डिसे.१ –देहसुखेअनासक्तेःनामवैराग्यम् । भगवान्एववर्ततेइतियाभावनासाएवभक्तिः । इदंसर्वंसर्जनंनममइतिबुद्ध्याअवगमनं,तदनुगुणंव्यवहारःचेतिएतत्वैराग्यम् । सर्वंरामस्यइतिभावनाइत्युक्तेरामायसर्वंसमर्पणीयम् । परमार्थेकःअन्तरायः?धनं,सुताः,दाराचेत्यादयःन,परंतेषुयत्ममत्वम्अस्तिसःअन्तरायः । वस्तुषुनिरासक्तिःएववैराग्यं,नतुवस्तूनाम्अभावःवैराग्यम् । कस्यचित्पत्नीमृतावातस्याःअभावःइत्युक्तेसःविरक्तः,तस्याःभावःइत्युक्तेसःआसक्तःइतिवक्तुंनशक्नुमः । सर्वथायदिस्त्र्यधीनःन,तर्हिसःविरक्तःएव । यत्प्राप्तंतत्परमात्मनादत्तं, तत्तस्यएवइतिमत्वाआनन्देनजीवनम्एववैराग्यम् । अस्यांभावनायांस्थित्वायःइन्द्रियाधीनःनभवतिसःविरागी । संसारःनश्वरःइतिज्ञात्वावर्तनीयम् । तंनत्यक्तुंशक्नुमः । संसारेस्थित्वापियदिआसक्तःनभवतितर्हिसंसारःत्यक्तःएवकिल?फलाशांविनासत्कार्यकरणंभक्तेःलक्षणम् । कर्तव्यपालनेविक्षेपयतःप्रत्येकंविषयस्यअपाकरणंवैराग्यलक्षणम् । आसक्तिंविनाकर्तव्यपालनमेवतपश्चर्या । देहसुखस्यआसक्तेः, इच्छानिच्छयोःवात्यागःएववैराग्यम् । चिन्तयन्तु,वस्तुतःप्रपञ्चेमनोनुकूलानिवस्तूनिप्राप्यन्तेकिम्?तेषांप्राप्तिःअप्राप्तिःवाअस्माकंहस्तेनवर्तते । अमुकम्इष्यते,नइष्यतेवाइतिकिमर्थंवक्तव्यम्?इदम्अनुक्त्वारामस्यएवभूत्वावर्तनीयम्इतिएतत्पर्याप्तम् । यःरामंविषयंयाचतेसःरामस्यअपेक्षयाविषयेअधिकंस्निह्यतिइतिभवति । विषयाःनबाधकाः,विषयासक्तिःबाधिका । भगवन्तंप्रसन्नंकृत्वानाशवत्वस्तुयाचतेचेत्तेनकःलाभः?नाम्नियथाप्रह्लादस्यनिष्ठातथाअस्माकंनिष्ठाभवेत् । प्रल्हादेननामस्मरणंश्रद्धयाकृतं, निर्विषयेणभवितुंकृतंच, अतःविषयलाभार्थंनामस्मरणंनकरणीयम् । जगतिसर्वेजनाःसुखार्थंप्रयतन्ते । शास्त्राणाम्भृशम्उन्नतिःजाता,एतावान्सुखसाधनानांविकासःजातः । तेनदेहसुखंबहुवर्धितम् । परंमनुष्यःसुखीनजातः । रुग्णस्ययावत्ज्वरःनगच्छतितावत्सःसम्यक्नजातः । तथैवयावत्मानवःसुखीनजातः, तावत्वास्तवःविकासःनजातःइतिएवमन्तव्यम् । साम्प्रतंजगत्परिष्करणस्य,जगतिउपकारकरणस्यवाकालःन । प्रत्येकंजनःआत्मानंतुनिभालयेत् । तदर्थंभगवतःअनुसन्धानंनपरिहर्तव्यम् । तदनुनभयम् । सर्वैःनिश्चयःकरणीयःयत्‘भगवन्नामअतिरिच्यकिमपिनशृणोमि’ । यत्लभ्यतेतस्मिन्समाधानंमन्तव्यम् । ‘अहंभगवतः’इतिउक्तेसतिसर्वंजगत्भगवत्स्वरूपेणदृश्येतइतिविषयेनशङ्का । एषानकेवलाकल्पना । वयम्नअनुभवंगृह्णीमः । तदर्थम्अस्माभिःनामस्मरणेस्थातव्यम् ।
जगतिभगवन्तंविनासत्यंवस्तुनास्तिइतियस्यनिष्ठा,सःएववास्तवःयोगी,ज्ञानी,परमार्थीचइतिमन्यव्यम् ।
डिसे.२ –अखण्डनामस्मरणम्एवउपासना । देवंप्राप्तुंकःअवरोधः?अस्माभिःदेवःनप्राप्यतेएतदर्थंवस्तुतःवयम्एवकारणम् । वयम्अन्यान्दूषयामः, परन्तुइतरजनाःनअवरोधकाः,वयम्एवअवरोधाःइतिअल्पविचारेणअपिज्ञातुंशक्यते । यःआत्मीयःइतिअवगन्तव्यंतंतथानमत्वा,वयम्अन्यान्एवआत्मीयाःइतिमन्यामहे । पुत्रः,पत्नी,भ्राताचेतिएतान्वयम्आत्मीयान्मन्यामहे । एतेसर्वेकस्याञ्चित्सीमायाम्एवआत्मीयाःसन्ति,परंदेवम्आत्मीयंमन्यामहेचेत्सःसदासर्वकालम्आत्मीयःवर्तते, साहाय्यार्थंसिद्धःवर्ततेच । भवन्तःद्रोपद्याःकथांजानन्तिकिल?तस्याःभर्तारःतांरक्षेयुःइतिसाअचिन्तयत्, परंतेषुकोऽपिनसमर्थःइतिज्ञात्वासाअनन्यतयाश्रीकृष्णम्आहूतवतीतदासःतत्कालंधावितवान् । यान्वयम्आत्मीयाःइतिमन्यामहेतेवस्तुतःतथानसन्ति । परमात्माएवआत्मीयःइतिमन्येमहि । अहंतस्यइतिनिरन्तरंस्मरणंकृत्वातस्यएवइच्छयासर्वंप्रवर्ततेइतिभावःअनुवर्तनीयः । एतदर्थम्उपासनाकरणीया । उपासनाकरणीयाइत्युक्तेकिम्?‘अहंदेवस्य,तस्यसन्निकर्षेअस्मि’इतिभावःरक्षणीयः । इदंभावंजनयितुंतस्यनामस्मरणंकरणीयम् । वयंतस्यनामस्मरणंकुर्मःचेत्सःअस्माकंसन्निकर्षेवर्तते । कस्यचित्नामभवन्तःस्मरन्तिचेत्तस्यमूर्तिःमनसिउत्पद्यतेतथैवदेवस्मरणेनसःअपिभवत्समीपेविद्यते । कथंवर्ततेदेवःइतियदिपृच्छन्तितर्हिसःनाम्निवर्ततेइतिसाक्षात्श्रीकृष्णेनकथितंवर्तते । नामएवतस्यरूपम्अतःनामस्मरणेनसःभवन्तंप्रतिअनिवार्यतःआयातिएव । इदंनामस्मरणंकथंकरणीयम्?समर्थरामदासस्वामिनाउक्तम्,‘काहीचनकरुनीप्राणी । रामनामजपेवाणी । तेणेसन्तुष्टचक्रपाणी । भक्तालागीसंभाळी ॥ ‘( किमपिअकृत्वाप्राणी । रामनामजपतिवाणी । तेनसन्तुष्टश्चक्रपाणि । भक्तरक्षणंकरोति ॥ ) नामजपसमयेवयंकिमपिनकुर्मःकिम्?प्रपञ्चस्यचिन्तांकुर्मःकिल?इत्युक्तेअहंकारंधृत्वावयंनामस्मरणंकुर्मः । अहंकारंविनायःनामस्मरणंकरोतितम्एवदेवःपालयति । यःस्वस्थःवर्ततेतस्यसःयोगक्षेमंव्यवस्थापयति ।
कस्यचित्भूत्वाभवितव्यं, देवस्यवागुरोःवा ।
डिसे.3 –नामरामबाणवत्वर्तते । हेबालकाः,यस्मिन्कस्यअपिअधिकारःनप्रवर्तते,यःकदापिकस्मादपिचउत्कोचंनस्वीकरोति,गच्छन्तंयंनकोऽपिअनुभवति,यःकियान्गतः, कियान्अवशिष्टोवाइतिकोऽपिवक्तुंनप्रभवति, अतीतःयःनप्रत्यागच्छति,भगवन्तंविनायःनकस्मादपिबिभेतिचतंकालंनकोऽपिपरिहर्तुंशक्नोति । कालसामर्थ्येनवस्तुसाकारीभवतितथाअकस्मात्भनक्तिअपि । सर्वाणिदृश्यवस्तूनिएतेननियमेनबद्धानि । देहःतत्रकथम्अपवादः?परंयःभगवन्तंदृढंधरतितस्यदेहःवर्ततेनिर्वर्ततेवातस्यअवस्थानम्अविचलितम् । अग्रेकोऽपिवदेत्नवदेत्वा,नामस्मरणंभवन्तःनत्यजन्तु । भगवन्नामस्मरणेनरामःकल्याणंकुर्यात्इतिममवचनंसत्यम् । प्रपञ्चम्अवधायकुर्वन्तु, परंभगवन्तंनविस्मरन्तुइत्येवममआग्रहः । तस्यस्मरणेदिनम्आनन्देनयापयन्तु । नामरामबाणवत्वर्तते । रामबाणःइत्युक्तेसम्यक्कार्यंकरोतिसःबाणः । सःस्वलक्ष्यंसम्यक्विद्ध्वाप्रत्यागत्यतूणीरेतिष्ठतिस्म । रामनामरामस्यसन्निकर्षेवसति,रामंप्रतिनेतारंसुयोग्यंसाधनंवर्ततेच । वस्तुतःनामस्मरणाभ्यासःबहुसरलः । तदर्थंनकोऽपिउपाधिः । नसमयबन्धनम् । नस्थलस्य,नदेहस्थितेःबन्धनम् । यावत्भानंवर्तते,तावत्नामस्मरणंकर्तुंशक्यते । परम्अन्ययादृष्ट्यानामस्मरणाभ्यासःकठिनः । उपाधिंविनामनःनरमते । उपाधिःतस्मैरोचते । नाम्नःनस्वरुचिः,अतःस्वल्पंनामस्मरणंकृतंचेत्जामितत्वम्आयाति । एतदर्थंनाम्नियदिमनःप्रमुदतितर्हितत्भाग्यमेव । नाम्निमनःरमतेचेत्स्वविस्मरःभवति । चेतःयदिपूर्णतःनाम्निरमतेतर्हिआत्मानंपूर्णतःविस्मरति । नाम्निसिषाधयिषाआवश्यकी । एषासिषाधयिषावर्ततेचेत्जगतिविद्यमानानिसर्वाणिऐश्वर्याणिनगण्यानिभवन्ति । अस्मिन्आपणेतदर्थम्एवस्थितःअस्मि । प्रत्येकंजनस्यमनसिरामनामसिषाधयिषाउत्पद्येतएतदर्थम्अहंनिरन्तरंप्रयते । केनापितस्यअनुभवःस्वीकरणीयः । कोऽपितस्यअनुभवंस्वीकर्तुंसिद्धःभवतु । तस्यपृष्ठतःरामःवर्ततेइतिविश्वसन्तु । सर्वेमनसानामजपंकुर्वन्तुइतिममसर्वेषांकृतआशीःवर्तते ।
नाम्निव्यापृतःभवेत्तावत्नामजपंकुर्वन्तु । पूर्णःव्यापृतःभवतिचेत्नामनविस्मर्यते ।
डिसे.४ –गोन्दवलेमहत्त्वंनामप्रेम्णिवर्तते । यथाकश्चनपितावित्तकोशेधनंस्थापयति,तस्यअपकर्षंस्वनिधनानन्तरंपुत्रःलभेतइतिव्यवस्थांकरोतितद्वत्बुद्धिभ्रष्टाःन्यूनातिन्यूनम्अन्तकालेसद्बुद्धेःअपकर्षंप्राप्नुयुःएतदर्थंप्रचुरंधनंमयागोन्दवलेग्रामेस्थापितम्अस्ति । मनुष्यःकियान्अपिबुद्धिभ्रष्टःभवेत्,यदिसःगोन्दवलेग्रामम्आगच्छति,तर्हितस्यबुद्ध्यांपरिवर्तनंभवेदेव । न्यूनातिन्यूनम्अन्तसमयेसःतत्रआगत्यसम्यग्भूत्वाम्रियेत । अभिमानःन,परंगोन्दवलेमहत्त्वंनामप्रेम्णिवर्तते । रामःकियान्दयालुः । तस्यनामप्रसारार्थंमयातस्यनाम्नःइदंवाणिज्यम्आरब्धम् । आरम्भेअचिन्तयंयत्वस्तुविक्रयंभवेत्वान । परंरामेणमहतीकृपाकृता । बहवःजनानामजपम्आरब्धवन्तः । पश्यामःयत्प्रत्येकंग्रामस्यनामभिन्नंवर्तते । वस्तुतःसर्वेग्रामाःसमानाः । गृहाणि,भित्तिकाः,शालाः,धर्मशालाः,ग्रामसभाःचेतिसर्वंप्रत्येकंग्रामेवर्तते । परन्तुप्रत्येकंग्रामस्यमहत्त्वंभिन्नंवर्तते । गोन्दवलेग्रामेवित्तसस्यंन,परंनामसस्यंप्रचुरम्उत्पद्यते । सदाअहंवदामियत्यत्रयत्उत्पद्यतेतत्तत्रवपनीयम् । अत्रस्थःकश्चनभक्तःकुत्रापिदृश्यतेचेत्तस्यव्यवहारेणज्ञातव्यंयत्सःगोन्दवलेग्रामस्थःइति । ओष्ठौकम्पेते, मुखेनरामजपःप्रवर्ततेचेत्एषःअमुकगुरोःशिष्यःइतिज्ञातव्यम् । उक्तिःवर्ततेयत्पितुःमहत्त्वंनकथनीयंतत्पुत्रस्यवर्तनेनएवज्ञातव्यम् । अतःइदानीम्एकमेवकुर्वन्तु । रामंप्रणम्यमनसाकथयन्तु,‘हेराम,भवतःप्रेमदेहि । वयम्अखण्डनामस्मरणेभविष्यामः । प्रारब्धभोगान्आनन्देनभुञ्ज्महे । यथात्वंस्थापयसितथाआनन्दंमन्यामहे । भवतःमधुरंनामवयंहृदयेसततंधरिष्यामः । ’रामःनिश्चयेनकृपांकुर्यात् । अवितथंनामस्मरणेप्रपञ्चःअस्माकंकल्पनापेक्षयाकियान्सुखकरःभवेत्! युद्धम्अर्जुनस्यकर्तव्यम्अतः‘मांस्मृत्वायुद्धंकुरु’इतिभगवतासःकथितः । साम्प्रतंसेवावृत्तिः,प्रपञ्चःचकर्तव्ये । तेभगवत्स्मरणेसम्यक्करणीये । नीतिधर्मस्यआचरणंप्रारब्धेनआगतानिकार्याणिचभगवत्स्मरणेकरणीयानिइत्येवसर्वधर्मशास्त्राणांसारः । शर्करयामुखंमधुरायतेतथैवमधुरशब्दान्वदामःचेत्मधुरंश्रुण्मः । अस्माकंसर्वविषयान्भगवन्नामस्मरणेयदिकुर्मःतर्हिभगवत्प्रेमकथंनलभ्येत?वयंभगवन्नामस्मरणम्आरभामहे । तदेवभगवत्प्राप्त्यर्थंसमर्थंविद्यतेइतिनिश्चिनोतु । प्रपञ्चानुभवःकष्टमयः,परंभगवदनुभवःनिश्चयेनआनन्दमयः ।
यःमदीयःसःनामप्रेमीभवेत्एव ।
डिसे.५ –सहजतयानाममुखे,सःएव‘अजपाजपः’ । कश्चनसज्जनःआसीत् । निर्व्यसनःआसीत्सः । कदाचित्कश्चनमुनिःग्रामम्आगतः । सज्जनःभविष्यंज्ञातुम्आसक्तः । कस्माच्चित्सःश्रुतवान्यत्,मुनिःसम्यग्भविष्यंकथयति । अतःसःतेनमेलितुंगतः । सःतदा‘गान्जा’मादकधूम्रपानंकुर्वन्आसीत् । सज्जनःतंगन्धंसोढुंनशक्तवान् । तथापिभविष्यंश्रोतुंसःतत्रकोणेउपविष्टः । प्रतिदिनंसःतत्रगच्छतिस्म । बहूनिदिनानिगतानि । गच्छताकालेनतस्मैमुनिःअरोचत । कदाचित्मुनेःकथनेनतेनधूम्रवर्तिकायांवह्निःस्थापितः । अपरेद्युःवस्त्रंआर्द्रंकृत्वादत्तवान् । अग्रेकदाचित्मुनिकथनेनसःएकवारंधूम्रपानंकृतवान् । शनैःशनैःअभ्यासेनसःधूम्रपानेएतावान्पटुःजातःयत्गुरुम्अपिपृष्ठतःस्थापितवान् । सङ्गतेःएतादृशःमहान्परिणामःभवति । यस्यसङ्गत्याभगवत्प्रेमउत्पद्यतेसःसत्पुरुषः । तस्यसङ्गतेःसिषाधयिषाभवेत् । श्रीरामप्रभावेणरोचितंनामचित्तेधृत्वाहनुमतासःआत्मीयःकृतः । तन्नामभवन्तःश्रद्धयाधरन्तु । भगवन्तंभवन्तःअपिआत्मीयंकर्तुंशक्नुवन्ति । नामजपंकुत्रापिकुर्वन्तु,कदापिकुर्वन्तु,कियदपिमन्दंवदन्तु,परंश्रद्धयावदन्तु । तेनभवान्भगवन्तंनिश्चयेनप्राप्नुयात् । परमेश्वरप्राप्त्यर्थंप्राणायामः,योगासनम्इत्यादीनिसाधनानिकथितानिसन्ति । परंततःअपिमहत्त्वपूर्णंवर्ततेभगवतःसहजभक्तिः । भगवन्नाम्नःसहजतयामुखम्आगमनंनाम‘अजपाजपः । ’एषःभगवद्भक्तेःश्रेष्ठःप्रकारः । अस्मिन्अहंलोपःवर्तते । अहंकारलोपःएवभगवतासहसत्याअनन्यता । भगवतःपूर्णकृपाइत्युक्तेभगवतासहएकरूपता । परमार्थःइत्युक्तेअस्माकंसहजावस्थाभवेत् । तदर्थम्अन्तरङ्गस्यपरिचयःभवेत्इत्युक्तेअन्तर्मुखेनभवितव्यम् । ‘भगवान्नास्ति’इतिभावेनउद्भूतःवायुःइत्युक्तेचिन्ता । मनुष्यस्यसर्वेषुदुःखेषु,रोगेषु,चानन्दः,समाधानंचऔषधिः । यःसदाचरणेभगवन्नाम्निचवर्तते,तस्मात्एषःऔषधिःसहजंलभ्यते । अस्यऔषधेःपरिणामःसहजम्अज्ञात्वाचभवति, अन्तपर्यन्तंतिष्ठतिच । आनन्दमयेनभवितुंभगवान्अपेक्ष्यते । भगवतःप्राप्ताशान्तिःएवसमाधानम् । मनसःभगवतियोजनार्थंयाशृङ्खलासानाम । अस्मिन्नाम्निसर्वस्वंयदियोजितंतर्हिभगवन्तंप्रतिसहजगमनंशक्यते ।
नामानन्दस्यआवेगेनमनुष्यःआत्मानं,जगत्चविस्मरेत् ।
डिसे.६ –निरासक्तिः,शरणागतिःच । केनचित्छुरिकायाःकाष्ठस्यमुष्ठिःपरिवर्त्यलोहस्ययोजिता । केनचित्,केनचित्सुवर्णस्यचयोजिता । परन्तुछुरिकयाताडितःचेत्परिणामःसमानः । तद्वत्प्रपञ्चःसुष्ठु,असुष्ठुवा,सःछुरिकासमंसर्वत्रघातकःएव । प्रपञ्चस्यआसक्तिःइत्युक्तेक्षुरस्यधारा । अतःस्वोद्योगः,सेवावृत्तिःवासम्यक्करणीया । तत्रदुर्लक्षेनअलम् । परम्अहमेवसर्वंकरोमिइतिनमन्तव्यम् । सेवाकार्यंनसुखार्थंतत्उदरनिर्वाहार्थम्इति,एतयावृत्त्यायःकरोतिसःआसक्तःनभवति,नतस्यअभिमानःभवति । सावधानतयावर्तनीयम् । भगवान्स्मरणीयः । तस्यनामजपःकरणीयः । अन्येसर्वेविषयाःप्रारब्धेनप्रवर्तन्तेइतिचिन्तनीयम् । एतेनएवसमाधानंलभ्येत । भगवन्तंविनासमाधानंनशक्यते । ‘समाधानेनअहंजीवामि’इतियःवदतिसःजगतिधन्यः । एतांधन्यतांप्राप्तुंभगवान्अत्यन्तम्आवश्यकः । रामेच्छयासर्वंप्रवर्तते,रामःएवकर्ताचेतिभावनयाप्रपञ्चंकुर्मः । सर्वथाप्रयतनीयम्,परंफलदाताभगवान्एवइतिमत्वासमाधानम्अनुवर्तनीयम् । भगवत्प्राप्त्यर्थंशरणागतिंविनानकिमपिअन्यत्अपेक्ष्यते । उपाधिविहीनत्वम्एवशरणागतिः । ममत्वोपाधिंनाशयितुंसाधनम्अपितथाएवआवश्यकम् । एतावत्उपाधिविहीनंसाधनंनामविनानकिमपि । तत्साधनंकरोतु । भगवन्नामप्रेमअपेक्ष्यतेचेत्अन्तःकरणंशुद्धम्अपेक्ष्यते । अन्तःकरणंद्वेषेन, मत्सरेण, अभिमानेनचयुक्तंनभवेत् । परस्परंप्रीणन्तु । गृहतःआरभताम् । सुतःसुखंददातिअतःन, परंममकर्तव्यम्इतिमत्वातस्मिन्प्रीणामि । निःस्वार्थभावनयाप्रेमएवपरमार्थःननु । तदर्थंरामःदाता,आधारः,भगवान्चेतिमत्वाभवितव्यम् । इदंभानंनिर्मातुंभगवन्नाम्नःआवश्यकतावर्तते । मनःशान्तिंप्राप्तुंएषःएवपथः । दीनत्वेननकदापिभवितव्यम् । राजवैभवंभोक्तव्यं,परंतेनअहंनसुखी,रामस्यआत्मीयत्वेनसुखीइतिभावनयावर्तनीयम् । वैभवम्अद्यवर्ततेश्वःन । वैभवेविश्वासेनअलम् । अहंरामस्यइतिभावनायांस्थातव्यम् । तदर्थंरामनामवदतु । रामःकल्याणंकरिष्यतिइतिममवचनेविश्वसतु ।
सुखंकुत्रवर्तते?सुखंमनोभावनायांवर्तते । अहंभगवतः,एषाभावनाएवसत्या ।
डिसे. ७ –नामप्रेमचयमलसहोदरौ । सामान्यप्रापञ्चिकस्यआकर्षणंविषयंप्रतिवर्तते । अद्यसुखंक्वइतिसःपश्यति । विषयेसःएतावान्तल्लीनःभवतियत्जगदपितृणवत्मन्यते । अन्ततःविषयःदुःखदःइतिसःविस्मरति । यदाविषयःअहंचतद्रूपौतदासुखंभासते । परंवस्तुतःअद्ययावत्केनापिविषयात्सुखं,समाधानंचनप्राप्तम् । सुखं,समाधानंचलब्धुम्अस्माकंवृत्तिःभगवतिदृढाकरणीयाइतिएकःएवउपायः । वृत्त्याएकाकारेणभवितव्यंपरंनविषयेअपितुनामस्मरणेइतिसर्वसत्पुरुषाणांकथनम् । ‘मना’शब्दस्यअक्षराणांविपरीतंकुर्मःचेत्‘नाम’इतिभवतिइत्युक्तेनामस्मरणेमनसःविषयंप्रतिआकर्षणस्यविपरीतकरणम् । ‘नाम’इत्युक्ते‘नमम’ । ममत्वंविनाप्रपञ्चःकरणीयः,इत्युक्तेनामस्मरणम् । यथाप्रपञ्चस्यचिन्तांकरोमितथानाम्नःकरोमिकिम्इतिप्रत्येकंजनेनचिन्तनीयम्?प्रपञ्चेनिहितंस्वकर्तव्यंपूर्णमनसाकृत्वाविद्यमानायांपरिस्थित्याम्अत्यन्तंसमाधानेनअवस्थायनामस्मरणेकालःयापनीयः । निर्गुणस्ययमलौजातौ । तयोःनामनीनामप्रेमच । द्वौपरस्परौलग्नौ । एकंधरामःचेत्अपरम्अनुवर्तते । साम्प्रतम्अस्माकंप्रेमनैकेषुवस्तुषु, जनेषु, वित्तेषु, विद्यासु, देहेषु, लौकिकेषुचवर्तते । तेनभगवतिप्रेमकरणेननामअनुवर्तेतइतिअवस्थाअस्माकंनवर्तते । गोपीनांतादृशीअवस्थाआसीत् । परंवयंनामवशीकर्तुंशक्नुमः । तदाभगवत्प्रेमसहजम्अनुवर्तते । गृहादिकैःसहवासेनप्रेमभवतितर्हिनाम्निकिमर्थंनभवेत्? वस्तुतःबुद्ध्याज्ञातुम्नशक्यते, एतादृशःबहवःविषयाःजगतिसन्ति । सुनुःपितुःनामकरणविधिंद्रष्टुंनशक्नोति । तद्वत्कोऽहम्इतिएतस्यबुद्ध्याअवगमनंनशक्यम् । सत्यवस्तुकल्पना, बुद्धिः, तर्कःचेतिएतेषांपरःवर्तते । सत्यान्वेषणंकर्तुंयेनसत्यम्अपाहितंतत्वस्तुदूरीकरणीयम् । तदासत्यंद्रष्टुंशक्यते । सत्यम्उत्पादयितुंनशक्यम् । उपाधिःउत्पाद्यते । उदाहरणार्थंभयं, कल्पनाइत्यादिनाम्उत्पादनंवयमेवकुर्मः । नद्यांसेत्वौस्थित्वाजलस्पर्शेनविनावहतःजलस्यविनोदम्अनुभवामः । तद्वत्भगवतःसत्यत्वंयेनअङ्गीकृतंसःविषयेषुस्थित्वाअपिभवतःउद्भूतान्सुखदुःखविषयान्प्रतिविनोदेनपश्येत्,स्वयम्अलिप्तत्वेनअवतिष्ठेत्च ।
सुखंनविषयेषु, आत्मनिवर्तते । आत्मासुखरूपः ।
डिसे.८ –भगवत्प्राप्त्यर्थम्एवदेहरक्षणम् । देहरक्षणम्आवश्यकं, परंतत्भगवतःप्राप्त्यर्थंकरणीयम्, नतुविषयसुखार्थम् । बाह्यलौकिकंरक्षितुंयत्मुख्यंतत्गमयितंतर्हिकःलाभः?एषामूर्खताननु?नारिकेलगर्भंरक्षितुंकवचम्अपेक्ष्यते । केवलंबाह्याङ्गस्यपालनंनमनुष्यस्यउद्दिष्टम् । बाह्याङ्गसुखंनअवितथम् । ‘अहंममच’इतिइतःवयंद्वैतम्आरभामहे । कल्पनयायावत्शक्यंतावत्पश्यामः, परम्अन्तपर्यन्तं‘कोऽहम्’इतिप्रश्नस्यउत्तरंनलभामहे । प्रमादःजातःइतिज्ञायतेचेत्परिष्कारःमार्गणीयः । यतःप्रमादःजातःतत्रप्रत्यागन्तव्यम् । ‘अहंदेही’इतिचिन्तनेनप्रमादःजातः । अनृतंऋतम्इतिचिन्तितम् । विषयेसुखम्इतिकल्पितम् । नैकवारम्अनुभूतं,परम्अस्माकंकल्पनायाःसत्यासत्यतानावगता । विचित्रम्इदम् । सत्यंयत्प्रपञ्चःयष्टिकाक्रीडासदृशः । अस्यांक्रीडायाम्एकस्मैयष्टिताडनंदत्त्वासःत्वरितम्अग्रिमंक्रीडकंगच्छति । तथैवप्रपञ्चःनस्थिरंवस्तु, चञ्चलः । अस्माकंजन्म,मृत्युःचप्रकारान्तरेणप्रतिदिनंप्रवर्तते । निद्रितःचेत्मृत्युः, जागृतःचेत्जन्म । कारागृहेबहवःबद्धाःसन्ति । प्रत्येकंजनेनकिमपि,किमपिदुष्कृत्यंकृतंवर्तते । प्रत्येकंबद्धेनअकरणीयंकृतम्अस्ति । तद्वत्जगतियेदुःखम्अनुभवन्तितैःजनैःयद्यपिअज्ञातंतथापिनकरणीयंकर्मपूर्वजन्मनिकृतंवर्ततेइतिनिश्चितम् । अत्रभगवताएकासुविधाकृतावर्ततेयत्,यःदेहंविस्मरतितस्यदुःखभानंनभवति । जगतिविद्यमानस्यदुःखस्यप्रश्नस्यउत्तरंमानवीयतर्केणसमाधानपूर्वकंनलभ्यते । अतःतद्विषयेअधिकंनचिन्तयित्वादुःखंन्यूनीकर्तुंप्रयतनीयम् । यःसर्वथादेवंस्मरति,सःजगत्,दुःखंचविस्मरति । यःआत्मानंपूर्णतःविस्मरतिसःभगवन्तंलभते । आत्मानंपूर्णतःविस्मर्तुंनामजपःएवउपायः । यावत्आर्ततयानामजपंकुर्मःतावत्आसक्तिःनाम्निभवति । तेनदेहस्मरणंकथंभवेत्?नामोच्चारणं, तस्यएवश्रवणं, तेनएवआत्मविस्मरणम्,एषःएवआनन्दमार्गः ।
नामअन्तःकरणंप्रविशतिचेत्देहस्यविस्मरणंभवति । तदा‘कोऽहं, कोदेवः’इतिसम्यक्ज्ञायते ।
डिसे.९ –अभिमानःमास्तु । निन्दामास्तु । वस्तुतःदेहबुद्धेःबलस्यकारणम्अस्माकम्अभिमानः । अभिमानेनसद्गुणाःअपगच्छन्तिचेत्कःलाभः?ज्ञान्यज्ञानिनोःमध्येमुख्यःभेदःवर्ततेयत्ज्ञानिनःअभिमानंत्यजन्ति, अज्ञानिनःअभिमानंवर्धयन्तिच । अभिमानेनसमःनरिपुः । एषःअन्तरङ्गशत्रुः । शोधयित्वानिग्रहणीयः । सत्कर्ममात्रेणअभिमानःननश्यति । सर्पायदुग्धंदद्मःचेत्तत्विषेएवपरिणमतेतथैवअभिमानेनकिमपिकुर्मःचेत्सःवर्धतेएव । तदर्थंसत्कर्मनत्यक्तव्यं,परम्अभिमानंविनाकरणीयम् । ‘अहंकर्ता’इतिभावःत्यक्तव्यः । अभिमानःनामकरणविधौआयाति । दशक्रियाविधिपर्यन्तम्अस्माभिःसहस्थातुंप्रयतते । अतःनामाङ्कुशेनतस्यनिष्कासनम्अपेक्षितम् । अस्माकम्अन्तःकरणेनिन्दानामअवकरःविद्यते,इत्युक्तेअस्माकंकूप्यांलवणजलंवर्तते । चिन्तयन्तु,उपरितनंजलंनिष्कास्यअधिकंखनामःचेत्कदाचित्मधुरजलनिर्झऱःलभ्येत । तेनकूप्यांजलंमधुरंभवेत् । तथाएवअस्माभिःअभिमानःत्यक्तः,निन्दाकरणंस्थगितम्,अन्तर्मुखेनभूत्वाभगवान्शोधितःचतर्हितस्यप्रेमनिर्झरस्यलाभेनअस्माकम्अन्तःकरणंतस्यप्रेम्णापूर्णंभवेत् । लोकोक्तिःवर्ततेयत्कूप्याम्अस्तिचेत्द्रोण्याम्आगच्छेत् । कूप्यांयदिलवणजलंवर्ततेतर्हिद्रोण्यांतदेवआगच्छेत्तद्वत्अस्माकंमनसियत्वर्ततेतदेववाण्यांप्रकटति । वचनेनमनुष्यस्यअन्तःकरणंपरीक्ष्यते । यस्मैनिन्दारोचतेतस्यउदरेमलंवर्ततेएव । केचनजनाःअन्येषाम्उत्कर्षम्असोढ्वातेषांनिन्दांकुर्वन्ति । अन्येषाम्उत्कर्षंतेनसहजंसहन्ते । केचनआत्मसुदोषारोपणंनभवेत्एतदर्थम्अन्यान्निन्दन्ति । केषाञ्चनदृष्टिःएवदूषितायतःदोषाःभवन्तुवानवातेअन्येषुदोषम्एवपश्यन्ति । भगवन्मार्गेणगन्तृणाअन्येषुविद्यमानानांदोषाणांबीजम्आत्मनिवर्ततेइतिअवधातव्यम् । तेननिन्दानकरणीया । स्वसामर्थ्यस्यगुणानाम्अभिमानःनकरणीयः । जनैःयत्नकरणीयम्इतिवयंचिन्तयामःतत्अस्माभिःअपिनकरणीयम् । प्रपञ्चेनसहवासःउपरितनस्तरेभवेत्अन्तरङ्गेमास्तु । अन्तरङ्गेभगवतःएववासःभवेत् । तेनसर्वान्तरङ्गदोषाणांनिराकरणेनशाश्वतशान्तिम्आस्वादयितुंमनःशक्नुयात् ।
अन्येषांदोषाणांकथनम्उच्चारणंवाहीनत्वलक्षणम् ।
डिसे. १०–रामेणस्थाप्यतेयत्र । समाधानंभवतुतत्र । प्रपञ्चेसमाधानम् । एतदेवसर्वोत्तमंज्ञानम् ॥ भगवत: हस्त: यत्र । समाधानं वर्ततेतत्र ॥ रामेण स्थाप्यतेतत्र समाधानं । एष: सुखोपाय: इत्यवगच्छ ॥ रामपदेतद्रूप: । समाधानंलभतेसः ॥ यस्यअन्त:करणेसमाधानं । तत्रउत्पद्यतेभगवत्प्रेम ॥ सःएवअसमाधानः । रामंविहायअन्य: आत्मीय: ॥ उपाधिरहित:राम: । तावत्अन्य: न द्रष्टव्य: ॥ मध्येक्वापिमन: लग्नं । परमतत्त्वंदूरे गतम् ॥ भगवत्स्मरणं,भगवदागमनं । न भवति विना पुण्यं ॥ श्रीराम: सर्वव्यापी । यस्यविश्वासःसःसमाधानी ॥ दातारघुनंदन: । यस्यमनसि एष: भाव: । जगति स: नभवतिदीन: ॥ तत्रधर्मरक्षणं । यत्रपरमात्मस्मरणम् । राम: स्वदासे । नित्यंकृपायते ॥ सर्वदाराम: कृपायते । प्रमादान्क्षमायते ॥ पुन: असाधुनवर्तनीयं । सावधानेनभवितव्यम् ॥ 'अन्तेकरोतिममस्मरणं । तस्य करोमिउद्धरणम्' । इतिभगवत: वचनम् । निशङ्कतयाविश्वसनीयम् ॥ विनारघुनाथंसुखी । श्रुत: दृष्ट: वाजगति ॥ अहङ्कार: त्यक्तव्य: । तदाभवतिभगवदीय: ॥ यदाराजदर्शनं । सेवकानांनमहत्त्वम् । तथाजगन्नियन्ताभवतुआत्मीय: ॥ अद्ययावत्रामेणाहंपालित: । राम: नास्तिसुप्त: ॥ तस्यजागृति: । स्वहस्तेअस्ति ॥ य:शास्तिकालं । तस्य चरणयो:मस्तकम् । तेनअभयम्इतिसत्यम् ॥ यस्यहृदयेराम: । ऋद्धिसिद्ध्यो: तत्रनावकाश: ॥ य:निस्वार्थी । तत्रभगवान्निवासी । इतिसिद्धान्तंजानीहि ॥ राम: कर्ता इतिभाव: । न्यूनताया: नावकाश: ॥ नि:स्वार्थतयाकर्तव्यं । तेनरामेणप्रसीदतव्यम् ॥ यत्रनान्योपाय: । तत्रसहायक: राम: ॥ यस्यपरमात्मासहाय: । स:नितरांनिर्भय: ॥ देह: परतन्त्र: । भगवतिस्वतन्त्रंभवतुमन: ॥ निर्विषयत्वेनआह्वयतु । ममदाशरथि:साक्षात् भवतु ॥ राम: सर्वेषांकल्याणंकुर्यात् । दुष्टायअपि सुबुद्धिंदद्यात् ॥ दीनदयालु: परमात्माराम: । विकल्पायनावसर: ॥ सत्यमेव व्यवहरणीयं । भगवान्कृपायेत्भवन्तम् ॥ अखण्डंनामस्मरणं । तदा कृपायेतरघुनन्दन ॥
भगवतायत् दत्तं । तत्रसमाधानेनस्थातव्यम् ॥
डिसे.११ –कर्ममार्गिभिःनामअतीवअपेक्ष्यते । परमार्थंसाधयितुम्उदारावृत्तिःअपेक्ष्यते । महात्मामनुष्यःएवपरमात्मानंलभते । यः‘पन्तः’(उदारमनस्कः) सःएवसत्पुरुषः । प्रापञ्चिकेनजनेनगृहेविद्यमानंसर्वंनदातव्यम्,परंप्रसङ्गेसर्वंदातुंमनसःसिद्धताभवेत् । वस्तुतःभगवतासर्वदानस्यअपेक्षयास्वत्वदानम्अपेक्ष्यते । स्वदानानन्तरंसर्वंनदद्मः,तर्हिअनुमन्यतेयतोहितस्मिन्अस्माकंस्वामित्वंनवर्तते । परंसर्वदानानन्तरंस्वंनदद्मः,तर्हिसमाधानंनलभ्यते । भगवतेस्वदानम्इत्युक्तेअहंतस्यइतिभानंमनसिअहर्निशम्अनुवर्तनीयम् । वैदिककर्मभिःचित्तशुद्धिःभवति । परंभगवतःप्राप्त्यर्थंचित्तशुद्धिःकरणीया,तस्यभगवतःअधिष्ठानंयदिवैदिककर्मणांनवर्ततेतर्हितत्कर्मकर्मठतायांपरिणमते । अपिचसाम्प्रतंबाह्यपरिस्थित्यौपरिवर्तनंजातम्,अतःवैदिककर्माणियथोक्तानितथानभवन्ति । अतःकर्ममार्गेणगमनसमयेकर्मपूर्त्यर्थंनामजपःअत्यन्तम्अपेक्ष्यते । कर्ममात्रम्एवसर्वस्वम्इतिमनस्विनांकर्ममार्गिणांचिन्तनेनयाकर्मठभावनाउत्पद्यतेतस्याःविषयेममआक्षेपःविद्यते । अन्यथाकर्ममार्गिणाम्अनुशासनविषयेसंयमविषयेचमयाआद्रियतेएव । केवलंरामनामजपनेनसर्वधर्मबन्धनेभ्यःमुक्तिःभवतिइतिचिन्तनंनयोग्यम् । परंकर्मणाचित्तशुद्धिः,चित्तशुद्ध्याभगवद्भानंजागर्ति । नतावन्मात्रं,यदापूर्णाचित्तशुद्धिःभवतितदाकर्मलोपेनकेवलंनामएवअवशिष्टंवर्तते । भगवतासहतद्रूपत्वेनतस्यभगवतिलयःभवति । रामनामनकेवलंमन्त्रः,सःसिद्धमन्त्रः । सःभगवन्तंप्रतिनयति । न,सःभगवन्तम्आकर्ष्यआत्मानंप्रत्यानयति । एषःममसाक्षात्अनुभवः । केनापिइदंनामसामर्थ्यम्अनुभवितव्यम् । रामनामदेहबुद्धिंज्वालयिताअग्निःवर्तते । रामनामओम्कारस्वरूपम् । तत्सर्वकर्मणांसाधनानांचप्राणाः । श्रीशिवशङ्करात्श्रीसमर्थपर्यन्तंयेमहासिद्धाःजाताःतेसर्वेरामनामकण्ठेधृतवन्तः । रामनाम्नःसार्धत्रिकोटिमितंजपंयःकरोति,सःस्वदेवताम्अनुभविष्यति । रामनाम्नःआधारेणरामेणसहसम्बन्धःस्थापितःभविष्यति । रामनाम्नःजपकरणंतत्सर्वंममअस्माकंकल्याणायइतिमन्यव्यम् ।
नाम्नःकृतेनामजपतु,तेनैवरामःवर्ततेइतिनिश्चयेनज्ञानंभविष्यति । ।
डिसे.१२ –यत्योगेनलभ्यतेतत्नाम्नापिलभ्यते । गृहस्थाश्रमवासिनानियतनीयंयत्याचकःनइतिनवक्तव्यः । समीपेयत्वर्ततेतस्मात्स्वल्पंवादातव्यम् । अन्नदानेसङ्कोचःमास्तु । धनदानेस्वपरिस्थितिं,तस्यहेतुंचदृष्ट्वातस्यअपेक्षायाःन्यूनम्एवदातव्यम् । नकारःनसाधुः । भिक्षुकेणसहकदापिदुर्वचनैःनवक्तव्यम् । सेवावृत्तिःअपिप्रकारान्तरेणभिक्षाएव । याच्ञावैराग्यदृष्ट्यानअप्रतिष्ठिता,परंसास्वार्थायनभवेत् । उदरपूर्त्यनन्तरम्अवशिष्टम्अन्नंपूर्णतःदातव्यम् । वैराग्यप्रभांकदापिनगोपयितुंशक्नुमः । सुगन्धादीनिद्रव्याणिसंलेप्यतेजःआननीयंभिन्नं,वैराग्यतेजःभिन्नम् । वैराग्येणविनासर्वःपरमार्थःमिथ्या । जगतःस्वभावज्ञानंज्ञानस्यआदिसोपानम् । यामिथ्यातत्सत्यम्इतिमननम्साअविद्या । वस्तुतःमनुष्यस्यपरमार्थयोग्यतायाःअवगमनंसामान्यजनेननशक्यते । सत्पुरुषाःएवअन्तरङ्गंजानन्ति । अतःतादृशंदृष्टिलाभंविनाकोऽपिनदूषणीयः । अन्तसमयेमनुष्यःकस्याम्अवस्थायांवर्ततेइतिएतस्यज्ञानेनतस्यपरमार्थावस्थायाःज्ञानंभवति । सामान्यजनःअपिनामसाहाय्येनमहतींयोग्यतांप्राप्नोति । तदवगन्तुम्अपिआत्मनानामजपनेरतेनभवितव्यम् । नामसामर्थ्यंमहत् । कोऽपिनानुभवति,एतदर्थंकिंकरणीयम्?निस्संशयंयत्योगेनलभ्यतेतत्नाम्नापिलभ्यते । यस्यनाम्निआसक्तिः,तस्मिन्रामःकृपांकरोतिइतिनिश्चितम् । तदर्थंसततंनामोच्चारणम्एवउपायः । ततःपश्यामःचेत्प्रापञ्चिकाःअतिस्वार्थिनःइतिदृश्यते । तेषांस्वार्थंरक्षित्वातेपरमार्थम्इच्छन्ति । इदंकथंशक्यम्?अत्यन्तंनिस्वार्थिभवनम्एवपरमार्थः । तदर्थंस्वल्पःवास्वार्थत्यागःकरणीयः । सत्पुरुषाणांसकाशंगत्वाइदमेवपठनीयम् । पूर्णतःप्रपञ्चंत्यजन्तुइतिकोऽपिनकथयति । तथाकथयामःचेत्नकोऽपिअङ्गीकरोति । परंन्यूनातिन्यूनम्अस्माकंस्वार्थिभावःएवसर्वम्इतिनमन्यन्ताम्इतिसत्पुरुषाःकथयन्तिइतिनअयोग्यम् । स्वार्थंन्यूनीकर्तुंवासनान्यूनीकरणीया । वासनांन्यूनीकर्तुंभगवान्एवआधारः । तदर्थंतस्यअनुसन्धानंकरणीयम् । अनुसन्धानार्थंतस्यनामस्मरणम्अपेक्ष्यते । तदर्थंतस्यनामजपन्तु ।
यःनाम्निप्रीणातिसःभगवद्दर्शनंप्राप्नोति ।
डिसे.१3 –भगवत्सेवाशुद्धभावनयाएवभवितुम्अर्हति । हृदयंतथाचइतरेअवयवाःदेहस्यभागाः । हृदयंविनासर्वेभागाःसम्यक्कार्यंकुर्वन्तिचेदपिकोऽपिलाभःनास्ति । परंयदिहृदयंसम्यक्वर्ततेइतरभागाःअसमीचीनाःचतर्हिविविधोपायैःतेपूर्ववत्कर्तुंकदाचित्शक्याः । अपितुकश्चनअवयवःनिष्कासितःचेदपिदेहस्यकार्यंप्रवर्तते । परंहृदयंस्थगतिचेत्सर्वंसमाप्तंभवति । तन्नामहृदयसमंनामसाधना,इतरसाधनाःतुइतरावयवसदृशाः । नामस्मरणेनविनाअन्यसाधनाःनिष्फलाः । ‘अधुनाअस्मिन्जन्मनिएतावत्पर्याप्तम्’इतिभवन्तःनामजपविषयेचिन्तयन्ति,परंधनार्जनविषयेवाविषयभोगविषयेवातथानमन्यन्ते । यतोहिभगवत्स्मरणेनविनासर्वंप्रवर्ततेइतिभवन्तःभावयन्ति । प्रपञ्चेयाप्रीतिःसाभगवतियोजिताचेत्भक्तिःभवति । प्रपञ्चेविद्यमानःलोभःभगवतिप्रेम्णिपरिवर्तते । अनयापध्दत्याअस्माकंविकाराणांभगवतियोजनंशक्यम् । कश्चनप्रवासीयानेसम्यक्स्थानंलब्धवान् । अतःस्वस्थानकंनअवतीर्ण: । यानेन अन्तपर्यन्तंगत: । तेनयानेनएवपुनःस्वस्थानकंप्रत्यागतः । तद्वत्अस्माकंजन्ममरणप्रवासःप्रवर्तते । भवन्तःतेनसदृशंपुनःनप्रत्यागच्छन्तु । प्रवासेकदली,नारङ्गंचेत्यादीनिफलानिस्वीकुर्वन्तुइत्युक्तेअत्रगृहादीनिनिर्मान्तु,परंस्वस्थानकंनविस्मरन्तु । भगवान्एवअस्माकंस्थानकम् । साम्प्रतंविद्वज्जनाःअपिभगवद्विरुद्धंभणन्ति । अतःआदौस्वसाधनंनिश्चेतव्यम्, अनन्तरंपुराणादीनिश्रवणीयानि । साधुवादंलब्धुंबहवःजनाःपुराणंशृण्वन्ति । अथवाकेचनमनोविनोदार्थंसमयंयापयितुंवागच्छन्ति । इदंनयोग्यम् । दोषाःनपुराणेषु । प्रवाचकःस्वमतंसम्मेल्यकथयति,तेनबाधते । कर्तव्यभानम्अखण्डभगवदनुसन्धानंचैवसर्वपुराणानांसारम् । यथाकर्मतथावचनं - तदर्थंभाषणस्यन्यूनीकरणम्अपेक्ष्यते । भाषणंन्यूनीकर्तुंमनःक्वचित्योजनीयम् । शुद्धभावनयाएवभगवत्सेवाभवितुमर्हति । अस्याःभावनायाःउद्गमःप्रत्येकंजनस्यहृदयेवर्तते । एषाशुद्धाभावनाअस्मान्त्रायतेनतुमन्दिरं,समाधिःवा । देहेनसहवासेनदेहेनसहएकरूपतावर्ततेतद्वत्भगवन्तम्अविस्मृत्य,तंस्मृत्वाचतेनसहएकरूपताकिमर्थंभवितुंनार्हति?
परमार्थःकियान्अपिदुष्करःभवेत्, नामजपनेनसःसुलभःभवति ।
डिसे.१४ –नामजपसमयेमनसिएकःपरमेश्वरःएवभवेत् । वस्तुतःपरमेश्वरःअस्माकंप्रेमविनाकिमपिनापेक्षते । अन्तःकरणात्तत्प्रेमआगच्छेत् । परंपरमेश्वरविषयेवास्तवंप्रेमएवनोत्पद्यतेइतिअस्माकम्अनुभवः । वयंपरमेश्वरंप्रेम्णाआह्वातुंनशक्नुमः । सःकथंशृणुयात्?सहवासेनप्रेमवर्धते । रेलयानेप्रवासिनासहचतुर्होरासुप्रेमउत्पद्यते,तर्हिनामस्मरणेनकिमर्थंप्रेमनोत्पद्येत?देहेनसहअनन्तजन्मतःवासः,अतःदेहेप्रेमभवति,देहबुद्धिःआयातिच । नाम्नासहवासःअपियदिभृशं,सततंचवर्तते,तर्हिविषये,देहेचविद्यमानाअस्माकम्आसक्तिःन्यूनीभवेत्,नाम्निप्रेमउत्पद्येत । दारापुत्रस्नेहार्थंकियन्तंत्यागंवयंकुर्मः । परमेश्वरस्यशाश्वतसुखार्थंक्षुद्रवासनानांत्यागःअस्माभिःकिमर्थंनक्रियते?नामजपसमयेमनसिएकःपरमेश्वरःएवभवेत्,अन्याकापिवृत्तिःनउत्पद्येत । तदेवअवितथंनामस्मरणम् । विकाराःमूलतःनत्याज्याः । तेभगवताएवदत्ताः । अतःतेषांजीवनेयोग्यंस्थानंभवेत्एव । किंबहुनाव्यवहारेविकाराःअपेक्ष्यन्ते । केवलंवयम्अधिकारेणविकारान्युञ्ज्महे । नतुविकारैःअस्मासुशासनंकरणीयम् । चिन्तयन्तु,राजगिरा(किञ्चनधान्यं) तथाकलायकणाःमिश्रिताः । यदितान्भिन्नान्कर्तुम्इच्छामःतर्हिएकस्यअपाकरणेनअन्यद्अवशिष्टंवर्तते । अपिचयत्अपाकर्तुंसरलंतत्कुर्मः । तद्वत्सरलेननामजपेनगच्छताकालेनविषयाःविलीयन्ते । कलायकणचयनेयदिराजगिरकणाःलग्नाःतर्हिवयंबलेनकम्पयित्वातान्निष्कासयामः, तद्वत्भगवदनुसन्धानेअल्पाःवाविषयाःआयान्ति । यदितान्इच्छयानभुञ्ज्महेतर्हितेनबाधन्ते । सर्वेसत्पुरुषाःएकमेवकथयन्तियत्भवान्भगवन्तम्अनुसन्दधातुइत्युक्तेनिरन्तरंस्मरतु,तेनसत्यस्यज्ञानंभवेत् । भगवतःअनुसन्धानम्इत्युक्तेअन्येसर्वेविषयाःदुर्लक्षिताःचेदपिअनुमन्यते,परंपरमात्मविस्मरणंकदापिनभवेत् । भगवतःअनुसन्धानंकः,कथंअनुवर्तयेत्इतिनजानीमः । कश्चनपूजांकुर्यात्,कश्चनभजनंकुर्यात्,कश्चननामस्मरणंकुर्यात्,कश्चनमानसपूजांकुर्यात्वाकश्चनचित्रकलयाकुर्यात् । भगवदनुसन्धानम्इतिध्येयंमत्वाअन्यविषयाःतदनुकूलाःकरणीयाः । कर्तव्यभानं,भगवतःअखण्डानुसन्धानंचएवसर्वग्रन्थानांसारम् ।
मुखेअखण्डंरामनाम । अन्तःकरणेअनुसन्धानम् । एतत्एवपरमार्थसारम् ।
डिसे.१५ –नामस्मरणेअवस्थितःजनःअवितथंदर्शनंप्राप्नोति । श्रीकृष्णपरमात्माअपिदेहंत्यक्तवान्ननु?यद्यपिसःनिराकारः,तथापियदासःसाकारःअभवत्,तदातेनसर्वंप्राप्तम् । रूपंप्राप्तं,गुणाःप्राप्ताःसर्वंप्राप्तम् । सर्वेव्यवहाराःकरणीयाः । तथैवसाकारत्वेनतस्यमरणम्अपिवर्तते । श्रीकृष्णःव्यवहारानुकूलम्अवर्तत । वस्तुतःसःनागतः,गतःवा । तस्यतुगमनागमनंनवर्ततेएव । सःशाश्वतः । साकारंद्रष्टुम्इच्छामः,परंतदेवनसर्वस्वम्इतिज्ञातव्यम् । भगवन्तंद्रष्टुम्इच्छामःचेत्शरीरेनद्रष्टव्यम्इतिश्रीकृष्णःउद्धवम्अकथयत्,ज्ञानंतस्मैदत्तवान्च । उद्धवेज्ञातवतिसतिगोपीःगत्वातासांसमाधानंकुर्यात्इतिश्रीकृष्णःउद्धवंसूचितवान् । सःगोकुलंगत्वागोपीःउक्तवान्,भवत्यःश्रीकृष्णदेहंप्रीतवत्यः । इदंनयोग्यम् । भवतीभिःप्रमादःकृतः । ”तदागोप्यःउक्तवत्यः,भवतःवेदान्तंयत्रकोऽपिनवर्ततेतत्रगत्वाकथयतु । श्रीकृष्णंदेहेदृष्ट्वायत्वयंलब्धवत्यःतत्वयमेवजानीमः । भवान्लब्धुंनशक्नोति । ”गोपीभिःश्रीकृष्णेदेहंविस्मृत्यप्रेमकृतम् । अन्यत्सर्वंताभिःतुच्छीकृतम् । तेनश्रीकृष्णेतासुप्रेमकरणम्अनिवार्यतयाआपतितम् । गोप्यःतम्अनन्यशरणंगतवत्यः । तथैवप्रेमअपेक्ष्यते । यःनामजपति,सःएवभगवतास्मर्यते,दर्शनंप्राप्नोतिच । प्रतिदिनंतत्दर्शनंतेजोमयं भवति । देहदर्शनंविस्मर्यते । अतःनामजपतु । तेनअवितथंदर्शनंभविष्यति । सगुणविग्रहःसततंनिकटेभवितुंनार्हति । परंतस्यचिह्नंभगवन्नाम्निवर्तते । अतःनामजपनेनभगवत्सन्निकर्षःआगतःइव । सगुणेवर्तमानेसतिभगवान्रावणस्यदुर्योधनस्यवाबुद्धिंपरिवर्तयितुंनशक्तवान् । सगुणावतारःवासनांबुद्धिंवापरिवर्तयितुंनशक्नोति । सद्बुद्धेःउत्पादनसामर्थ्यंकेवलंभगवन्नाम्निएववर्तते । व्यवहारेअपिगतेरूपेनामअवशिष्यते । अतःरामकृष्णादयःगताःपरंकेवलंनामअवशिष्टम् । नामस्थिरम् । रूपंसततंपरिवर्तते । कलियुगेसगुणावताराभावेअपिनामावतारःवर्तते । सःएवतारकः । नाम्नःकृतेनामजपतु,तेनतस्मिन्रामःवर्ततेइतिज्ञायते ।
भगवान्किंयाचनीय:?‘भवतःप्रेमएवमयिभवेत्’इदमेवयाचनीयम् ।
डिसे.१६ –नामजपेनएवपरमेश्वरदर्शनंभविष्यति । गङ्गायाः,अन्यस्याःकस्याःअपिनद्याःवाउद्गमंपश्यामःचेत्एकैकंबिन्दोःनिस्सरणंतत्रदृश्यते । पूर्वपुण्येनजीवनेपरमार्थोद्गमःअपिएतादृशःक्षीणःपरंस्वच्छःभवति । अग्रेसःएवनिर्झरःनद्यांपरिणमते । बहुषुस्थानेषुवहन्त्याःतस्याःजलंमलिनंभवति । तद्वत्अस्माकंजीवनम्अपिव्यवहारेवर्तमानैःगुणदोषयुक्तैःविषयैःमलिनीभवति । परंयथास्फटिस्पर्शेनजलेस्थितःपङ्कःपात्रतलम्आगच्छतितद्वत्कर्मणिवर्तमानेसतिनामजपंकुर्मःचेत्कर्मणःगुणदोषाःतलेस्थास्यन्तिउपरिनिर्मलजीवनस्यप्रत्ययःआयातिच । कश्चनस्मश्रुयुक्तःमुनिःपरमार्थविषयेकिमपिवदतिचेत्तंविश्वासेननिर्भयेनचवदन्तुयन्नामजपेनविनापरमार्थःनभवितुमर्हति । कर्मणिसतिनामजपंकुर्वतासमाधानेनभवितव्यम्इत्येवपरमार्थः । भगवतिप्रीणातुं,तस्यविषयेआत्मीयताम्अनुभवितुंचनामसदृशंसाधनंनवर्तते । आत्मीयतायाःप्रेमकियत्वर्तते!कश्चनपुत्रःमातृसमीपेनिवसतिस्म । तस्यविवाहःजातः । पत्नीमेवसःआत्मीयाम्इतिमन्यते, तस्याःविषयेतस्यमनसिप्रेमउत्पद्यते । अथसाकृशाजाता । सासुज्ञानवदतिइतिसःचिन्तयति । मातातांपीडयतिइतिमत्वासःमातुःविलग्नःजातः । ममत्वेनकथंप्रेमउदपद्यतइतिपश्यन्तु । ततःपरमेश्वरम्आत्मीयंकर्तुंनामजपःकरणीयः । रामप्रेमतस्यनाम्नासहवासेनएवलब्धुंशक्यते । ग्रन्थपठनमात्रेणपरमार्थवक्तारःलभन्ते, परम्आचरणंकुर्वाणाःवक्तारःदुर्लभाः । कियान्अपिप्रपञ्चःकृतःचेदपिअपूर्णःएव । कञ्चित्वृद्धंपश्यामः । वस्तुतःतस्यसंसारःजातः, पुत्रादयःसन्ति, सर्वथासःसुखीवर्तते, परंदेहान्तसमयेवदतियत्पौत्रस्यउपनयनदिदृक्षावर्तते । वासनायांमनुष्यःकथम्आसक्तःवर्ततेइतितस्यइदम्उदाहरणम् । कियन्तम्अपिसंसारंकुर्मःचेत्अपूर्णःएव । सःपूर्णःभवितुंनार्हति । मनुष्यजीवनस्यव्याकुलतापरमेश्वरप्राप्तिंविनानशमते । परमेश्वरमेलनेनएवसःसमाहितःभवितुमर्हति । अतःबाल्यकालेएवनामजपंप्रारभताम् । इदमेवनाममृत्युसमयेभवतःपरमेश्वरेणमेलनंनिश्चयेनकारयेत् । गुह्यात्परमंगुह्यम्अहंभवतःकथयामि । नामजपेप्रीणन्तुइदमेवतत्गुह्यम् ।
अस्माकंयाच्ञापूरणीयाचेत्भगवताचतुर्विंशतिंघण्टाःकार्यंकरणीयंभवेत् । तथाकरणेनअपिअस्माकंयाच्ञाअपूर्णाएव ।
डिसे.१७ –सर्वदुःखानांमूलंवर्ततेदेहबुद्धिः । परमार्थविषयःवस्तुतःकठिनः,परंसर्वेषांकृतेआवश्यकः । यःइमंविषयंज्ञातुम्इच्छतिसः‘कोऽहम्’इतिएतस्यअपेक्षया‘कोऽहंन’इतिजानीयात् । केनचित्मार्गेणगच्छन्तःवयंयदिमार्गच्युताःजाताः,कमपिभिन्नमार्गंप्राप्तवन्तःच,तर्हिअग्रिमाःसर्वेव्यवहाराःदोषयुक्ताःभविष्यन्तिएव । प्रमेयोद्घाटनसमयेकस्मिंश्चित्अङ्केप्रमादःजातःचेत्सम्पूर्णेप्रमेयेप्रमादःभवति । रोगस्यनिदानंसम्यक्नजातंचेत्औषधियोजनावृथाभवेत् । तद्वत्मनुष्यस्यसामान्यगुणधर्माणाम्आकलनंसम्यक्नभवतिचेत्तदवलम्बितंपरमार्थमार्गावगमनंबहुदुष्करम् । मयाआनन्देनसदाभवितव्यम्इतिसर्वेमन्यन्ते । एषःप्रथमःगुणधर्मः । अस्मिन्आनन्देचिरन्तनत्वंभवेत्,न्यूनातिन्यूनम्आनन्दस्यअपेक्षायांचिरन्तनत्वंभवेत्इतिवयंमन्यामहे । वस्तुतःमरणंकस्मैअपिनरोचते । जीवनस्यएषणावाचिरन्तनस्यअपेक्षावासर्वेषांवर्तते । परमेश्वरःआनन्दरूपः । सःचिरन्तनः । सःअस्मासुअंशरूपेणवर्तते,अतःवयम्अपितथैवभवितुम्इच्छामः । परम्आरम्भेएवअस्माकंप्रमादःजातः,तेनअग्रिमाःव्यवहाराःअपिदूषिताः । कस्यचित्प्राङ्गणेस्थितःवृक्षःपतितःचेत्सःममवृक्षःपतितःइतिवदति,परंतस्यदेहान्तेतस्यशरीरंपतितम्इतिनोक्त्वावयंसःमृतःइतिवदामः । अथमूलतःप्रमादःयत्वयम्आत्मानंदेहंमन्यामहे । देहःममएवइतिमत्वातस्मिन्प्रीणीमः । एषःप्रथमःप्रमादः । अथतस्यगुणधर्माःइत्युक्तेविकाराःअस्मान्लगन्तिचेत्तान्एवसंवर्धयामहे । एषःद्वितीयःप्रमादः । एतेषांलग्नानांविकाराणांसंवर्धनम्अस्थगयित्वातेषांपृष्ठतःअनुधावामःतदर्थम्अस्माकंबुद्धिंयुञ्ज्महेचेतितृतीयःप्रमादः । अनयापद्धत्याप्रमादेनप्रमादस्यवर्धनेनसर्वंजीवनम्एवअव्यवस्थितंभवति । वृक्षःकर्तनीयःचेत्आदौतस्यशाखाःकर्तनीयाः,अनन्तरंकाण्डंकर्तयन्ति । नीतिधर्मेणवर्तनीयम्इत्युक्तेविचाराणांशाखाःकर्तनीयाःइव । अनन्तरंयोजनासगुणभक्त्याः । तदामनुष्यःक्षणंवाआत्मानंविस्मरति । ‘अहंतवएव’इतिवदति । भगवतासहवासःसदानाम्निएववर्तते । सदैवनामजपनेनदेहप्रेमसहजंनश्यति । देहेनरचितेप्रपञ्चेविद्यमानंप्रेमअपिन्यूनीभवति । तदनुसःसर्वत्रभगवन्तम्एवपश्यति । इतःपरंजीवामिचेत्नामस्मरणमेवकरोमिइतिनिश्चयंकुर्वन्तु । अहंविश्वसिमियत्रामःभवत्सुकृपांकरिष्यतिएव ।
अहंकोऽपिनास्मि । सर्वंरामःएव । ‘अहंरामस्यअस्मि’इतिमधुरभावनायांभवन्तु ।
डिसे.१८ - चिन्ताकरणीयाचेत्नामजपस्यएवकुर्वन्तु । अद्ययत्दुःखकरंतत्श्वःसुखकरंवर्ततेतथाचयत्अद्यसुखकरंमन्यतेतत्श्वःदुःखकारकंवर्ततेइतिवयंपश्यामः । भवन्तःयत्सुखदुःखंप्राप्नुवन्तितत्भगवतःआयातिइतिमन्यन्तेचेत्दुःखस्यकारणंकिम्?यावत्अन्यैःदत्तंदुःखंभगवताएवदत्तम्इतिनमन्यामहेतावत्वयंभगवतःनस्मः । वयंकदाबिभीमः । यदाआधारःनश्यतितदायत्यत्भवतितत्रामस्यइच्छयाभवतिइतिमन्तव्यम् । आपदःदेवेनआनीताःचेत्ताःसोढुंशक्तिंअपिसःएवददाति । समर्थस्यआत्मीयेनभूत्वाकिमर्थंभेतव्यम् । समर्थस्यआत्मीयैःआपद्भ्यःनभेतव्यम् । साक्षात्आपन्निवारणंकर्तुंशक्यतेचेत्कस्मात्भेतव्यम् । वस्तुतःयत्नवर्ततेतत्भयंभवन्तःमनसानिर्मान्तिएतदर्थंकिंवदामः । चतुरङ्गक्रीडायांकाष्ठसैनिकःम्रियतेचेत्किमर्थंदुःखम्?व्यवहारेतथावर्तनीयम् । सुखेननउल्लसितव्यंदुःखेननक्षोभनीयम् । एतादृशेनभवितुंमनसाशान्तेनभवितव्यम् । यावत्अहंकर्ताइतिभावनाविद्यतेतावत्सुखदुःखान्दोलाःवर्तन्तेएव । अतःकर्तृत्वंरामायदत्त्वादेहेनकर्तव्यंकृत्वामनसाशान्ततयाभवितव्यम् । परिस्थित्याःपरिणामःमममनसिनभवेत्इतिप्रार्थनीयम् । परिस्थितिम्एवपरिवर्तयतुइतिनअभ्यर्थनीयम् । यथाविषंरक्तेनसम्मिलतितथाचिन्ताअस्माकंशरीरेणसम्मिलितावर्तते । उपरिऔषधलेपनेननलाभायते । एतदर्थंभगवदनुसन्धानस्यसूच्यौषधिःअपेक्ष्यते । यैःदुर्गुणैःभगवतःविस्मरणंभवतितेषांसंग्रहःनामचिन्ता । चिन्तामहान्रोगः । अनेन रोगेण उदरं पूर्णं भवतिचेत्क्षुधाम्रियते । यस्यचिन्ताअधिकातस्यहृदयम्आनन्दःनप्रविशति । अस्याःचिन्तायाःपितरौकौ?देहबुद्ध्याचिन्ताबाधते । देहबुद्धिःइत्युक्तेवासना । वासनाअहंकारःचचिन्ताया: मातापितरौ । एतादृशौविचित्रस्वभावौमातापितरौ,अतःपुत्रीविलक्षणा । मातापुत्र्योःमृत्युःयुगपत्भवति । वासनाचिन्ताचद्वेयुगपत्म्रियेते । वस्तुतःएकाएवअवस्थाकदापिचिरकालंनवर्ततेअतःवयंबिभीमः । ततःचिन्ताउत्पद्यते । चिन्तायावत्अस्मान्मारयतितावत्नामतारयति । तथापिवयंचिन्ताम्एवनिगृह्णीमःएतदर्थंकिंवदामः?अस्माकंयावान्समयःचिन्तायांगतःतावान्वृथागतःइतिअवगन्तव्यम् । यदिचिन्ताकरणीयातर्हिनामानुसन्धानंकथम्अनुवर्तनीयम्इतिएतस्यकरणीया ।
नामजपस्यएवचिन्तांकुर्वन्तु । तेनचिन्ताकरणस्यप्रसङ्गःएवनागच्छेत् ।
डिसे.१९ –वेदान्तःप्रतिदिनम्आचरणीयः । भगवदुपासनांकुर्वाणाःऋषयःएतादृश्याम्अवस्थायांवर्तन्तेयत्परमेश्वरःसर्वंकरोतिइतितेषांभावनास्पष्टतयाप्रकटीभवति । भगवतासहएकरूपताप्राप्तेःअनन्तरम्एवएषाअवस्थावर्तते । ऋषीणाम्अहङ्कारःनष्टःअतः‘अहंकरोमि’, ‘वदामि’, ‘काव्यंकरोमि’वाइतिभावनातेषांमनसिनविद्यते । परमात्माकरोति, वदति, मन्त्रंरचयतिचइतिस्पष्टम्अवितथंचतेअनुभवन्ति । अस्यांश्रेष्ठायाम्अवस्थायांतेषांमुखात्वेदमन्त्राःनिर्गताः । अतःतेमानवानांरचनाःन । वेदाःअवितथम्अपौरुषेयाः । गृहछद्याःअधःसर्वेप्रकोष्ठाःभवन्तितथासर्वाणिशास्त्राणिवेदान्तेवर्तन्ते । वेदान्तज्ञानंभोजनेमधुरम्इव । यःकेवलंवेदान्ताध्ययनंकरोतितस्यनबहुलाभः । वेदान्तःप्रत्यक्षम्आचरणेअपेक्षितः । वस्तुतःविद्वांसःवेदान्तंकठिनंकृत्वाजनान्वृथाभ्रामयन्ति । तेनसामान्यजनाःचिन्तयन्तियत्वेदान्तःनअस्माकंकृतेवर्तते । वास्तविकंवेदान्तःसर्वेषांकृतेवर्तते । मनुष्यमात्रार्थंवर्तते । वेदान्तेनविनाजनःनजीवितुंशक्नोति । अस्माकंसङ्कुचितंमनःविशालंकरणीयं, स्वार्थिभिःअस्माभिःनिःस्वार्थिभिःभवितव्यंचेतिवेदान्तस्यमुख्यंकार्यम् । भगवत्प्राप्तेःनियमाःतथावस्तुप्राप्तेर्नियमाःभिन्नाः । मनसिवासनाउत्पद्यतेचेत्तस्याःपूर्त्यर्थंदेहस्यवस्तूनांचचेष्टाकरणीयाइतिव्यवहारः । सूक्ष्माःवासनाःदेहसाहाय्येनजडाःभवन्तिइतिव्यवहारस्यस्वरूपम् । एतस्यविपरीतंयत्अतिसूक्ष्मत्वेनभगवतःप्राप्तिःइत्युक्तेजडात्सूक्ष्मत्वंप्रतिगमनम् । भगवत्प्राप्तेःसाधनंजडात्सूक्ष्मत्वंप्रतिनयतिइतिभवेत् । जडदेहसम्बन्धितथाचसूक्ष्मस्यनिकटेविद्यमानंसाधनंवर्ततेएकंनाम । यःनामजपन्भवतितस्यवासनाक्षीयते । बहुधाउत्तमाःअधिकारिणःजीवाःकयाचित्लघ्व्यावासनयाप्रतिबद्धाःभवन्ति । अथतेअध्यात्मदृष्ट्याउत्तमेषुकुलेषुजनिंप्राप्नुवन्ति । तत्रतेषांवासनातृप्तिःशीघ्रंभवति । बाल्यकालेएवतेदेहंत्यजन्ति । तेषांमृत्योःदुःखंनकरणीयम् । वासनातृप्तेःउपायःभगवत्समीपेवासः, नान्यः । वासनानष्टाचेत्बुद्धिःभगवत्स्वरूपाभवति । यदावासनाशमतेतदाभगवत्कृपाभवति ।
प्रत्येकंवेदमन्त्रस्यआरम्भे‘हरिःओम्’वर्ततेतत्नामएव ।
............. डिसे.२0 –नाम्निभवतुचित्तं । तदेववर्ततेसत्यम् । प्रारब्धानुगुणंदेहगतिः । तत्रनभवतुमनोवृत्तिः ॥ प्रारब्धेनएवदेहगतिः । तेननपरिवर्तयतुस्ववृत्तिः ॥ देहःप्रारब्धेनप्रवर्तते । भोजयतिसुखदुःखे ॥ यत्यत्कृतं । तत्तत्फलितम् । अतःदेहगतिः । कोपिनपरिवर्तुमर्हति ॥ पाण्डवाःपरमात्मसुहृदः । परंवनवासात्नमुक्ताः । . सुदामाभगवत्सखा । किन्तुआसीत्दरिद्रः ॥ अतःदेहःप्रारब्धेस्थापनीयः । यत्भवेत्तेनआनन्दःमन्तव्यः ॥ दुःखंप्रारब्धेनप्रवर्तते । सुखंतम्अनुवर्तते ॥ द्वयमपिनगणनीयं । नामस्मरणंकरणीयम् ॥ चेतःभगवति । प्रारब्धंनविक्षेपयति ॥ देहभोगःदेहेभवन्तु । विनाकष्टंरघुनाथंस्मरन्तु ॥ विहितंकर्मकरणीयं । भगवदधीनंतस्यफलम् ॥ साधवःदेवाः । नप्रारब्धात्मुक्ताः ॥ जीवनाघाताः । प्रारब्धाधीनाः । तस्मिन्नभवतुसमाधानं । रामस्मरणेएवसमाधानम् ॥ प्रारब्धेनआगतःदुष्टसङ्गः । रामकृपयाअपाकृतः । मुखेसदाभवतुनाम । अन्यत्नास्तिकिमपिपुण्यम् ॥ नाम्निभवतुचित्तं । तदेववर्ततेसत्यं । मनसिएषःनिश्चयः । निभ्रान्तंतेनमनः ॥ कर्तव्येतत्परता । नामजपनेनिरन्तरता ॥ नामप्रेमरक्षणीयं । यथाकृपणःरक्षतिधनम् । यतःनामएवतारकम् ॥ मुखेरामनामजपनीयं । बहिःप्रपञ्चकार्यंकरणीयम् ॥ एवंमनसारामंयोजयतु । दुःखलेशःअपिनभवतु ॥ अद्यपर्यन्तंवासनाधिष्ठानं । नामप्रेमइतःपरम् ॥ यदिपूर्वपुण्यम्अपारं । तर्हिरामनाम्नामनःपूर्णम् ॥ नसहतेरामनाम । तस्यगतिःअधमाधमा ॥ निर्हेतुकंनामस्मरणं । तेनआत्मारामेणमनःपूर्णम् ॥ नामविनायत्साधनं । तत्कष्टस्यकारणम् ॥ शरीरंवर्ततेनश्यं । कथितंनामसत्यम् ॥ बुद्धिःभवतुस्थिरा । नाम्निप्रेमगङ्गाअनिवारा ॥ नामस्मरणेआगताःविचाराः । नाम्नाएवअपाकरणीयाः । नामस्मरणेनिदिध्यासः । नभवतुमनसिविचारःस्थूलः ॥ अखण्डंभवतुसमाधानं । एतदेवपरमार्थचिह्नम् ॥ जगन्नियन्ताभवतुआत्मीयः । अन्येगतागताःबहवः । मनसितस्यनभवतुपरिणामः ॥ परमार्थस्यएकःएवउपायः । अनुसन्धानौघःअखण्डः ॥
देहःप्रारब्धेत्यक्तव्यः । मनसिरामःप्रस्थापनीयः ॥
डिसे.२१ –भगवतःसाधनंप्रपञ्चार्थंनकुर्वन्तु । कश्चनबालकःगृहात्पलायितः । तदातस्यमाताअवदत्,‘कुत्रापिभवतुसःसुखीभवतु । ’तद्वत्भवन्तःकुत्रापिभवन्तु, नामजपेभवन्तु । बलेननामजपन्तु । श्रद्धयाजपन्तिचेत्अधिकम्उत्तमम् । वृत्तिम्अनुवर्त्यनामजपंकुर्वन्तिचेत्इतोऽपिउत्तमम् । कस्याश्चित्वनस्पत्याःरसंनिष्कासयितुंमधुमेलनंकुर्वन्ति । क्वचित्दुग्धं, घृतं, जलंवामेलयन्ति । तद्वत्भगवत्प्रेमलब्धुंनामजपेरुचिम्उत्पादयितुंचनामजपनेस्वल्पांश्रद्धांमेलयन्तु । ‘अहंब्रह्मास्मि’इतिएतस्यांभावनायाम्अपिअहंकारःवर्तते । नामततःपरंवर्तते । अतःभगवन्नामसततंस्मर्तव्यम् । तेनप्रपञ्चःसरलःभवति । नामजपस्यशासनंबहुबलवत् । जगतिनकिमपिपापंभवेत्यत्नामजपेनननश्यति । नामतस्यशत्रुमपिसाहाय्यंकरोति । अस्मान्अपिसाहाय्यंकुर्यात्एव । रुपध्यानंयदिनभवतितर्हिनामजपःनत्यक्तव्यः । गच्छताकालेनरूपम्अपिसहजम्अनुवर्तेत । सत्यस्यकिमपिरूपंकल्पयित्वातस्यअनुसन्धानंनकर्तुंशक्नुमः । नामतस्यरूपम् । अतःसततंनामानुसन्धानंकरणीयम् । भगवन्नामजपःमूल्यंनापेक्षते,अतःतत्नअपूर्णम् । अज्ञजनान्सूचयामःचेत्तेअनुक्षणंजपम्आरभन्ते । परंविद्वांसःप्रेमवर्ततेचेत्‘जपंकरोमि’इतिवदन्ति । विषयसर्पाणांविषम्अद्यापिननष्टम्,अतःभगवतःअमृतमधुरंनामअस्मभ्यंनरोचते । अतःअनुक्षणंनामजपःआरभणीयः । रामस्यआत्मीयाःभूत्वातस्मैयत्रोचतेतत्कुर्याम । ज्ञात्वान, परम्अज्ञात्वारामंशरणंगच्छामः । भगवान्अनन्यशरणंगत्वाअनुभवितव्यः । नीत्यावर्तनीयम् । भक्तिःसम्यक्करणीया । तेनरामःप्रसन्नःभवति । ज्ञानम्उत्तमम् । परंतत्भक्तिंविनानजीवति । यतोहिभगवतःनकदापिविभक्तःसःभक्तः । ज्ञानेभगवतासहअनन्यत्वंवर्तते । अतःभक्तितःज्ञानम्उत्पद्यते, तत्भक्त्याजीवतिच । वास्तवःभक्तःज्ञानीएव । भगवतःकृतेभगवान्इच्छतिइतिएतादृशींभक्तिंकुर्वाणःभक्तःविरलः । वास्तवाभक्तिःएषाएव । नामजपस्यकृतेनामजपःकरणीयः । रामःयथास्थापयतितथाअस्माभिःसमाधातव्यम् । भगवान्प्रपञ्चसाधनंनकरणीयः । सःसाध्यःभवेत् । येनभगवन्नामजपेजीवनंव्यतीतंतेनसर्वंसाधितंस्वजन्मनःसार्थकंकृतंच ।
ज्ञानीभूत्वानामजपनं, भक्तःभूत्वानामजपनंवासमानमेव । उभयत्रभगवत्प्रेममुख्यम् ।
डिसे.२२ –कस्मिन्नपिप्रसङ्गेनामजपंनत्यजन्तु । आकाशात्भीत्वापलायितःचेत्क्वअपिआकाशंवर्ततेएव । तद्वत्कुत्रापिगतःचेत्देहःमनःच,ताभ्यांसहतयोःभोगाःअपिअस्माभिःसहआयान्ति । अतःअस्माकंकृतेप्राप्तान्कर्मभोगान्समाधानेनभोक्तुम्अस्माभिःशिक्षणीयम् । ‘प्रायतिष्येचेत्सम्यक्अभविष्यत्’इतियावत्मन्यतेतावत्प्रयत्नाःअवश्यंकरणीयाः । यशः,अपयशःवापरमात्माददातिइतिमत्वाप्रयतनीयम् । सर्वंकर्तृत्वंतस्यएवेतिचिन्तनीयम् । भवतःसेवाकियत्कालंकरणीयाइतिपरमेश्वरंप्रतिप्रश्नकरणम्इत्युक्तेसेवायांन्यूनताएव । तथैवनामजपनेअवधिःकथंनिश्चिनोतुंशक्नुमः?विषयाःकियत्कालंभोक्तव्याःइतिनवदामःननु?अतःनामजपविषयेकिमर्थंवदाम?अधुनाभगवान्एकस्मिन्कोणेवयम्अपरस्मिन्कोणेस्मः । नामजपेनसःसमीपम्आननीयः । यावत्देहविस्मरणंभवेत्तावत्भगवान्निकटम्आयाति । भगवन्नाम्निएवसत्सङ्गःवर्तते । प्रपञ्चेकेपिप्रसङ्गाःआगच्छेयुःभवन्तःनामजपंनत्यजन्तु । रिक्तंमनःविषयान्अनुधावतिइतिअवधातव्यम् । अतःअस्माकंमनःसदाकुत्रापियोजनीयम् । उत्थानम्, उपवेशनं, जपनं, पठनं, जल्पनं, विनोदनंचेतिसर्वासुक्रियासुभगवतासहसम्बन्धः, सन्दर्भःचस्थापनीयः । इदम्एवभगवदनुसन्धानम् । भगवदनुसन्धानम्अस्माकंध्येयम् । अन्येविषयाःतदनुकूलाःकरणीयाः । अस्माकंवृत्तिःभगवान्चेतिएतयोःयोजयन्तीशृङ्खलावर्ततेभगवन्नाम । अतःअस्माकंवृत्तिःसदानाम्नियोजनीया । नामानुसन्धानम्अनुवर्तयन्तीम्उपाधिम्एवअङ्गीकुर्याम । नामजपमात्रेणकार्यंभवति,परम्अर्थंज्ञात्वाशीघ्रंभवेत् । नाममुखेभवतिचेत्सत्कर्माणिसहजंभवन्ति । अस्माकंप्रत्येकंकर्मणःसाक्षीरामःवर्ततेइतिमत्वावर्तनीयम्तेनदुष्कर्माणिनैवभवन्ति । वयंवृथाकारणानिवदामः । कर्मसफलंभवतिचेत्तस्मिन्, नभवतिचेत्व्यर्थजल्पने, अन्यथाकस्यचित्निन्दास्तुतौकस्यामपिक्रीडायांवाव्यर्थंसमयंयापयामः । तथानकरणीयम् । अस्माकंमनःउन्मत्तम् । तत्एकस्मिन्स्थानेसुखेननतिष्ठति । तस्यतथाअभ्यासःनास्ति । स्वल्पेनबलेनतस्मात्नामजपःकारणीयः । नामजपेविद्यमानेसतिभगवत्शक्त्यानामजप्तुःदेहबुद्धिःक्रमेणक्षीयते, नामस्थिरायतेच । नित्यनामस्मरणंविनाअन्तेनाममुखेनभवेत् । जागृतावस्थायाम्अभ्यासंकुर्मःचेत्निद्रासमयेस्मरेत् । निद्रासमयेस्मर्यतेचेत्रात्रौस्वप्नेदृश्येत, एषःनिदिध्यासःभवतिचेत्मरणसमयेतदेवस्मरेत् ।
नामजपंकुर्वन्एतादृशःतद्रूपःभवेयंयत्नामजपंकरोमिइतिअपिविस्मरेयम् ।
डिसे.२3 –नामरूपाद्व्यापकंवर्तते । चिन्तयन्तु, यदिअहंभवतःपृच्छामि,आनन्द:इत्युक्तेकिम्?”अथभवन्तःकमपिसानन्दंबालकंदर्शयित्वावदिष्यन्ति,पश्यतुआनन्दःअत्रवर्तते । ”नैतावत्एवअपितुतादृशान्प्रमुदितान्बिडालशावकान्,कूर्दतःवत्सान्,हसतःस्त्रीपुरुषान्,पल्लविताःलताःचदर्शयित्वा,अत्रआनन्दःवर्तते”इतिभवन्तःवदिष्यन्ति । परंममप्रश्नस्यइदंवास्तवम्उत्तरंनास्ति । आनन्दवस्तूनिकानिइतिममप्रश्नःन,परंममप्रश्नःवर्ततेआनन्दंमांदर्शयन्तुइति । बालकःयदिआनन्दःतर्हिस्त्रीपुरुषाः,आनन्दयुक्ताःनभविष्यन्ति । अर्थात्आनन्दःएकःएव । यतोहिसर्वत्रदृष्टम्आनन्दंवर्णयितुं वयम्एकमेवशब्दंयुञ्ज्महे । यंयंमनुष्यंपश्यामःतंतंप्रत्येकंवयंमनुष्यःइतिएववदामः । यतोहिप्रत्येकंमनुष्येमनुष्यत्वंसमानम्एववर्तते । यद्यपितत्नेत्राभ्यांन दृश्यतेतथापिमनसाअवगन्तुंशक्यतेतथातस्यअस्तित्वंमनुष्यःइतिशब्देनप्रकटीभवति । मनुष्यत्वम्एषःशब्दःवर्तते,नामवर्तते । रूपस्यअस्तित्वंनाम्नावर्तते । प्रत्येकंवस्तुन:बाह्यरूपंतस्यनाम्नासंलग्नंभवति । आनन्दवस्तूनिबहूनिसन्तिपरंतेषुविद्यमानःआनन्दःएकःएव । नैकंपरंबहूनिरूपाणिआगच्छन्ति,गच्छन्तिपरंनामावशिष्टंवर्तते । अद्ययावत्अवनीतलेअसङ्ख्याःस्त्रीपुरुषाःजाताःमृताश्चतथापिमनुष्यत्वंयथाआसीत्तथैववर्तते । एतंनियमंसर्वत्रयोजयामःचेत्सुन्दराणिवस्तूनिआगतानि,गतानि,परंसौन्दर्यंसततंवर्तते । आनन्दवस्तुनिआगतानि,गतानि,परमानन्दःचिरन्तनः । लक्षशःजीवाःआगताः,गताः,परंजीवनंशाश्वतम् । रूपाणिनैकानिपरंनामएकमेव । इत्युक्तेनामअनेकेषुएकत्वेनअवतिष्ठति । एतस्यअर्थःएषःएवयत्नामरूपात्व्यापकंवर्तते । रूपंनाम्नःभिन्नंनभवितुमर्हति । नामरूपंव्याप्यअवशिष्यते । नामदृश्यात्परंसूक्ष्मंच । तेनतस्यउत्पत्तिःविनाशः,वृद्धिः,क्षयः,देशकालमर्यादाचेत्यादयःकेऽपिविकाराःनसन्ति । अतःनामपुराआसीत्,अद्यवर्तते,श्वःभविष्यतिच । नामसत्स्वरूपम् । नाम्नःनैकानिरूपाणिउत्पद्यन्तेतस्मिन्निमिलन्तिच । शुद्धपरमात्मस्वरूपस्यअत्यन्तंनिकटंकेवलंनामवर्तते । अतःनामजपनेभगवान्अस्माकंसमीपेइववर्तते ।
ममभाषणंसर्वेजानन्ति । यस्ययथासिद्धतातथासःजानाति,परंकिमपिवृथानगच्छति ।
डिसे.२४ –अनन्यतांविनाभगवत्प्राप्तिःनभवति । सत्पुरुषैःसाकम्उशित्वामनुष्येणआज्ञापालनंनशिक्षितंचेत्तेनकिमपिनशिक्षितम् । यःआज्ञांपालयतितस्यकृतेभोगभुञ्जनंभवेत्एव, परंतस्यसौकर्यानुकूलंभवति । प्रारब्धस्यबलंविलक्षणंवर्तते । भोगभुञ्जनसमयेबुद्धिःपरिवर्तते । तदाअस्माभिःसावधानैःभूत्वासत्पुरुषवचनम्अनुवर्त्यतेचेत्भोगबलंमन्दायते । प्रारब्धेनबुद्धौकेऽपिविचाराःउत्पद्येयुः, तथावर्तनीयंवानवाइतिअस्माकंहस्तेवर्तते । अतःएवमनुष्यःश्रेष्ठः । बुद्धेःनियमनंकर्तुम्आज्ञापालनमेवसर्वोत्कृष्टंसाधनम् । विकाराःमूलतःनत्यक्तव्याः । तेभगवतादत्ताः । अतःजीवनेतेषांकृतेयोग्यंस्थानंवर्ततेएव । किंबहुनाव्यवहारेविकाराःअपेक्ष्यन्ते । केवलंतेअस्माभिःअधिकारेणउपयोक्तव्याः । विकारैःअस्मासुअधिकारःनसंचालनीयः । विकारान्वयम्उपयुञ्ज्महे । नतुविकाराःअस्मान्उपयुञ्जेरन् । आदौप्रपञ्चवस्तुनःकृतेभगवन्तंप्रीणेय़ुः । सातत्येनप्रेमवर्धनीयम् । अथतेनवस्तुनःमहत्त्वस्यप्रशमनेनभगवान्एवअवशिष्येत । भगवन्तम्एकदाधरामःचेत्नत्यक्तव्यः । तस्यनामजपेनइदंसिद्ध्यतिअतःअहंसततम्इदंवदामि । प्रपञ्चेवयंकियत्कष्टंकुर्मः । तादृशंप्रतिफलमपिनलभ्यते । परमार्थेतथानास्ति । यावत्कुर्वन्तितावत्समाधानंवर्धते । ज्ञानमार्गःकर्ममार्गःभवेत्वा, वास्तवः‘अहंकः’इतिज्ञातुम्एवसर्वाणिसाधनानिसन्ति । अद्यअस्मासुमिथ्या‘अहं’प्रभावीवर्तते । तत्प्राबल्यंनाशनीयम् । मिथ्या‘अहम्’अपगच्छतिचेत्‘सत्यःअहम्’आननीयःनभवति । प्रत्येकम्अन्तःकरणेसःस्वतःसिद्धः । मिथ्याहंहन्तुंभगवतःदास्यत्वम्अपेक्ष्यते । अनन्यतांविनाभगवतःप्राप्तिःनवर्तते । तस्याम्एवभक्तिःजनिंप्राप्नोति । नामस्मरणंभक्तिमार्गस्यमुख्यंसाधनम् । नामस्मरणेनभगवतःप्रेमसहजम्उत्पद्यते । तत्भवन्तःनिष्ठयाआनन्देनचकुर्वन्तुइतिममकथनम् ।
किमपिकुर्मःचेत्नामजपंविनानगतिः । अतःतत्कर्तुंकिमर्थंविलम्बःअलसःवा?
डिसे.२५ –भगवत्स्मरणम्एवप्रत्येकंसाधनायाःरहस्यम् । कस्माच्चित्ग्रामात्द्वौसर्वकारस्यवृषभशकटौप्रस्थितौ । एकस्मिन्शकटेसुवर्णनाणकयुताःस्यूताःआसन् । अपरस्मिन्शकटेवास्तुशिलाःआसन् । आदिनंप्रवासंकृत्वायानेतालुकानगरंप्राप्तेसतिचालकेनवृषभाःमोचिताःसुवर्णं, वास्तुशिलाःचअधिकारेभ्यःदत्ताः, वृषभेभ्यःआहारार्थंयवग्रासःअपिदत्तःच । तद्वत्भगवतःकृतेविद्वान्अज्ञःचसमानौ । सुन्दरविचाराणांभारेमस्तकेवर्तमानेसतिविद्वान्भगवत्प्रियःभवतिइतिन । विद्वान्भवतुवाअज्ञःभवतुवाआत्मानंनाशयितुंसमर्थःअहंकारःप्रत्येकंसमीपेवर्तते । विद्वासम्अहंकारःअधिकःमारकःइतिएव । जगतिविद्यायाःमहत्त्वंवर्तते, परंसासाधनरूपा । नतुसाध्यरूपा । विद्याभगवतःदासीभवेत् । बहुधाविद्वांसःव्यर्थचिकित्सयास्वायुःनाशयन्ति । सरलाः, मुग्धाः, अज्ञजनाःभगवन्नामजपन्आनन्देनउत्तीर्यदेवंगच्छन्ति । परम्एतेविद्वांसःभगवान्कथंवर्तते, तस्यगुणाःके, तस्यअस्माकंकःसम्बन्धः, तस्यनामजपःतंप्रतिप्रापयतिनवा, नामजपःकदाआरब्धः, कयावाण्यानामजपःकरणीयःचेत्यादीनांविषयाणांचिकित्सांकुर्वन्ति । ताम्एतावतींकुर्वन्तियत्देहान्तकालेचिकित्सामात्रंहस्तेअवशिष्टंभवति,नामजपानन्दःनलभ्यतेच । अतःसुज्ञजनेनयदिचिकित्साकरणीयाचेत्नामजपन्करणीया । अहंकारिणाजनेनप्रमादःकृतःचेत्भगवान्तस्मैप्रायश्चित्तंयच्छति । परंनिरहंकारिणाजनेनप्रमादःकृतःचेत्भगवान्तंबोधयति । चिन्तयन्तु, अद्यमत्तःप्रमादःभवति-ज्ञात्वाभवतितथापिवयंयदिपश्चात्तापेनभगवन्तंशरणंगच्छामःतर्हिसःनिश्चयेनक्षमांकरोति । अस्माकंसर्वम्अतीतंजीवनंतस्मैसमर्पयामःचेत्अनागतस्यसर्वंदायित्वंतस्मिन्आपतति । साधनायाःसर्वाणिकष्टानिप्रत्येकंभक्तेनस्वयमेवसोढव्यानिभवन्ति । गुरुःकियान्अपिश्रेष्ठःभवेत्सःकिमपिकर्तुंनशक्नोति । अधिकंचेत्सःकष्टानांज्ञानंपरिहरेत् । अस्माकंमनसःअस्माभिःएवनियन्त्रणंकरणीयंभवति । अस्माकंवृत्तिःअस्माभिःएवपरिवर्तनीयाभवति । साधनाकालेआगम्यमानाःअवस्थाःशान्ततयाअस्माभिःएवसोढव्याः । भगवन्तंप्रतिगन्तुंबह्व्यःसाधनाःसन्ति । साधनाकष्टानिकृत्वायत्सिद्ध्यतितदेवस्वल्पेननामजपेनसिद्ध्यति । परंनामजपेतादृशीश्रद्धाअपेक्ष्यते । प्रत्येकंसाधनायाःरहस्यम्इत्युक्तेभगवत्स्मरणम् । तत्पूर्णतःनामजपेअनुस्यूतंवर्तते । अतःयःशीघ्रंभगवतामेलितुम्इच्छतिसःसततंनामजपंकुर्यात् ।
नामविषयकाःसर्वाःशङ्काःनामजपेनएवशाम्यन्ति ।
डिसे.२६ –मनःस्वाधीनंकर्तुंमनसःनामजपतु । जगतिअद्ययावत्बहवःजनाःदानं, स्वार्थत्यागंचकृतवन्तः । परंतेषुविद्यमानेनकर्तृभावेनतेअवितथंनिस्वार्थिनःनजाताः । वस्तुतःअस्माकंमनसःअधीनत्वेनविनावयंनिस्वार्थिनःभवितुंनशक्नुमः । मनःकेनसाधनेननियन्तुंशक्नुमः । योगः, यज्ञःचेत्यादीनिसाधनानितदर्थम्एवकथितानिसन्ति । परम्एतानिसाधनानिसाम्प्रतम्उपयोक्तुंशक्नुमःकिम्?एतादृशानांसाधनानांकृतेअपेक्षिताकालानुकूलतासाम्प्रतंनिश्चयेननवर्तते । मनःनियन्त्रणेआनेतुंनामस्मरणंविनासाम्प्रतंकिमपिसाधनंनास्ति । यतोहिएकंनामएवभगवताअवताररूपेणअस्माकंकृतेरक्षितंवर्तते । अतःमनःनियन्तुंसर्वेमनसानामजपन्तु । नामजपसमयेमनस्थैर्यंदूषयितारःविकाराःरोधनीयाः । मनसिसर्वेभ्यःबाधकतमःविकारःवर्ततेअभिमानः । अभिमानसमःघातकःशत्रुःअन्यःन । तम्अभिमानंत्यक्तुम्अस्माभिःपठनीयम् । भगवताअद्यपर्यन्तम्एतावन्तःअवताराःआविष्कृताः,तेसर्वेअभिमानंहन्तुमेव । हिरण्यकश्यपुंहन्तुंभगवान्अवतीर्णवान् । अग्रेस्थितंदेवंदृष्ट्वापितस्यहस्तःखड्गंप्रतिगतः । तस्याभिमानःकियान्तीव्रःआसीत्इतिएतस्यवयंकल्पनांकर्तुंशक्नुमः । तदभिमानंत्यक्तुम्अस्माभिःकर्तृभावस्यभानंत्यक्त्वानामजपःकरणीयः । मनस्स्थैर्यंविचालयिताअन्यःशत्रुःवर्ततेक्रोधः । एषःक्रोधःमहाभयङ्करः । अनेननैकानांज्येष्ठानांतपस्विनांतपश्चर्याधूलीकृता । तंक्रोधंनियन्तुंकेनकारणेनसःआयातिइतिज्ञातव्यम् । व्यवहारेअस्माकंकृतेनीतिनियमाःयोजिताःसन्ति । तेपालनीयाः । नीतिबन्धनानिपालयितॄणांविकाराःसहजंनियतन्ते । एतानिबन्धनानिकिमर्थंसन्तिइतिएतस्यरहस्यंज्ञात्वाव्यवहरामःचेत्क्रोधंनियन्तुंशक्नुमः । नियतक्रोधेसतितस्यउदरेलुप्ताःकामक्रोधादिविकाराःअपिप्रतिबद्धाःभवन्ति । एतेनप्रकारेणनीतिबन्धनेस्थित्वाभवन्तःस्वमनःभगवन्तंप्रतिविनम्रंकुर्वन्तु । भगवन्तंप्रतिगच्छन्तु । मनःसहजम्अनुधावेत् । यतोहिसःतस्यधर्मः । भगवन्तंमाविस्मरन्तु । भवतांमनःस्वयंभवतःसाहायंकुर्यात्इतिविश्वसन्तु ।
नामसुरङ्गस्फोटकसदृशंवर्तते । विकाररूपिणःशिलाखण्डाःअपितेनविस्फुटन्ति ।
डिसे.२७ –भगवत्प्रेमकथम्उत्पादनीयम्इतिद्रष्टव्यम् । चमत्कारसामर्थ्यंब्रह्मज्ञाननिदर्शकंनवर्तते । सत्पुरुषान्परितःदुर्जनाःदृश्यन्ते । रुग्णालयेनिरोगिणाःजनाःदृश्यन्तेकिम्?प्रपञ्चेविद्यमानाःअस्माकंसमस्याःसत्पुरुषैःअपाकरणीयाःइतिवचनम्अयोग्यंखलु?ता:दूरीकर्तुंगृहस्थंप्रतिगन्तव्यम् । सत्पुरुषंप्रतिन । पीडांदूरीकर्तुंरामनामउच्चारितंचेदपिनामस्मरणंवृथानभवति । सत्पुरुषाःरोगनिदानंसम्यक्कृतवन्तःइतिएवतेषांमहान्तःउपकाराः । वयम्इच्छारोगेणपीडिताः । यत्रयत्रइच्छावर्ततेतत्रसमाधानम्अभावेनवर्तते । अस्माकंभजनपूजनयोःकःहेतुः?तंज्ञात्वाभजनं, पूजनंचकुर्वन्तुइतिपर्याप्तम् । भगवन्तम्इष्टवन्तःजनाःअल्पाः । तेअपिभगवतःकृतेतंनेच्छन्ति, अपितुप्रपञ्चस्यकृतेइच्छन्ति । येभगवतःकृतेभगवन्तम्इच्छन्तितेनिश्चयेनसमाधानंप्राप्नुवन्ति । तेषांकृतेनकोऽपिसमयः । नायुषः, नविद्यायाः, नबुद्धेः, नधनस्य, नकोऽपिनिकषः । केवलाआर्तताअपेक्ष्यतॆ । वस्तुतःपरमार्थःअनुमानस्यविषयःन । वयंकेवलंभाषामहे, नकामपिकृतिंकुर्मः । अतःतंवयम्अस्माकंसामर्थ्यात्परंमन्यामहे । कार्यम्अकर्तुंकारणानिबहूनिसन्ति । श्रीकृष्णःअर्जुनंयुद्धंकरोतुइतिसूचितवान् । अर्जुनःयदाकारणानिवक्तुम्आरभततदाभगवतःबहुदुःखजातम् । देहबुद्ध्याअभिमानेनचभगवदाज्ञांनानुसर्तुंकारणानिभवन्ति । व्यवहारेकारणकथनस्यएवअस्माकम्अभ्यासः । प्रयागेकन्यारुग्णायतेचेत्मनुष्यःअनुक्षणंगच्छति, परंकाशींगन्तुंयोगःनवर्ततेइतिकथयति । आज्ञायाःधिःकरणार्थंकारणकथनंपापम् । कमपिधनिकंवदामःयत्भवतःसमीपस्थंसर्वंधनंददातुतर्हिसःकदाचित्दद्यात्, परं‘मयादत्तम्’इतिस्मरणंनगच्छति । यःदातुंसूचितवान्सःदाताइतिसःविस्मरति । वणिक्वाणिज्यस्यएवस्वप्नंपश्यति । तद्वत्येनसहवासंकुर्मःतस्यप्रेमआयाति । भगवतःप्रेमकथंजायेतइतिद्रष्टव्यम् । सहवासेन, निश्चयेन, ममत्वविस्मरणेनचपरमेश्वरस्यप्रेमजायेत । दीर्घकालंयावत्एकस्मिन्एवगृहेनिवासंकुर्मःचेदपिगृहस्यप्रेमउद्भवतिननु?मुम्बई-जनेभ्य:मुम्बईरोचतेइतिएतस्यकारणंसहवासः । प्रथमवारं‘गान्जा’(किमपि मादकद्रव्यं)पानसमयेवमनंभवतितर्हिअभ्यासेनतद्विषयेप्रेमउद्भवति । अरोचितेनभर्त्रासहविवाहःभवतितथापिकन्यानिश्चयेनतस्मिन्प्रीणातिइत्युक्तेनिश्चयेनप्रेमउद्भवति । रामःआत्मनःहृदयेअवस्थितःइतिभावयामः । ‘रामात्नभिन्नःअहं’‘ममहृदयेएवतस्यनिवासः’इतिदृढंनिश्चित्यएषाभावनावर्धनीया ।
वयंप्रपञ्चेप्रीणीमः,तत्परिवर्त्य, अधुनारामस्मरणेप्रीणीमः ।
डिसे.२८ –वैदिककर्मणासहभगवन्नामजपःकरणीयः । (गायत्रीपुरश्चरणानन्तरंवैदिकब्रह्मवृन्दस्यकृतेजातंप्रवचनम् । ) भवन्तःवेदविद्याज्ञातारःसर्वेमहान्तःज्ञानिनः,भाग्यवन्तः,पूजनीयाःचवर्तन्ते । एतावन्तिवर्षाणिभवद्भिःवेदविद्यासंरक्षिताइतिभवतांमहान्तःउपकाराः । भवतांयोग्यतामहतीवर्तते । ममस्थितिःतुविपरीता । अहंकश्चनअज्ञःजनः । वेदविद्यायाःगन्धःअपिनास्ति । ग्रन्थज्ञानम्अपिनविद्यते । केवलोऽहंरामरायस्यदीनःदासः । तस्यनाम्निअहंप्रीणामि । ममकथनंभवद्भिःप्रेम्णाश्रोतव्यम् । वेदमतेनगायत्रीपूज्याइतितुयोग्यम्एव । यतोहिगायत्र्योपासनायांमहत्सामर्थ्यंविद्यते । गायत्र्योपासकःयथार्थंवैराग्यंपावित्र्यंचअपेक्षते । पुराऋषयःजनपदात्दूरेअरण्येआश्रमेनिवसन्तिस्म । कन्दमूलानितेषाम्आहारः । इन्द्रियसंयमःतेषाम्आचारः । सत्येनतेषांवाणीअलङ्क्रियतेस्म । कामक्रोधलोभजिताःविरागिणःऋषयःगायत्र्युपासनांकर्तुंवास्तविकम्अर्हन्तिस्म । परन्तुअधुनासमयःपरिवर्तितः । ऋषीणांजीवनशैलीसाम्प्रतंनविद्यते । ऋषीणांजीवनं,भोजनं,प्राशनं,इन्द्रियसंयमः,सत्यनिष्ठाचइतिएतेषुसाम्प्रतम्अस्माकंसमीपेकिम्अवशिष्टम्?तदाऋषयःपर्जन्यसूक्तंवदन्तिचेत्वर्षाभवतिस्मतत्अद्ययदिवदामःतर्हिसामान्यवायुःअपिनकम्पते । ऋषीणांतपःसामर्थ्यम्अवर्तत । अतःतेषाम्आशीर्वादस्यतथापरिणामाःभवन्तिस्मतथाएवशापाःअपितथैवपरिणमन्तेस्म । जीवनविषयकीपुरातनीनिष्ठाअद्यपरिवर्तिता । साम्प्रतंवैदिककर्मसुजनानांपूर्ववत्श्रद्धानवर्तते,शास्त्रोक्तवैदिककर्माचरणंबहुकठिनम्च । अस्यांस्थितौयावच्छक्यंवैदिककर्मआचरणीयं,परंचित्तशुद्ध्यर्थंतदोपरिनअवलम्ब्यकर्मणासहनामजपःअपिकरणीयः । साम्प्रतंसंयमबन्धनानिशिथिलानि । अतःसत्पुरुषैःआर्ततयानामजपन्तुइतिकथितम् । नामनअनाहूतम् । आदिनारायणेनवेदकथनसमयेयःओंकारध्वनिःकृतः । तदेवनाम । अतःममसर्वेषांकृतेप्रार्थनावर्ततेयत्भवन्तःनामजपन्तु । किंबहुनानामजपेनएववेदानांसम्यक्अर्थःज्ञायेतइतिममविश्वासःवर्तते ।
वैदिककर्मसुआहारविहारादीनिबन्धनानिसन्ति । भगवन्नाम्नेन ।
डिसे.२९ –अहंतायाःविसर्जनंकृत्वासुखदुःखातीतत्वेनभवितव्यम् । भक्तिःइत्युक्तेसंलग्नता । विषयप्राप्त्यर्थंभगवान्प्रार्थ्यतेचेत्साविषयभक्तिःभवेत् । परमेश्वरस्यभक्तिःकथम्?अहंत्वेनसंकल्पाःउद्भवन्ति,संकल्पात्मकाःविषयाःएवमनसिउत्पद्यन्तेच । अहंतांसंरक्ष्यपरमेश्वरस्यभृशंसेवांकुर्मःचेत्तस्यांन्यूनताएववर्तते । प्रपञ्चंत्यक्त्वासंन्यासीभूत्वाजनःमठंनिर्माति,परंमठस्यबन्धनेपतति । अस्माभिःदेवःसुन्दरःदृश्येत,अतःसःआभूषणैःअलङकृतः । उत्तमकार्येअपिअहंकारःकथंवर्ततेइतिएतस्यउदाहरणम्पश्यन्तु । सारांशेनअहंकारःविसर्जनीयः । सत्पुरुषाःकर्तृत्वंपरमेश्वराययच्छन्ति । वस्तुतःवयंक्वकर्तारः । यदिवयम्आत्मानंकर्तारंमन्यामहेतर्हिआत्मनःइच्छानुरूपंकिमपिघटतिकिम्?अविद्यमानंकर्तृत्वंस्वयंस्वीकृत्यमनुष्यःसुखीदुःखीवाभवति । कर्त्रेएवकर्तृत्वंदत्त्वाआत्मनासुखदुःखातीतत्वेनभवितव्यम् । ‘इदंसर्वम्ईश्वरस्यएववर्तते’इतिसारंवेदश्रुतयःवदन्ति । ‘इदंसर्वंरामस्यएव,सःएवसर्वेषांकर्ता’इतिसत्पुरुषाःकथयन्ति । द्वयोःअपिकथनंसमानम्एव । एतादृश्याभावनयासुखदुःखभोगाःनअपेक्ष्यन्ते । ‘अहंकर्तान,रामःएवकर्ता’इतिभावनावर्धनीयाइतिएववास्तवाउपासना । ‘अहंनकोऽपि’,केवलोऽहंकाचित्पाञ्चालिका’इतिमन्तव्यम् । ‘एकःभगवान्एवमम’इतिवक्तव्यम् । सत्पुरुषैःसहवासेनयद्यपिआसक्तिःनपूर्णतःनिरस्तातथापिसहजंन्यूनाभवति । अतःअस्माभिःसदासत्समागमेभवितव्यम् । सङ्गतिरभ्यासयोःमनसिमहान्परिणामःभवति । यष्टिःहस्तेभवतिचेत्कश्चनवृथाताडनीयःइतिभावःउत्पद्यते । एषायष्टिसङ्गत्याःपरिणामः । हस्तेमालांस्वीकुर्मःचेत्जपंकुर्मः । मालयाकमपिनताडयामः । अस्माकंवेषे,वर्तने,भाषणेचसर्वत्रसङ्गतिःपरिणमते । अतःसत्पुरुषसङ्गःकरणीयः । वत्सःगाम्अनुवर्ततेतथैवसत्पुरुषाःनामअनुवर्तन्तेएव । तेनामस्मर्तारम्अन्विषन्तःआगच्छन्ति । तान्अनुसरन्भगवान्अर्थात्आगच्छतिएव । रुग्णालयेरुग्णःवैद्याधीनःवर्तते । तथासत्पुरुषाणांगृहेवयंतेषाम्अधीनाःस्मः । अतःसत्सङ्गत्यांवयंकर्तृत्वशून्याःइतिमन्यामहे । सत्सङ्गत्यासाधकत्वंवर्धते । सत्पुरुषांपरिचिनोतुम्अनुसन्धानंविनाअन्यत्साधनम्नास्ति । सत्पुरुषाणांभक्तेःव्यसनम् । तेसदानामजपेसन्ति । सत्पुरुषाःभगवन्तंविनाक्वापिननिवसन्ति,अतःएवतेसत्पुरुषाःइत्युक्तेदेवस्वरूपाः । भगवन्नामसिद्धंकृत्वाजगतेदानम्इति एवतेषांजगतिमहान्तःउपकाराः । प्रापञ्चिकान्परमार्थेयोजयितुंगृहस्थसत्पुरुषाःएवसमर्थाः ।
सर्वंरामस्यइतिमननम्इत्युक्तेसर्वंरामायसमर्पणम् ।
डिसे. ३० - अन्ते प्रार्थना करणीया । प्रातः शीघ्रं जागरणीयं । भगवतः स्मरणं करणीयं । हस्तपादं प्रक्षालनीयं । मानसपूजा करणीया । हृदये रामः स्थापनीयः । षोडशपोचारैः पूजनीयः । गन्धपुष्पादीभिः अर्पणीयः । नैवेद्येन समर्पणीयः । मनसा प्रसादः स्वीकरणीयः । अन्ते प्रार्थ्यतेरामः । अहं तवशरणागतः । वासना हृदये नोद्भवतु । नामप्रेम भृशं भवतु । समाधानं भवतु सर्वदा । तव कृपां विना शक्यं कदा? । नीतिधर्मेण आचरणं । तव कृपया हि सदा शक्यम् । नास्ति मे याच्ञा कापि । तव कृते जीवितोऽद्यापि । देहेनाम्नःअखण्डस्मरणं । देहस्य तुभ्यं पूर्णसमर्पणम् । हे राम, करोषि यद्यत् । समाधानं भवतु तत्तत् । अधुना केवलम् एकं कुरु । कदापि तव विस्मरणं न भवतु । तव नाम भवतु प्रियं सदा । अन्या कापि न भवतु याच्ञा । इदमेव देहि मे दानं । मया आगतं तव शरणम् । एकमेव देहि मह्यं । अनुवर्तेत तवानुसन्धानम् । मास्तु मास्तु ब्रह्मज्ञानं । काव्यशास्त्रव्युत्पत्तिज्ञानं । कामक्रोधादयः । ज्वालयन्ति पुनःपुनः । तारय वा मारय वा । न त्यक्षामि कदापि त्वा । रामोऽहं त्वदीयोऽधुना । कर्तृत्वात् मुक्तिः प्राप्ता । मदीयं यत् त्वदीयं तत् । सर्वोऽहङ्कारोऽनश्यत् । राम, एकमेव कुरु । मनोवृत्तिः तव भवतु । क्व गच्छेयं । त्वां विना क्व वसेयम् । देहबुद्धेः अन्तरायः । अपाकुरु पूर्णतः । अद्ययावत् विषयः कृतः आत्मीयः । अज्ञानेन तस्मिन् निगृहीत: । राम, सर्वं तव शासनं । वृत्त्यां भवतु समाधानम् । नास्ति कापि याच्ञा । हृदि तव वासः सदा । तव कृते एव जीवनं । तनमनसोःसमर्पणम् । मनः कुर्यात् तव चिन्तनं । कृपां कुरु आत्माराम । एवं भवतु रामस्तवनं । करोति भगवान् संरक्षणम् । एवं भवतु अनन्यशरणः । त्वरया लभ्येत रघुनन्दनः । नाम विना नान्यत् साधनं । यथापत्नी मन्यते पतिं प्रमाणम् । नाम विना न किमपि सत्यं । कुरु तेन रामम् अधीनम् । वचनानि एतानि साधूनां । मिथ्या कदापि न मन्यताम् । नाम्नि भवतु पूर्णा निष्ठा । स्मरतु सदा इच्छया । नाम विना किमपि जगति । नास्ति नास्ति त्रिवारं नास्ति ॥
नाम्ना सह यः व्यवहारः । सेव्यते तेन ईश्वरः ॥
डिसे. ३१ - नामचिरन्तनंवर्तते । नास्तितस्यअन्त: । वस्तुत: वयंजप: समाप्नुम: तत्अज्ञानेनएव । यतोहिनामचिरन्तनंवर्तते, तत्कालातीतंच । तस्यमाहात्म्यम्अवगन्तुंदुष्करम् । देवायअतीवप्रियंयत्वर्ततेतत्तस्यनाम । तस्यजपनेनस: आत्मीय: भवति । नामविनादेव: अवस्थातुंनशक्नोति । त्रिवेणीसङ्गमःकःइतिपृच्छ्यतेचेत्देवःभक्तःतस्यनामचेतितस्यउत्तरम् । यत्रदेवःतत्रतस्यभक्तःनामचवर्तेते । यत्रभक्तःअस्तितत्रदेवःतस्यनामचवर्तेते । भवद्भिःभृशंसेवाकृता । नूनंभवद्भिःजपसमाप्तिंकृत्वाराजाअपिलज्जितःभवेत्ईदृशःउत्सवःआचरितः । अधुनारामम्एवंयाचन्ताम्यत्पुनःकिमपियाचनीयंनभवेत् । यदिअस्माभिःकिमपिक्षुद्रंयाचामहेतर्हिसःहसेत्, वदेत्च,'अहंएतादृशःकिमपिदातुंसिद्धः, परम्एतेजनाःकिंयाचन्ते!' अधुनातंयाचन्तांयत्, 'ममसमाधानंनिरन्तरम्अनुवर्तेत । तवनामप्रेमदेहि' इति । भगवन्तंसुतरांशरणंगत्वाकथयन्तुयत्, 'हेभगवन्, अहम्एवमस्मि । मयिसंशोधनंममअधीनंनास्ति । तवनामअन्तपर्यन्तंजपिष्यामितर्हिएवजीविष्यामि' । स्त्रिभिःएकंकरणीयं - पतिःदेवःइतिमत्वादेहेनपत्युः,परंमनसाईश्वरस्यभवितव्यम् । गार्हस्थ्यंपरमार्थलाभायकरणीयम् । कस्यापिसङ्गःमास्तु । कोऽपिउपाधि: नभवतु । उपाधिरहितत्वेनभवितुम्उपायःवर्ततेउपाधिरहितंभगवन्नामसततंजपनीयम् । नामजपनेनश्रद्धादृढीभवति । नामस्मरणेरुचिःभवति । यथाशैत्येनजलंहिमायतेतथानामजपनेनश्रद्धासुदृढायते । श्रद्धयादेवेनभवान्दृष्टव्यःएव । अखण्डंनामजपतु । देवःनिश्चयेनलभ्येतएवइत्यस्मिन्शङ्कयाअलम् । परमार्थव्यवहारयोःसम्यक्समायोजनंकरणीयम् । परमार्थविषयेवृथाशङ्काःनभवन्तु । स्वपुत्रंयथास्नेहेनआह्वयामःतथादेवम्आह्वयतु । अद्ययावत्यथाप्रेम्णाभगवतःनामस्मरणंकृतंततोपिअधिकंप्रेम्णानिष्ठयाचभगवन्नामजपतु । अन्तसमयेसर्वेभ्यःअन्तेत्यज्यमानःविषयःभगवन्नामभवेत् । अन्तिमश्वासेननामएवअन्तःगच्छेत् । नामएतावत्गभीरंगच्छेत्यत्प्राणैःसहएवनामबहिःआगच्छेत् । एवंयःनामजपतिसःदेहस्यसुखदुःखंनानुभवति । सःआनन्देभवति । ममदृढःविश्वासःयत्रामःतस्यकल्याणंकरिष्यति ।
अन्तिमश्वासेनसहनामअन्तःगच्छेत्इत्यर्थम्एतस्मात्क्षणात्सततंनामजपतु ।
श्रीक्षेत्रंगोन्दवले गोन्दवले- बुद्रुक, ज्यायान्गोन्दवलेग्रामःवासातारा-पण्ढरपूरमार्गेसातारातः ६४ कि.मी. दूरेवर्तते । पुणेतःसासवड,फलटणमार्गेणगोन्दवलेग्रामंगन्तुंशासकीयपरिवहनलोकयानानिसन्ति । तथैवमुम्बई, वसई, कराड, विटे, सांगली, सोलापूरं, पण्ढरपूरंचइत्यादिभ्यःस्थानेभ्यःयानसेवावर्तते । एतान्विहायदहीवडीमध्येयानंपरिवर्त्यआगन्तुंशक्यते । दहीवडीम्आगन्तुंबहुभ्यःस्थानेभ्यःयानानिवर्तन्ते । दहीवडी-गोन्दवलेग्रामयोःमध्येअन्तरं ५ कि.मी. परिमितंवर्तते । तत्रलोकयानसेवातथारिक्शासेवापिविपुलावर्तते । रेलयानेनआगन्तुंकोरेगावस्थानकंयोग्यम् । ततःलोकयानस्थानकं २ कि.मी. वर्तते । ततःदहीवडींगोन्दवलेग्रामंचगन्तुंलोकयानानिवर्तन्ते । श्रीसमाधीमन्दिरंलोकयानस्थानकतः २०० मी.परिमितंवर्तते । समाधिस्थानंतल-अट्टेवर्तते । तस्योपरिभूमितलेगोपालकृष्णस्यमूर्तिःविराजते । अस्मिन्एवपरिसरेश्रीमातृसाहिबायाःमन्दिरं, नाममन्दिरं, गोशाला, निवासप्रकोष्ठाः, पाचनगृहंचविद्यन्ते । श्रीसमाधिमन्दिरेउषःकालेभूपगानानि, काकडार्तिक्यं, त्रिसमयेपूजा, विष्णुसहस्त्रनामादिस्तोत्राणांपाठः, पञ्चपदीभजनं, शयनार्तिक्यम्चेतिएताःनित्योपासनाःवर्तन्ते । एतान्विहायश्रीरामनवमी, गुरुपौर्णिमा, गोकुलाष्टमी, दासनवमीचेत्यादयःउत्सवाःनामजपसप्ताहेनसहसम्पन्नाःभवन्ति । पुण्यतिथ्युत्सवःमार्गशीर्षवद्यप्रतिपदातःदशमीपर्यन्तंवर्तते । दशमीतिथौउषःकाले ५-३० वादनेनिर्याणकालसमारम्भःवर्तते । गोन्दवलेग्रामेमहाराजस्यजन्मतथानिवासवास्तुःवर्तते । ज्याय:राममन्दिरंकनीय:राममन्दिरं, दत्तमन्दिरं, शनिमन्दिरंचइत्येतानिमहाराजेनस्थापितानिमन्दिराणिसन्ति । एतेषांभवनानांस्वामीवर्ततेश्रीमहाराजस्यव्यवस्थापत्रेणनिश्चितंविश्वस्तमण्डलम् । श्रीमहाराजस्यपितामहेनप्राप्तौश्रीविठ्ठलरखुमामूर्तीतस्मिन्परिसरेवर्तते ।