कार्तिक माहात्म्य - एकादशोऽध्यायः
कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.
नारदउवाच ॥ पुनर्दैत्यसमायांतंदृष्ट्रावदेवाससवासवाः ॥ भयप्रकंपिताः सवेंविष्णुंस्तोतुंप्रचक्रमुः ॥१॥
देवा ऊचुः ॥ नमोमत्स्यकूर्मादिनानास्वरुपैः सदा भक्तकार्योद्यतायार्तिहंत्रे ॥ विधात्रादिसर्गस्थितिध्वंसकत्रेंगदाशंखपद्मादिहस्तायतेऽस्तु ॥२॥
रमावल्लभायासुराणांनिहंत्रेभुजंगारियानायपीतांबराय ॥ मखादिक्रियापाककर्त्रेविकत्रेंशरण्यायतस्मैनताः स्मोनताः स्मः ॥३॥
नमोदैत्यसंतापितामर्त्यदुः ॥ खाचलध्वंसदंभोलये विष्णवेते ॥ भुजंगेशतल्पेशयायार्कचंद्रद्विनेत्राययतस्मैनताः स्मोनताः स्मः ॥४॥
नारद उवाच ॥ संकष्टनाशनं नामस्तोत्रमेतत्पठेन्नरः ॥ सकदचिन्नसंकष्टैः पीड्यतेकृपयाहरेः ॥५॥
इतिदेवाः स्तुतिंयावत्कुर्वंतिदनुजद्विषः ॥ तावत्सुराणामापत्तिर्विज्ञाताविष्णुनातदा ॥६॥
सहसोत्थायदैत्यारिः सक्रोधः खिन्नमानसः ॥ आरुढोगरुडंवेगाल्लक्ष्मींवचनमब्रवीत् ॥७॥
॥ श्रीभगवानुवाच ॥ ॥ जलंधरेणतेभ्रात्रादेवानांकंदनंकृतम् ॥ तैराहूतोगमिष्यामि युद्धायाद्यत्वरान्वितः ॥८॥
॥ श्रीरुवाच ॥ अहंतेवल्लभानाथभक्त्याचयदिसर्वदा ॥ तत्कथंतेममभ्रातायुद्धेवध्यः कृपानिधे ॥९॥
॥ श्रीभगवानुवाच ॥ रुद्रांशसंभवत्वाच्च ब्रह्मणोवचनादपि ॥ प्रीत्याचतवनैवायंममवध्योजलंधरः ॥१०॥
॥ नारदउवाच ॥ इत्युक्त्वागरुडारुढः शंखचक्रगदासिभृत् ॥ विष्णुर्वेगाद्ययौयुद्धंयत्रदेवाः स्तुवंतिते ॥११॥
अथारुणानुजात्युग्रपक्षवातप्रपीडिताः ॥ वात्यावितर्जितादैत्यबभ्रमुः खेयथाघनाः ॥१२॥
ततोजलंधरोदृष्ट्रादैत्यान्वातप्रपीडितान् ॥ उद्धृत्यनयनः क्रोधात्ततोविष्णुंसमभ्ययात् ॥१३॥
ततः समभवद्युद्धंविष्णुदैत्येंद्रयोर्महत् ॥ आकाशंकुर्वतोबाणैस्तदानिरवकाशवत् ॥१४॥
विष्णुर्देत्यस्यबाणौघैर्ध्वजंछत्रंधनुर्हयान् ॥ चिच्छेदतंचहदयेबाणेनैकेनचाहनत् ॥१५॥
ततोदैत्यः समुत्पत्त्यगदापाणिस्त्वरान्वितः ॥ आहत्यगरुडंमूर्घ्निपातयामासभूतले ॥१६॥
विष्णुर्गदांस्वखङ्गेनचिच्छेदप्रहसन्निव ॥ तावत्सहदयेविष्णुंजघानदृढमुष्टिना ॥१७॥
ततस्तौबाहुयुद्धेनयुयुधातेमहाबलौ ॥ बाहुभिर्मुष्टिभिश्चैवजानुभिर्नादयन्महीम् ॥१८॥
एवंतौरुचिरंयुद्धंकृत्वाविष्णुः प्रतापवान् ॥ उवाचदैत्यराजानंमेघगंभीरनिः स्वनः ॥१९॥
॥ विष्णुरुवाच ॥ वरंवरयदैत्येंद्रप्रीतोस्मितवविक्रमात् ॥ अदेयमपितेदद्मियत्तेमनसिवर्तते ॥२०॥
॥ जलंधरउवाच ॥ ॥ यदिभावुकतुष्टोसिवरमेकंददस्वमे ॥ मद्भगिन्या सहाद्यत्वंमद्गृहेसगणोवस ॥२१॥
॥ नारदउवाच ॥ तथेत्युक्त्वासभगवान् सर्वदेवगणैः सह ॥ तदाजलंधरपुरमगमद्रमयासह ॥२२॥
जलंधरस्तुदेवानामधिकारेषुदानवान् ॥ स्थापयित्वामहाबाहुः पुनरागान्महीतलम् ॥२३॥
देवगंधर्वसिद्धेषुयत्किंचिद्रत्नसंज्ञितम् ॥ तदात्मवशगंकृत्वातिष्ठत्सागरनंदनः ॥२४॥
पातालभुवनेदैत्यंनिशुंभंसमहाबलम् ॥ स्थापयित्वासशेषादीनानयद्भूतलंबली ॥२५॥
देवगंधर्वसिद्धाद्यानसर्पराक्षसमानुषान् ॥ स्वपुरेनागरान्कृत्वाशशासभुवनत्रयम् ॥२६॥
एवंजलंधरः कृत्वादेवानस्ववशवर्तिनः ॥ धर्मेणपालयामासप्रजाः पुत्रानिवौरसान् ॥२७॥
नकश्चिद्वयाधितोनैवदुः खीनैवकृशस्तथा ॥ नदीनोदृश्यतेतस्मिनधर्माद्राज्यंप्रशासति ॥२८॥
एवंमहींशासतिदानवेंद्रेधर्मेणसम्यक्चदिदृक्षयाहम् ॥ कदाचिदागामथतस्यलक्ष्मींविलोकितुं श्रीरमणंचसेवितुम् ॥२९॥
॥ इतिश्रीपद्मपुराणेउत्तरखंडेकार्तिकमाहात्म्येश्रीकृष्णसत्यासंवादेनारदागमनंनामैकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : June 19, 2009
TOP