अद्येत्याद्यमुकस्यममयद्वारस्थितवैतरण्याख्यनद्युत्तारणार्थगोदानंकरिष्ये
विप्रंपादप्रक्षालनवस्त्रगन्धमाल्यादिभिरभ्यर्च्यतद्धस्तेशिवाआपःसन्तु सौमनस्यमस्तु
अक्षतंचा रिष्टंचास्तु यच्छ्रेयस्तदस्तु यत्पतपंतत्प्रतिहतस्त्वितिकृत्वा धेनुकेत्वंप्रतीक्षस्वयमद्वारेमहापथे ।
उत्तितीर्षुरहंदेविवैतरण्यैनमोस्तुते इतिधेनुंपार्थ्य विष्णुरुपद्विजश्रेष्ठभूदेवद्विजपावन ।
तर्तुवैतरणीमेतांकृष्णांगांप्रददाम्यहम् । इतिविप्रंप्रार्थ्य
वैतरणीसंतारणार्थमिमांगांकृष्णवस्त्ररक्तमाल्याद्यलंकृतांयथाशक्तिदक्षिणायुतांतुभ्यमहंसंप्रददे
यमद्वारेपथेघोरेघोरावैतरणीनदी । तांतर्तुकामोयच्छामिकृष्णांवैतरणींतुगाम्
नममेतिविप्रहस्तेजलंक्षिपेत् कृष्णायाअभावेऽन्यवर्णादेया गोरभावेद्रव्यंदेयम्
पुत्नादिर्दाताचेत्प्रथमेमन्त्रउत्तितीर्षुरयमितिपठेत् द्वितीयेतर्तुवैतरणीमस्येति तृतीयेतांतर्तुमस्येति ॥