ब्रह्मानन्दं प्रवक्ष्यामि ज्ञाते तस्मिन् अशेषतः । ऐहिक आमुष्मिक अनर्थ व्रातं हित्वा सुखायते ॥१॥
ब्रह्मवित् परम् आप्नोति शोकं तरति च आत्मवित् । रसः ब्रह्म रसं लब्ध्वा आनन्दी भवति न अन्यथा ॥२॥
प्रतिष्ठां विन्दते स्वस्मिन् यदा स्यात् अथ सः अभयः । कुरुते अस्मिन् अन्तरं चेत् अथ तस्य भयं भवेत् ॥३॥
वायुः सूर्यः वह्निः इन्द्रः मृत्युः जन्म अन्तरे अन्तरम् । कृत्वा धर्मं विजानन्तः अपि अस्मात् भीत्या चरन्ति हि ॥४॥
आनन्दं ब्रह्मणः विद्वान् न बिभेति कुतश्चन । एतम् एव तपेत् न एषा चिन्ता कर्म अग्नि सम्भृता ॥५॥
एवं विद्वान् कर्मणि द्वे हित्वा आत्मानं स्मरेत् सदा । कृते च कर्मणि स्वात्म रूपेण एव एष पश्यति ॥६॥
भिद्यते हृदय ग्रन्थिः छिद्यन्ते सर्व संशयाः । क्षीयन्ते च अस्य कर्माणि तस्मिन् दृष्टे परावरे ॥७॥
तम् एव विद्वान् अत्येति मृत्युं पन्थाः न च इतरः । ज्ञात्वा देवं पाश हानिः क्षीणैः क्लेशैः न जन्मभाक् ॥८॥
देवं मत्वा हर्ष शोकौ जहाति अत्र एव धीर्यवान् । न एनं कृत अकृते पुण्य पापे तापयतः क्वचित् ॥९॥
इति आदि श्रुतयः बह्व्यः पुराणैः स्मृतिभिः सह । ब्रह्मज्ञाने अनर्थ हानिम् आनन्दं च अपि अघोषयन् ॥१०॥
आनन्दः त्रिविधः ब्रह्मानन्दः विद्यासुखं तथा । विषयानन्दः इति आदौ ब्रह्मानन्दः विविच्यते ॥११॥
भृगुः पुत्रः पितुः श्रुत्वा वरुणात् ब्रह्मलक्षणम् । अन्न प्राण मनः बुद्धिः त्यक्त्वा आनन्दं विजज्ञीवान् ॥१२॥
आनन्दात् एव भूतानि जायन्ते तेन जीवनम् । तेषां लयः च तत्र अतः ब्रह्मानन्दः न संशयः ॥१३॥
भूत उत्पत्तेः पुरा भूमा त्रिपुटी द्वैत वर्जनात् । ज्ञातृ ज्ञान ज्ञेय रूपा त्रिपुटी प्रलये हि न ॥१४॥
विज्ञानमय उत्पन्नः ज्ञाता ज्ञानं मनोमयः । ज्ञेयाः शब्द आदयः न एतत् त्रयम् उत्पत्तितः पुरा ॥१५॥
त्रय अभावे तु निर्द्वैतः पूर्णः एव अनुभूयते । समाधि सुप्ति मूर्च्छासु पूर्णः सृष्टेः पुरा तथा ॥१६॥
यः भूमा सः सुखं न अल्पे सुखं त्रेधा विभेदिनि । सनत्कुमारः प्राह एवं नारदाय अतिशोकिने ॥१७॥
सपुराणान् पञ्चवेदान् शास्त्राणि विविधानि च । ज्ञात्वा अपि अनात्मवित्त्वेन नारदः अतिशुशोच ह ॥१८॥
वेद अभ्यासात् पुर तापत्रयमात्रेण शोकिता । पश्चात् तु अभ्यास विस्मार भङ्ग गर्वैः च शोकिता ॥१९॥
सः अहं विद्वान् प्रशोचामि शोकपारं नय अत्र माम् । इति उक्तः सुखम् एव पारम् इति अभ्यधात् ऋषिः ॥२०॥