अथतीर्थश्राद्धम् तत्रगङ्गादितीर्थप्राप्तावर्घ्यावाहनद्विजाङ्गुष्ठनिवेशनतृप्तिप्रशन्विकिरविसर्जनद्ग्बन्धवर्ज्यसकृन्महालयवतसर्वपितृगणोद्देशेनधूरिलोचनसंज्ञकविश्वेदेवसहितंतीर्थश्राद्धंकुर्यात्
अग्नौकरणंकृताकृतम् करणपक्षेतीर्थजलसमीपेश्राद्धंचेत्तदाप्राकृतमन्त्रयुतंतीर्थजलेकार्यम् अन्यथाहस्तादौ
पिण्डानांतीर्थेपक्षेपएवप्रतिपत्तिः अत्रतीर्थवासिनएवविप्राविगुणाअपिमुख्याः तदभावेऽन्ये
अत्रश्राद्धीयेदेशेऽन्नादिद्रव्येचकाकश्वादिभिर्दष्टेऽपिनदोषः तीर्थश्राद्धाङ्गतर्पणंदर्शवत्पूर्वकार्यम्
देशकालौसंकीर्त्यसर्वपितृगणमुच्चार्यएतेषाममुकतीर्थप्राप्तिनिमित्तकंतीर्थश्राद्धंसपिण्डंसदैवसद्यःकरिष्येइतिसंकल्पः
धूरिलोचनविश्वेदेवादिसर्वसकृन्महालयवत् तीर्थयात्रायांसाग्नेःसपत्नीकस्यैवाधिकारः निरग्निकस्यत्वपत्नीकस्यापि
स्त्रियाःस्नानदानतीर्थयात्रानामस्मरणादिकंपुत्राद्यनुमत्यैव सधवायायात्रादिकंपत्यासहैव ॥