अथपतिमुद्दिश्याग्निप्रवेशे तत्रसहगमनमेवविप्राणाम्
क्षत्रियादेस्तुसहगमनमनुगमनंचएकचित्यारोहेणदंपत्योःसहैवमन्त्रवद्दाहःसहगमनम्
भर्तुःसमन्त्रकदाहोत्तरंपृथकचितावग्निप्रवेशोनुगमनम् तत्रोभयत्रापितिथ्यैक्येएकदिनेएवतन्त्रेणपाकादि
कृत्वादर्शवत्षट्पिण्डषडर्घ्यविप्रभेदयुतंपितृपार्वणमातृपार्वणविशिष्टंश्राद्धंकार्यम्
विश्वेदेवास्तुनभिन्नाभिन्नावातिथिभेदेपिश्राद्धदिनैक्ये एवमेव
तिथिभेदाच्छ्राद्धदिनभेदेतुवार्षिकादिपृथगेवकार्यम् केचित्तुसहगमनेतिथिभेदेपिभर्तुःक्षयाहश्राद्धदिनेएवपत्न्याः
श्राद्ध्नतुदिनान्तर इत्याहुस्तदल्पकालव्यवधानेयोज्यंनतुद्वित्र्यादितिथिव्यवधाने ॥