श्रीगणेशाय नम: ॥
त्वमेक: शुद्धोऽसि त्वयि निगमबाह्यामलमयं प्रपंचं पश्यंति भ्रमपरवशा: पापनिरता: ।
बहिस्तेभ्य: कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम् ॥ १ ॥
न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि च मां त्वयानेके गुप्ता व्यसनमिति तेऽस्ति श्रुतिपथे ।
अतो मामुद्धर्तुं घटय मयि दृष्टिं सुविमलां न रिक्तां मे याञ्चां स्वजनरत कर्तुं भव हरे ॥ २ ॥
कदाऽहं भो: स्वामिन्नियतमनसा त्वां ह्रदिभजन्नभद्रे संसारे ह्यनवरतदु:खेऽतिविरस: ।
लभेयं तां शांतिं परममुनिभिर्या ह्यधिगता दयां कृत्वा मे त्वं वितर परशांतिं भवहर ॥ ३ ॥
विधाता चेद्विश्वं सृजति सृजतां मे शुभकृतिं विधुश्चेत्पाता माऽवतु जनिमृतेदु:खजलधे: ।
हर: संहर्ता संहरतु मम शोकं सजनकं यथाऽहं मुक्त: स्यां किमपि तु यथा ते विदधताम् ॥ ४ ॥
अहं ब्रह्मानंदस्त्वमपि च तदाख्य: सुविदितस्ततोऽहं भिन्नो नो कथमपि भवत्त: श्रुतिदृशा ।
तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं स्वमायां संवार्य प्रभव मम भेदं निरसितुम् ॥ ५ ॥
कदाऽहं हे स्वामिन् जनिमृतिमयं दु:खनिबिडं भवं हित्वासत्येऽनवरतसुखे स्वात्मवपुषि ।
रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका रमंते यस्मिंस्ते कृतसकलकृत्या यतिवरा: ॥ ६ ॥
पठंत्येके शास्त्रं निगममपरे तत्परतया यजंत्यन्ये त्वां वै ददति च पदार्थांस्तव हितान् ।
अहं तु स्वामिंस्ते शरणमगमं संसृतिभयाद्यथा ते प्रीति: स्याद्धितकर तथा त्वं कुरु विभो ॥ ७ ॥
अहं ज्योतिर्नित्यो गगनमिव तृप्त: सुखमय: श्रुतौ सिद्धोऽद्वैत: कथमपि न भिन्नोऽस्मि विभुत: ।
इति ज्ञाते तत्त्वे भवति च पर: संसृतिलयादतस्तत्त्वज्ञानं मयि विघटयेस्त्वं हि कृपया ॥ ८ ॥
अनादौ संसारे जनिमृतिमये दु:खितमना मुमुक्षु: सन्कश्चिद्ब्रजति हि गुरुं ज्ञानपरमम् ।
ततो ज्ञात्वा यं वै तुदति न पुन: क्लेशनिवहैर्भवोऽहं तं देवं भवति च परो यस्य भजनात् ॥ ९ ॥
विवेको वैराग्यं न च शमदमाद्या: षडपरेमुमुक्षा मे नास्ति प्रभवति कथं ज्ञानममलम् ।
अत: संसाराब्धेस्तरणसरणिं मामुपदिशन्स्वबुद्धिं श्रौतीं मे वितर भगवंस्त्वं हि कृपया ॥ १० ॥
कदाऽहं भोस्वामिन्निगममतिवेद्यं शिवमयंचिदानंदंनित्यं श्रुतिह्रतपरिच्छेदनिवहम् ।
त्वमर्थाभिन्नं त्वामभिरम इहात्मन्यविरतं मनीषामेवंमे सफलय वदान्य स्वकृपया ॥ ११ ॥
यदर्थ सर्व वै प्रियमसुधनादि प्रभवति स्वयं नान्यार्थो हि प्रिय इति च वेदे प्रविदितम् ।
स आत्मा सर्वेषां जनिमृतिमतां वेदेगदितस्ततोऽहं तं वेद्यं सततममलं यामि शरणम् ॥ १२ ॥
मया त्यक्तं सर्वं कथमपि भवेत्स्वात्मनि मतिस्त्वदीया माया मां प्रति तु विपरीतं कृतवती ।
ततोऽहं किं कुर्या नहि मम मति: क्वापि चरतिदयां कृत्वा नाथ स्वपदशरण देहिशिवदम् ॥ १३ ॥
नगा दैत्या: कीशा भवजलधिपारं हि गमितास्त्वया चान्येस्वामिन्किमिति समयेऽस्मिञ्छयितवान् ।
न हलां त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो न हि त्वाऽहं हित्वा कमपि शरणं चान्यमगमम् ॥ १४ ॥
अनंताद्या विद्या न गुणजलधेस्तेऽन्तमगमन्नत: पारं यायात्तव गुणगणानां कथमयम् ।
गुणन्यावद्धित्वाजनिमृतिहरं याति परमां गतिं योगिप्राप्यामिति मनसि बुद्धाहमनवम् ॥ १५ ॥
इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्द विरचितं परमेश्वर स्तुतिसारस्तोत्रं सम्पूर्णम ॥