स्वतः अपरोक्षजीवस्य ब्रह्मत्वम् अभिवाञ्छतः । नश्येत् सिद्ध अपरोक्षत्वम् इति युक्तिः महति अहो ॥८१॥
वृद्धिम् इष्टवतः मूलम् अपि नष्टम् इति ईदृशम् । लौकिकं वचनं सार्थं सम्पन्नं त्वत् प्रसादतः ॥८२॥
अन्तःकरण संभिन्न बोधः जीवः अपरोक्षताम् । अर्हति उपाधि सद्भावान् न तु ब्रह्म अनुपाधितः ॥८३॥
न एवं ब्रह्मत्व बोधस्य सोपाधि विषयत्वतः । यावत् विदेह कैवल्यम् उपाधेः अनिवारणात् ॥८४॥
अन्तःकरण साहित्य राहित्याभ्यां विशिष्यते । उपाधिः जीवभावस्य ब्रह्मतायाः च न अन्यथा ॥८५॥
यथाविधिः उपाधिः स्यात् प्रतिषेधः तथा न किम् । सुवर्णलोह भेदेन शृङ्खलात्वं न भिद्यते ॥८६॥
अतत् व्यावृत्ति रूपेण साक्षात् विधिमुखेन च । वेदान्तानां प्रवृत्तिः स्यात् द्विधा इति आचार्यभाषितम् ॥८७॥
अहम् अर्थ परित्यागात् अहं ब्रह्म इति धीः कुतः । न एवं अंशस्य हि त्यागः भागलक्षणया उदितः ॥८८॥
अन्तःकरण संत्यागात् अवशिष्टे चिदात्मनि । अहं ब्रह्म इति वाक्येन ब्रह्मत्वं साक्षिणी ईक्ष्यते ॥८९॥
स्वप्रकाशः अपि साक्षि एव धी वृत्त्या व्याप्यते अन्यवत् । फलव्याप्यत्वम् एवास्य शास्त्रकृद्भिः निवारितम् ॥९०॥
बुद्धि तत्स्थ चिदाभासौ द्वौ अपि व्याप्नुतः घटम् । तत्र अज्ञानं धिया नश्येत् आभासेन घटः स्फुरेत् ॥९१॥
ब्रह्मणि अज्ञाननाशाय वृत्ति व्याप्तिः अपेक्षिता । स्वयं स्फुरण रूपत्वात् न आभास उपयुज्यते ॥९२॥
चक्षुः दीपौ अपेक्ष्येते घट आदि दर्शने यथा । न दीपदर्शने किन्तु चक्षुः एकम् अपेक्ष्यते ॥९३॥
स्थितः अपि असौ चिदाभासः ब्रह्मणि एकी भवेत् परम् । न तु ब्रह्मणि अतीशयं फलं कुर्यात् घट आदिवत् ॥९४॥
अप्रमेयम् अनादिं च इति अत्र श्रुत्या इदम् ईरितम् । मनसा एव इदम् आप्तव्यम् इति धीव्याप्यता श्रुता ॥९५॥
आत्मानं चेत् विजानीयात् अयम् अस्मि इति वाक्यतः । ब्रह्म आत्म व्यक्तिम् उल्लिख्य यः बोधः सः अभिधीयते ॥९६॥
अस्तु बोधः अपरोक्षः अत्र महावाक्यात् तथा अपि असौ । न दृढः श्रवण आदीनाम् आचार्यैः पुनः ईरणात् ॥९७॥
अहं ब्रह्म इति वाक्यार्थबोधः यावत् दृढी भवेत् । शम आदि सहितः तावत् अभ्यसेत् श्रवण आदिकम् ॥९८॥
बाधं सन्ति हि अदार्ढ्यस्य हेतवः श्रुति अनेकता । असम्भाव्यत्वम् अर्थस्य विपरीत च भावना ॥९९॥
शाखाभेदात् कामभेदात् श्रुतं कर्माणि अथ अन्यथा । एवम् अत्र अपि मा आशङ्की इति अतः श्रवणम् आचरेत् ॥१००॥