कार्तिक माहात्म्य - प्रथमोऽध्यायः
कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.
श्रीगणेशाय नमः
एकदास्वर्गलोकाद्वैनारदोद्वारिकांगतः ॥ दिदृक्षयाभगवतोदेवदेवस्यवेध सः ॥१॥
दृष्ट्वाकृष्णंततः पूजांकृत्वाभक्तिसमन्वितः ॥ पारिजातस्यपुष्पैकंददौभगवतेतदा ॥२॥
कृष्णोपितद्रृहीत्वातुरुक्मिण्यैदत्तवांस्तदा ॥ एतस्मिन्नंतरेचैवनारदोमुनिसत्तमः ॥ ॥३॥
सत्यभामामगात्तूर्णकथयामाससर्वशः ॥ ततोजगामभगवान्देवदेवोजनार्दनः ॥४॥
श्रीवत्सलांछनधरःसत्यभामागृहंप्रति ॥ दृष्ट्वाप्रियांचविमनामेकांतेसमुपस्थिताम् ॥५॥
प्रह स्यचजगन्नाथोवासुदेवोब्रवीदिदं ॥ प्रियेकुतोसिविमनास्तद्वदस्वममाग्रतः ॥६॥
ततोब्रवीत्स त्यभाभाक्रोधप्रस्फुरिताधरा ॥ मंदारपुष्पंकस्मात्त्वंरुक्मिण्यैदत्तवानसि ॥७॥
ततोब्रवीद्वासुदेवस्त्वंहिसत्येममांतिका ॥ ततोगरुडमानीयसमारुह्यसभार्यया ॥८॥
स्वर्ग लोकमगात्तूर्णकल्पवृक्षजिघृक्षया ॥ उत्पाट्यमंदारतरुंजित्वाह्यदितिनंदनम् ॥९॥
द्वारिकाम गमत्कृष्णस्तुतः प्राह प्रियांसती ॥ गृहाणमंदारतरुंत्वंमेपरमवल्लभा ॥१०॥
ततोब्रवीत्सत्य भामानारदंमुनिपुंगवम् ॥ कथस्वमहायोगिनममाग्रेमुनिसत्तम् ॥११॥
येनमेकृष्णविश्ले षोनभवेच्चकथंचन ॥ ततःप्राहमुनिर्वाक्यंसत्यभामांयशस्विनीम् ॥१२॥
श्रृणुसत्येप्रवक्ष्या मियद्ददातिभुनक्तितत् ॥ तस्माद्दानंददस्वैनंनवियोगोभविष्यति ॥१३॥
तथेत्युक्त्वाददौदानं नारदाययशस्विनी ॥ ततस्तुनारदःकृष्णंसंगृह्यह्यगमनमुनिः ॥१४॥
ततोऽब्रवीत्सत्यभामानारदंमुनिपुंगवम् ॥ अस्मिंल्लोकेवियोगस्यत्वयाऽकारिमयासह ॥१५॥
परलोकेकथंत्वस्य वियोनोनभविष्यति ॥ ततोऽब्रवीन्मुनिवरः प्रहस्यवाक्यमेवच ॥१६॥
तु लायांतोलयस्वैनंयेनतुल्योभविष्यति ॥ तत्प्रदेहिचमेमूल्यंतर्ह्येनंतुत्यजाम्यहम् ॥१७॥
ततो गृहोपस्करणंसर्वमानीयतेनसा ॥ तोलयामासवैवसत्यानचतुल्योबभूवसः ॥१८॥
ततोहरि निदेशेनसत्यभामादृढव्रता ॥ तुलसीदलमानीयतोलयामासतेनतम् ॥१९॥
तेनतुल्योबभूवा थभगवान्भक्तवत्सलः ॥ ततोगृहीत्वातुदलंनारदोमुनिपुंगवः ॥२०॥
