तृप्तिदीपः - श्लोक २०१ ते २२०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


भोक्ता स्वस्य एव भोगाय पति जायादिम् इच्छति । एष लौकिक वृत्तान्तः श्रुत्या सम्यक् अनूदितः ॥२०१॥

भोग्यानां भोक्तृशेषत्वात् मा भोग्येषु अनुरज्यताम् । भोक्तरि एव प्रधाने अतः अनुरागे तं विधित्सति ॥२०२॥

या प्रीतिः अविवेकानां विषयेषु अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयात् मा अपसर्पतु ॥२०३॥

इति न्यायेन सर्वस्मात् भोग्यजातात् विरक्तधीः । उपसंहृत्य तां प्रीतिम् भोक्तरि एव बुभुत्सते ॥२०४॥

स्रक् चन्दन वधू वस्त्र सुवर्णादिषु पामरः । अप्रमत्तः यथा तद्वत् न प्रमाद्यति भोक्तरि ॥२०५॥

काव्य नाटक तर्कादिम् अभ्यस्यति निरन्तरम् । विजिगीषुः यथा तद्वत् मुमुक्षुः स्वं विचारयेत् ॥२०६॥

जप याग उपासना आदि कुरुते श्रद्धया यथा । स्वर्ग आदि वाञ्छया तद्वत् श्रद्दद्ध्यात् स्वे मुमुक्षया ॥२०७॥

चित्त एकाग्र्यं यथा योगी महायासेन साधयेत् । अणिमादि प्रेप्सया एवं विविच्यात् स्वं मुमुक्षया ॥२०८॥

कौशलानि विवर्धन्ते तेषाम् अभ्यास पाटवात् । यथा तद्वत् विवेकः अस्य अपि अभ्यासात् विशदायते ॥२०९॥

विविञ्चता भोक्तृतत्त्वं जाग्रदादिषु असङ्गता । अन्वय व्यतिरेकाभ्यां साक्षिणि अध्यवसीयते ॥२१०॥

यत्र यत् दृश्यते द्रष्टा जाग्रत् स्वप्न सुषुप्तिषु । तत्र एव तत् न इतरत्र इति अनुभूतिः हि संमता ॥२११॥

स यत् तत्र ईक्षते किंचित् तेन अनन्वागतः भवेत् । दृष्ट्वा एव पुण्यं पापं च इति एवं श्रुतिषु डिण्डिमः ॥२१२॥

जाग्रत् स्वप्न सुषुप्ति आदि प्रपञ्चं यत् प्रकाशते । तत् ब्रह्म अहम् इति ज्ञात्वा सर्व बन्धैः प्रमुच्यते ॥२१३॥

एकः एव आत्मा मन्तव्यः जाग्रत् स्वप्न सुषुप्तिषु । स्थान त्रय व्यतीतस्य पुनः जन्म न विद्यते ॥२१४॥

त्रिषु धामसु यत् भोग्यं भोक्ता भोगः च यत् भवेत् । तेभ्यः विलक्षणः साक्षी चित् मात्रः अहं सदाशिवः ॥२१५॥

एवं विवेचिते तत्त्वे विज्ञामय शब्दितः । चिदाभासः विकारी यः भोक्तृत्वं तस्य शिष्यते ॥२१६॥

मायिकः अयं चिदाभासः श्रुतेः अनुभवात् अपि । इन्द्रजालं जगत् प्रोक्तं तत् अन्तःपाति अयं यतः ॥२१७॥

विलयः अपि अस्य सुप्ति आदौ साक्षिणा हि अनुभूयते । एतत् दृशं स्वस्वभावं विविनक्ति पुनः पुनः ॥२१८॥

विविच्य नाशं निश्चित्य पुनः भोगं न वाञ्छति । मुमुर्षुः शायितः भूमौ विवाहं कः अभिवाञ्छति ॥२१९॥

जिह्रेति व्यवहर्तुं च भोक्ता अहम् इति पूर्ववत् । छिन्न नासः इव ह्रितः क्लिश्यन् आरब्धम् अश्नुते ॥२२०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP