य क्रोधाग्निना जलन्धरोत्पत्तिप्रसंगवर्णनम ॥

१५ ततो जलंधरस्य दिग्विजये जयप्राप्तिवर्णनम्, बृहस्पतेर्जीवनामप्राप्तिकारणवर्णनम् ॥

१६ युद्धपराजितैर्देवैः स्तुतेन विष्णुनाविर्भूय युद्धकरणम् ॥

१७ जलन्धरसभायां नारदोपदेशेन स्त्रीरत्नस्य पार्वत्या ग्रहणार्थं राहुप्रेषणम्, तेन
क्रुद्धस्य शिवस्य भ्रूमध्यात्कीर्तिमुखगणोत्पत्तिवर्णनम् ॥

१८ ततो देवासुरसंग्रामे रुद्रसेनापराभववर्णनम ॥

१९ वीरभद्रपतनम् ॥

२० ततो जलंधरशिवयोर्महायुद्धम ॥

२१ वृन्दायाः पातिव्रत्यभङ्गेन जलंधरस्य हननं भविष्यतीति विचार्य विष्णुना वृन्दायै मायाप्रदर्शनम, ततो मिथस्तयोर्विष्णुवृन्दयो शापवृत्तान्तवर्णनम्, वृन्दया देहविसर्जने कृते सति तद्देहभस्मनि विष्णोर्लुण्ठनम् ॥

२२ ततो युद्धे जलंधरं हत्वा प्रसन्नतया स्थितस्य शिवस्याऽऽज्ञया विष्णुबोधनाय देवैरादिशक्तीनां स्तवनम् , ततस्तुष्टाभिर्देवीभिर्देवेभ्यो विस्तुबोधनार्थं बीजत्रयप्रदानम ॥

२३ तद्बीजेभ्यो धात्रीमालतीतुलसीनामुत्पत्तिः ॥

२४ धर्मदत्तस्य कार्तिकपुण्यदानात्कलहाया राक्षसीजन्मतो मुक्तिः ॥

२५ कलहावचनात्कार्तिकमासे दानमाहात्म्यकथनम्, विष्णुदूतानीतविमानेन समं कलहाया वैकुण्ठप्राप्तिः, विष्णुदूतेन त्वं जन्मान्तरे सूर्यवंशे दशरथेतिनाम्ना प्रसिद्धो राजा भविष्यसि तथैव भगवान्विष्णुः स्वयं त्वत्पुत्रत्वेनावतरिष्यतीति धर्मदत्ताय वरप्रदानम् ॥

२६ विष्णुभक्तिमाहात्म्यकथनम्, तत्प्रसंगेन चोलराजविष्णुदासद्विजेतिहासवर्णनम् ॥

२७ विष्णुदासाख्यद्विजेन स्वस्य रूक्षान्नापहरणकारिणं चंडालं दृष्ट्वा तस्मै घृतप्रदानार्थं तं प्रत्यनुधावनम्, ततो मूर्छितं पतितं चण्डालमवलोक्य तेन विष्णुदासेन कृपया तस्य चण्डालस्य सत्कारकरणम्, ततश्चण्डालरूपधारिणा भगवता विष्णुदासस्यानुग्रहकरणम्, भगवत्प्रसादाद्विष्णुदासब्राह्मणं प्रति स्वर्गतो विमानागमनम्, तस्मिन्नधिरुह्य विष्णुदासे गच्छति सति चोलराजेनाग्निप्रवेशनम्, ततोऽस्मै भगवता स्वरूपदर्शनम्, चोलभूपविष्णुदासब्राह्मणयोर्मुक्तिप्राप्तिश्च ॥

२८ जयविजययोः कार्तिके गण्डकीस्नानेन विष्णोर्द्वारपालत्वप्राप्तिः ॥

२९ कार्तिकव्रतिनां संसर्गपुण्येन धनेश्वरस्य यक्षजन्मप्राप्तिर्जातेतिवर्णनम् ॥

३० अदत्तपुण्यपापप्राप्तिवर्णनम्, पतिव्रताख्यानम्, मासोपवासव्रतविधानम् ॥

३१ कूष्माण्डनवमीविधिः, तुलसीविवाहविधिकथनम् ॥

३२ भीष्मपञ्चकव्रतविधानम् ॥

३३ प्रबोधिन्येकादशीमाहात्म्यम्, द्वादशीविधानम् ॥

३४ कार्तिकव्रतोद्यापनविधिः ॥

३५ वैकुण्ठचतुर्दशीमाहात्म्यम्, त्रिपुरोत्सवमाहात्म्यम् ॥

३६ अन्तिमपुष्करिणीत्रयतिथिभाहाक्त्यम्, पुराणश्रवणविधिफलवर्णनम् ॥

अथ कार्तिकमासमाहात्म्यप्रसंगेन कार्तिकमासव्रतिभिः कर्तव्याकर्तव्य- नियमास्तावदुच्यन्ते ॥ १ ॥

तत्र कर्तव्यनियमाः ।

१ नित्यसतारकस्नानम. २ राधादामोदरपूजनम्. ३ विष्णुहरिशिवनामस्मरणम. ४ इन्द्रियजयः ५ मनोनिग्रहः. ६ सर्वभूतेषु दया. ७ ईश्वरध्यानम ८ ईश्वरपूजनम् ९ सत्यभाषणम् १० हविष्यान्नभोजनम् ११ नक्तव्रतम् १२ धारणापारणाव्रतम् १३ मौनव्रतम १४ ब्रह्मचर्य- व्रतम् १५ सत्समागमः. १६ धात्रीपूजनम् १७ धात्रीच्छायायां विष्णुपूजनम् १८ नित्यकथा- श्रवणम् १९ भूमिदानम, २० मातापितृसेवनम् २१ गुरुसेवनम्. २२ नित्यं देवदर्शनम्, २३ देवमन्दिरे गानम्- २४ देवालये नित्यदीपदानम्. २५ चतुष्पथे दीपदानम् २६ ब्राह्मणाय दीपदानम. २७ गोशालायां दीपदानम् २८ तुलसीपूजनम् २१ अश्वत्थपूजनम. ३० देव- ब्राह्मणगोपूजनम- ३१ देवप्रदक्षिणाकरणम् ३२ तुलसीलक्षप्रदक्षिणाकरणम् ३३ अश्वत्थप्रद- क्षिणा. ३४ ब्राह्मणभोजनम ३५ अन्नदानम् ३६ गोवृषमहिषीगजदानम् ३७ स्वर्ण- धातुरत्नदानम् ३८ अनाथरक्षणम् एतान्नियमान्कार्तिके मास्यवश्यं सेवेत ।

अथ वर्ज्यनियमाः-

१ परद्रव्येच्छा. २ परक्रिया, ३ परापवादाः ४ परशय्या ५ परान्नम्. ६ पर्युषितान्नम. ७ पलाण्डुः, ८ पापिसंसर्गः ९ परपुरुषसङ्गः १० परस्त्रीगमनम् ११ परपैशुन्यम. १२ परो- त्कर्षासहनम् १३ परदोषानुकीर्तनम् १४ परानिष्टविचिन्तनम् १५ असत्प्रलापः. १६ अगम्या- गमनम्. १७ अभोज्यान्नम् १८ शास्त्रेणानुक्तम् १९ आमिषपदार्थाः. २० असच्छास्त्रम. २१ शास्त्रेऽविश्वासः. -९२ चौर्यम् २३ मिथ्यावादः ५४ दुष्टसंसर्गः २५ दुष्टभाषणम् २६ मांसम् २७ मृतवत्सादुग्धम् २८ रजस्वलादृष्टान्नम् ०६९ नीचाहृतजलम् ३० गुडमिश्रं गव्यम् ३१ राजमाषाः ३२ कांस्यपात्रे पानं भोजनं च. ३३ द्विदलान्नम् ३४ वृन्ताकम् ३५ मूलकम्, ३६ तैलम्. ३७ दूषितान्नम, ३८-जम्बीरम्- ३९ दिवा मदनसेवनमः ४० नित्य. मदनसेवनम् ४१ रसविक्रयः. एतान्कार्तिके मास्यवश्यं वर्जयेत् ।

इति कार्तिकमासे कर्तव्याकर्तव्यनिर्णयः ॥

इति वैष्णवखण्डे चतुर्थं कार्तिकमासमाहात्म्यम् ॥


References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP