कार्तिकमासमाहात्म्यम् - अध्याय २८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ धर्मदत्त उवाच ॥
जयश्च विजयश्चैव विष्णोर्द्वास्थौ श्रुतौ मया ॥
किं नु ताभ्यां पुरा चीर्णं तस्मात्तद्रूपधारिणौ ॥१॥
॥गणावूचतुः ॥
तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज ॥
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः ॥२॥
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चैव नामतः ॥
तस्यामेवाऽभवत्पश्चात्कपिलो योगधर्मवित् ॥३॥
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा ॥
तौ तन्निष्ठेन्द्रियग्रामौ धर्मशीलौ बभूवतुः ॥४॥
नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ ॥
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ॥५॥
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ॥
जग्मतुर्यज्ञकुशलौ देवर्षिगणपूजितौ ॥६॥
जयस्तत्राभवद्ब्रह्मायाजको विजयोऽभवत् ॥
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ॥७॥
मरुत्तोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु ॥
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ॥८॥
यजनाय पृथग्विष्णोस्तुष्ट्यर्थं तौ ततो मुनी ॥
तद्धनं विभजंतौ तु पस्पर्धाते परस्परम् ॥९॥
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः ॥
विजयश्चाब्रवीन्नैतद्यल्लब्धं येन तस्य तत् ॥१०॥
ततोऽशपज्जयः क्रोधाद्विजयं लुब्धमानसम् ॥
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ॥११॥
विजयस्तस्य तं शापं श्रुत्वा सोप्यशपच्च तम् ॥
मदभ्रांतोऽशपस्त्वं मां तस्मान्मातंगतां व्रज ॥१२॥
तत्तदाचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् ॥
शापयोश्च निवृत्तिं तौ ययाचाते रमापतिम् ॥१३॥
॥ जयविजयावूचतुः ॥
भक्तावावां कथं देव ग्राहमातंगयोनिगौ ॥
भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम् ॥१४॥
॥ श्रीभगवानुवाच ॥
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति ॥
मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन ॥१५॥
प्रह्लादवचसा स्तंभेऽप्याविर्भूतो ह्यहं पुरा ॥
तथांऽबरीषवाक्येन जातो गर्भे स्वयं किल ॥१६॥
तस्माद्युवामिमौ शापावनुऽभूय स्वयंकृतौ ॥
लभेथां मत्पदं नित्यमित्युक्त्वांऽतर्दधे हरिः ॥१७॥
॥ गणावूचतुः ॥
ततस्तौ ग्राहमातंगावभूतां गंडकीतटे ॥
जातिस्मरौ तु तद्योन्यामपि विष्णुव्रते स्थितौ ॥१८॥
कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः ॥
तावज्जग्राह तं ग्राहः संस्मरञ्च्छापकारणम् ॥१९॥
ग्राहग्रस्तो ह्यसौ नागः सस्मार श्रीपतिं तदा ॥
तावदाविरभूद्विष्णुश्चक्रशंखगदाधरः ॥२०॥
ततस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ ॥
दत्त्वैव निजसारूप्यं वैकुण्ठमनयद्विभुः ॥२१॥
ततःप्रभृति तत्स्थानं हरिक्षेत्रमितिस्मृतम् ॥
चक्रसंघर्षणाद्यस्मिन्ग्रावाणोऽपि हि लांछिताः ॥२२॥
तावुभौ विश्रुतौ लोके जयश्च विजयस्तथा ॥
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज ॥२३॥
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः ॥
त्यक्तमात्सर्यदंभोऽपि भवस्व समदर्शनः ॥२४॥
तुलामकरमेषेषु प्रातःस्नायी सदा भव ॥
एकादशीव्रते तिष्ठ तुलसीवनपालकः ॥२५॥
ब्राह्मणानथ गाश्चाऽपि वैष्णवांश्च सदा भज ॥
मसूरिकामारनालं वृंताकान्यपि खाद मा ॥२६॥
एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ॥
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् ॥२७॥
तावज्जन्म व्रतादस्माद्विष्णुसंतुष्टिकारकात् ॥
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ॥२८॥
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ॥
यदर्धभागाऽऽप्तफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम् ॥२९॥
॥ नारद उवाच ॥
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ ॥
तया कलहया सार्द्धं वैकुण्ठभवनं गतौ ॥३०॥
धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः ॥
देहांऽते तद्विभोः स्थानं भार्याभ्यां संयुतोऽभ्ययात् ॥३१॥
इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान् ॥
हरिसन्निधिकारणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तमोक्षप्राप्तिकथनंनामाऽष्टाविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : November 09, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP