आत्मानं चेत् विजानीयात् अयम् अस्मि इति पूरुषः । किम् इच्छन् कस्य कामाय शरीरम् अनुसंज्वरेत् ॥१॥
अस्याः श्रुतेः अभिप्रायः सम्यक् अत्र विचार्यते । जीवन्मुक्तस्य या तृप्तिः सा तेन विशदायते ॥२॥
मायाभासेन जीवेशौ करोति इति श्रुतत्वतः । कल्पितौ एव जीवेशौ ताभ्यां सर्वं प्रकल्पितम् ॥३॥
ईक्षण आदि प्रवेशान्ता सृष्टिः ईशेन कल्पिता । जाग्रत् आदि विमोक्षान्तः संसारः जीवकल्पितः ॥४॥
भ्रम अधिष्ठान भूतात्मा कूटस्थ असङ्ग चित् वपुः । अन्यः अन्यात् अध्यासतः असङ्ग धी स्थ जीवः अत्र पूरुषः ॥५॥
साधिष्ठानः विमोक्षादौ जीवः अधिक्रियते न तु । केवलः निरधिष्ठान विभ्रान्तेः क्वापि असिद्धितः ॥६॥
अधिष्ठान अंश संयुक्तं भ्रम अंशम् अवलम्बते । यदा तदा अहं संसारी इति एवं जीवः अभिमन्यते ॥७॥
भ्रम अंशस्य तिरस्कारात् अधिष्ठान प्रधानता । यदा तदा चित् आत्मा अहम् असङ्गः अस्मि इति बुद्ध्यते ॥८॥
न असङ्गे अहंकृतिः युक्ता कथम् अस्मि इति चेत् शृणु । एकः मुख्यः द्वौ अमुख्यौ इति अर्थः त्रिविधः अहमः ॥९॥
अन्यः अन्य अध्यास रूपेण कूटस्थ आभासयोः वपुः । एकीभूय भवेत् मुख्यः तत्र मूढैः प्रयुज्यते ॥१०॥
पृथक् आभास कूटस्थौ अमुख्यौ तत्र तत्त्ववित् । पर्यायेण प्रयुङ्क्ते अहं शब्दं लोके च वैदिके ॥११॥
लौकिक व्यवहारे अहं गच्छामि इति आदिके बुधः । विविच्य एव चित् आभासं कूटस्थात् तं विवक्षति ॥१२॥
असङ्गः अहं चिदात्मा अहम् इति शास्त्रीय दृष्टितः । अहं शब्दं प्रयुङ्क्ते अयं कूटस्थे केवले बुधः ॥१३॥
ज्ञानिता अज्ञानिते तु आत्म आभासस्य एव न च आत्मनः । तथा च कथम् आभासः कूटस्थः अस्मि इति बुद्ध्यताम् ॥१४॥
न अयं दोषः चिदाभासः कूटस्थ एक स्वभाववान् । आभासत्वस्य मिथ्यात्वात् कूटस्थत्व अवशेषणात् ॥१५॥
कूटस्थः अस्मि इति बोधः अपि मिथ्या चेत् न इति कः वदेत् । न हि सत्यतया अभीष्टं रज्जु सर्प विसर्पणम् ॥१६॥
तादृशेन अपि बोधेन संसारः हि निवर्तते । यक्ष अनुरूपः हि बलिः इति आहुः लौकिकाः जनाः ॥१७॥
तस्मात् आभास पुरुषः स कूटस्थः विविच्य तम् । कूटस्थः अस्मि इति विज्ञातुम् अर्हति इति अभ्यधात् श्रुतिः ॥१८॥
असंदिग्ध अविपर्यस्त बोधः देह आत्मनि ईक्ष्यते । तद्वत् अत्र इति निर्णेतुम् अयम् इति अभिधीयते ॥१९॥
देहात्म ज्ञानवत् ज्ञानं देहात्म ज्ञान बाधकम् । आत्मनि एव भवेत् यस्य स न इच्छन् अपि मुच्यते ॥२०॥