एवम् आदिषु शास्त्रेषु दोषाः सम्यक् प्रपञ्चिताः । विमृशन् अनिशं तानि कथं दुःखेषु मज्जति ॥१४१॥
क्षुधया पीड्यमानः अपि न विषं हि अत्तुम् इच्छति । मिष्टान्न ध्वस्त तृड् जानन् न अमूढः तत् जिघत्सति ॥१४२॥
प्रारब्धकर्मप्राबल्यात् भोगेषु इच्छा भवेत् यदि । क्लिश्यन् एव तदापि एष भुङ्क्ते विष्टिघृतवत् ॥१४३॥
भुञ्जानानाः अपि बुधाः श्रद्धावन्तः कुटुम्बिनः । नाद्यापि कर्म नः चिन्नम् इति क्लिश्यन्ति सन्ततम् ॥१४४॥
न अयं क्लेशः अत्र संसार तापः किन्तु विरक्तता । भ्रान्तिज्ञाननिदानः हि तापः संसारिकः स्मृतः ॥१४५॥
विवेकेन परिक्लिश्यन् अल्पभोगेन तृप्यति । अन्यथा अनन्तभोगे अपि न एव तृप्यति कर्हिचित् ॥१४६॥
न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूयः एव अभिवर्धते ॥१४७॥
परिज्ञाय उपभुक्तः हि भोगः भवति तुष्टये । विज्ञाय सेवितः चोरः मैत्रीम् एति न चोरताम् ॥१४८॥
मनसः निगृहीतस्य लीलाभोगः अल्पकः अपि यः । तम् एव अलब्धविस्तारं क्लिष्टत्वात् बहु मन्यते ॥१४९॥
बद्धमुक्तः महीपालः ग्राममात्रेण तुष्यति । परैः अबद्धः न अक्रान्तः न राष्ट्रं बहु मन्यते ॥१५०॥
विवेके जाग्रति सति दोष दर्शन लक्षणे । कथम् आरब्ध कर्म अपि भोगेच्छां जनयिष्यति ॥१५१॥
न एष दोषः यतः अनेकविधं प्रारब्धम् ईक्ष्यते । इच्छा अनिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् ॥१५२॥
अपथ्यसेविनः चोराः राज दार रताः अपि । जानन्त इव स्वानर्थम् इच्छन्ति आरब्धकर्मतः ॥१५३॥
न च अत्र एतत् वारयितुम् ईश्वरेण अपि शक्यते । यतः ईश्वरः एव आह गीतायाम् अर्जुनं प्रति ॥१५४॥
सदृशं च इष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥१५५॥
अवश्यं भावि भावानां प्रतीकारः भवेत् यदि । तदा दुःखैः न लिप्येरत् नल राम युधिष्ठिराः ॥१५६॥
न च ईश्वरत्वम् ईशस्य हीयते तावता यतः । अवश्यं भावित अपि एषम् ईश्वरेण एव निर्मिता ॥१५७॥
प्रश्नोत्तराभ्याम् एव एतत् गम्यते अर्जुन कृष्णयोः । अनिच्छा पूर्वकं च अस्ति प्रारब्धम् इति तत् शृणु ॥१५८॥
अथ केन प्रयुक्तः अयं पापं चरति पूरुषः । अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥१५९॥
काम एष क्रोध एष रजो गुण समुद्भवः । महाशनः महापाप्मा विद्धि एनम् इह वैरिणम् ॥१६०॥