कार्तिक माहात्म्य - नवमोऽध्यायः
कार्तिक माहात्म्य वाचल्याने गतजन्मातील पापे नष्ट होतात.
पृथुरुवाच ॥ यत्त्वयाकथितंब्रह्मनव्रतमूर्जस्यविस्तरात् ॥ तत्रयातुलसीमूले विष्णोः पूजात्वयोदिता ॥१॥
तेनाहंप्रष्टुमिच्छामिमाहात्म्यतुलसीभवम् ॥ कथंसाऽतिप्रियातस्यदेवदेवस्यशार्ङिगणः ॥२॥
कथमेषासमुत्पन्नाकस्मिन्स्थानेचनारद ॥ एवंब्रूहिसमासेनसर्वज्ञोसिमतोमम ॥३॥
नारद उवाच ॥ ॥ श्रृणुराजन्नवहितोमाहात्म्यंतुलसीभवम् ॥ ऐतिहासंपुरावृत्तंतत्सर्वकथयामिते ॥४॥
पुराशक्रः शिवंद्रष्टुमगात्कैलासपर्वतम् ॥ सर्वदेवैः परिवृतोह्यप्सरोगणसेवितः ॥५॥
यावद्गतः शिवगृहंतावत्तत्रसदृष्टवान् ॥ पुरुषंभीमकर्माणंदंष्ट्राननविभीषणम् ॥६॥
सपृष्टस्ते नकस्त्वंभोः क्वगतोजगदीश्वरः ॥ एवंपुनः पुनः पुष्टः सतदानोक्तवान्नृप ॥७॥
ततः क्रुद्धोवज्र पाणिस्तंनिर्भर्त्स्यवचोब्रवीत ॥ रेमयापृच्छयमानोपिनोत्तरंदत्तवानसि ॥८॥
अतस्त्वांहन्मिवज्रेणकस्तेत्रातास्तिदुर्मते ॥ इत्युदीर्यततोवज्रीवज्रेणाभ्यहनद्दृढम् ॥९॥
तेनास्यकंठेनीलत्वमगाद्वज्रंचभस्मताम् ॥ ततोरुद्रः प्रजज्वालतेजसाप्रदहन्निव ॥१०॥
दृष्ट्रा बृहस्पतिस्तूर्णकृतांजलिपुटोऽभवत् ॥ इंद्रंचदंडवद्भूमौकृत्वास्तोतुंप्रचक्रमे ॥११॥
॥ बृहस्पति रुवाच ॥ नमोदेवाधिपतयेत्र्यंबकायकपर्दिने ॥ त्रिपुरघ्नायशर्वायनमोंधकनिषूदिने ॥१२॥
विरुपायातिरुपायबहुरुपायशंभवे ॥ यज्ञविध्वंसकत्रेंचयज्ञानांफलदायिने ॥१३॥
कालांत कायकालायकालभोगिधरायच ॥ नमोब्रह्मशिरोन्रेब्रह्मण्यायनमोनमः ॥१४॥
नारदउवाच ॥ एवंस्तुतस्तदाशंभुर्धिषणेनजगादतम् ॥ संहरन्नयनज्वालांत्रिलोकीदहनक्षमाम् ॥१५॥
वरंवरयभोब्रह्मन्प्रतिस्तुत्यानयातव ॥ इंद्रस्यजीवदानेनजीवेदानेनजीवेतित्वंप्रथांव्रज ॥१६॥
बृहस्पतिरुवाच ॥ यदितुष्टोसिदेवत्वंपाहीद्रंशरणागतम् ॥ अग्निरेषशमंयातुभालनेत्रसमुद्भवः ॥१७॥
॥ रुद्रउवाच ॥ पुनः प्रवेशमायातिभालनेत्रेकथंशिखी ॥ एनंत्यक्ष्याम्यहंदूरेयथेंद्रंनैव पीडयेत् ॥१८॥
नारद उवाच ॥ ॥ इत्युक्त्वातंकरेधृत्वाप्राक्षिपल्लवणार्णवे ॥ सोपतत्सिंधु गंगायाः सागरस्यचसंगमे ॥१९॥
तावत्सबालरुपत्वमगात्तत्ररुरोदच ॥ रुदतस्तस्यशब्देन प्राकंपद्धरणीमुहुः ॥२०॥
स्वर्गाद्याः सत्यलोकांतास्तत्स्वनाद्वधिरीकृताः ॥ श्रुत्वाब्रह्माययौतत्रकिमेतदितिविस्मितः ॥२१॥
तावत्समुद्रस्योत्संगेतंबालंददर्शह ॥ ततोब्रह्माब्रवीद्वाक्यंकस्यायंशिशुरद्भुतः ॥२२॥
निशम्यैतद्वचोधातुर्वाक्यंसिंधुरथाब्रवीत् ॥ दृष्ट्वाब्रह्माणमायांतंसमुद्रोपिकृतांजलिः ॥२३॥
प्रणम्य शिरसाबालंतस्योत्संगेन्यवेशयत् ॥ भोब्रह्मनसिंधुगंगायांजातोयंममपुत्रकः ॥२४॥
जातकर्मा दिसंस्कारान्कुरुष्वास्यजगद्गुरो ॥ नारदउवाच ॥ इत्थंवदतिपाथोधौसबालः सागरात्मजः ॥२५॥
ब्रह्माणमग्रहीत्कूर्चेविधुन्वँस्तंमुहुर्मुहुः ॥ धुन्वतस्तस्यकूर्चंतुनेत्राभ्यामगमज्जलम् ॥२६॥
कथंचिन्मुक्तकूर्चोयंब्रह्माप्रोवाचसागरम् ॥ ब्रह्मोवाच ॥ नेत्राभ्यांविधृतंयस्मादनेनैतज्जलंमम ॥२७॥
तस्माज्जलंधरइतिख्यातोनाम्नाभविष्यति ॥ अनेनैवैषतरुणः सर्वशास्त्रार्थपारगः ॥२८॥
अवध्यः सर्व भूतानांविनारुद्रंभविष्यति ॥ यतएषसमुद्भूतस्तत्रैवांतंगमिष्यति ॥२९॥
॥ नारदउवाच ॥ ॥ इत्युक्त्वाशुक्रमाहूयराज्येतंचाभ्यषेचयत् ॥ आमंत्र्यसरितां नाथंब्रह्मांतर्धानमागमत् ॥३०॥
अथतद्दर्शनोत्फुल्लनयनः सागरस्तदा ॥ कालनेमिसुतां वृंदांतद्भार्यार्थमयाचत ॥३१॥
तेकालनेमिप्रमुखास्ततोसुरास्तस्मैसुतांतांप्रददुः प्रहर्षिताः ॥ सचापितांप्राप्यसुहद्वरान्वशांशशासगांशुक्रसहायवान्वली ॥३२॥
॥ इतिश्रीपद्मपुराणे कार्तिकमाहात्म्ये श्रीकृष्णसत्यासंवादे जालंधरोपाख्यानेतदुत्पत्तिकथनं नामनवमोऽध्यायः ॥९॥
N/A
References : N/A
Last Updated : June 19, 2009
TOP