स्तुत्वाजनार्दनंदेवंस्वर्ग लोकंजगामसः ॥२१॥
श्रियः पतिमथामंत्र्यगतेदेवर्षिसत्तमे ॥ हर्षोत्फुल्लाननासत्यावासुदेवमथाब्रवीत् ॥२२॥
सत्योवाच ॥ धन्यास्मिकृतकृत्यास्मिसफलंजीवितं मम ॥ मज्जन्मनिनिदानेचधन्यौतौपितरौ मम ॥२३॥
यौमांत्रैलौक्यसुभगांजनयामासतुर्ध्रुवम् ॥ षोडशस्त्रीसहस्त्राणांवल्लभाऽहंयतस्तव ॥२४॥
यस्मान्मयाऽदिपुरुषः कल्पवृक्षसमन्वितः ॥ यथोक्तविधिनासम्यङ्नारदायसमर्पितः ॥२५॥
यद्वार्त्तामपिजानंतिभूमिसंस्थानजंतवः ॥ सोऽयंकल्पद्रुमोगेहेसदातिष्ठतिचांगणे ॥२६॥
त्रैलोक्याधिपतेश्चाहंश्रीपतेरतिवल्लभा ॥ अतोहंप्रष्टुमिच्छामिकिंचित्त्वांमधुसूदन ॥२७॥
यदित्वंमत्प्रियकरः कथयस्वात्रविस्तरम् ॥ श्रुत्वातच्चपुनश्चाहंकरोमिहितमात्मनः ॥२८॥
यथाकल्पंत्वयादेववियुक्तास्यान्नकर्हिचित् ॥ ॥ सूतउवाच ॥ ॥ इतिप्रियावचः श्रुत्वास्मेरास्यः सगदाधरः ॥२९॥
सत्याकरंकरेधृत्वागमत्कल्पतरोः स्थलम् ॥ निषिध्यानुचरंलोकंसविलासः प्रियान्वितः ॥३०॥
प्रहस्यसत्यामामंत्र्यप्रोवाचजगतांपतिः तत्प्रीतिपरितोषोत्थलसत्पुल कितांगकः ॥३१॥
श्रीकृष्णउवाच ॥ ॥ नमेत्वत्तः प्रियतमाकाचिदन्यानितंबिनी ॥ षोडशस्त्रीसहस्त्राणांप्रियाप्राणसमाह्यसि ॥३२॥
त्वदर्थंदेवराजेनविरोधोदैवतैः सह ॥ त्वयायत्प्रार्थितंकांतेश्रृणुतच्चमहाद्भुतम् ॥३३॥
सूतउवाच ॥ ॥ एकदाभगवान्कृष्णस्सत्यायाः प्रियकाम्यया ॥ वैनतेयंसमारुढइन्द्रलोकंतदागमत् ॥३४॥
कल्पवृक्षंयाचितवानसोवदन्नददाम्यहं ॥ वैनतेयस्तदाक्रुद्धस्तदर्थंयुयुधेतदा ॥३५॥
गोलोकेगरुडोगोभिर्युद्धंचैवचकारसः ॥ गरुडस्यचतुंडेनपुच्छकर्णास्तदाऽपतन् ॥३६॥
रुधिरो पिपतोर्व्यात्रीणिवस्तूनिचाभवन् ॥ कर्णेभ्यश्चतमालंचपुच्छाद्गोमीबभूवह ॥३७॥
रुधिरान्मे हदीजातामोक्षार्थीदूरतस्त्यजेत् ॥ तस्मादेतत्रयंचैवनहिसेव्यंनरैः प्रिये ॥३८॥
गावस्तागरु डंश्रृङ्गैः प्रजहुः कुपितास्तदा ॥ गरुत्मतस्त्रयः पक्षाः पृथिव्यामपतनप्रिये ॥३९॥
पक्षात्प्राथ मिकाज्जातोनीलकंठः शुभात्मकः ॥ द्वितीयाच्चमयूरोवैचक्रवाकस्तृतीयतः ॥४०॥
दर्शनाद्वै त्रयाणांतुशुभंफलमवाप्नुयात् ॥ तस्मादिदमुपाख्यानंवर्णितंचमयाप्रिये ॥४१॥
सुपर्ण दर्शनाच्चैवयतॊफलंलभतेनरः ॥ तत्फलंप्राप्नुयात्तेषांदर्शनाद्वैममालयम् ॥४२॥
अदेयमपिवाकार्यमकथ्यमपियत्पुनः ॥ तत्करोमिकथंप्रश्नंकथयामिनमत्प्रिये ॥४३॥
पृच्छ स्वसर्वंकथयेयत्तेमनसिवर्तते ॥ ॥ सत्योवाच ॥ ॥ दानंव्रतंतपोवापिकिंतुपूर्वंकृतंमया ॥४४॥
येनाहंमर्त्यजामर्त्यभावातीताभवंकिल ॥ तवांगार्धहरानित्यंगरुडासनगामिनी ॥४५॥
इन्द्रादिदेवतावासमगमंयात्वयासह ॥ अतस्त्वांप्रष्टुमिच्छामिकिंकृतंतुमयाशुभम् ॥४६॥
भवांतरे चकिंशीलाकाचाहंकस्यकन्यका ॥ ॥ श्रीकृष्णउवाच ॥ ॥ श्रृणुष्वैकमनाः कांतेयथात्वंपूर्व जन्मनि ॥४७॥
पुण्यव्रतंकृतवतीतत्सर्वंकथयामिते ॥ आसीत्कृतयुगस्यांतेमायापुर्यांद्विजोत्तमः ॥४८॥
आत्रेयोदेवशर्मेतिवेदवेदांगपारगः ॥ अतिथेयोग्निशुश्रूषीसौरव्रतपरायणः ॥४९॥
सूर्यमाराधयन्नित्यंसाक्षात्सूर्यइवापरः ॥ तस्यातिवयसश्चासीन्नाम्नागुणवतीसुता ॥५०॥
अपुत्रः सस्वशिष्यायचंद्रनाम्नेददौसुताम् ॥ तमेवपुत्रवन्मेनेसचतंपितृवद्वशी ॥५१॥
तौकदाचिद्वनंयातौकुशेध्महरणार्थिनौ ॥ हिमाद्रिपादोपवनेचेरतुस्तावितस्ततः ॥५२॥
तावुभौराक्षसंघो रमायांतंतमपश्यताम् ॥ भयविह्वलसर्वांगावसमर्थैपलायितुम् ॥५३॥
निहतौरक्षसातेनकृतांतसमरुपिणा ॥ तौतत्क्षेत्रप्रभावेणधर्मशीलतयापुनः ॥५४॥
वैकुंठभवनंनीतौमद्गणैर्मत्समीपगैः ॥ यावज्जीवंतुयत्ताभ्यांसूर्यपूजादिकंकृतम् ॥५५॥
तेनाहंकर्मणाताभ्यांसुप्रीतोह्यभवंकिल ॥ शैवाः सौराश्चगाणेशावैष्णवाः शक्तिपूजकाः ॥५६॥
मामेवंप्राप्नुवंतीहवर्षांभः सागरंयथा ॥ एकोऽहंपंचधजातः क्रिययानामभिः किल ॥५७॥
देवदत्तो यथाकश्चित्पुत्राद्याह्वाननामभिः ॥५८॥
ततश्चतौमद्भवनाधिवासिनौविमानयानौरविवर्चसावुभौ ॥ मत्तुल्यरुपौममसन्निधानगौदिव्यांगनाचंदन भोग भोगिनौ ॥५९॥
इतिश्रीपद्मपुराणे उत्तरखण्डेकार्तिकमाहात्म्येकृष्णसत्यासंवादेप्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : June 19, 2009
TOP