सुखं वैषयिकं शोक सहस्रेण आवृतत्वतः । दुःखम् एव इति मत्वा अह न अल्पे अस्ति सुखम् इति असौ ॥२१॥
ननु द्वैते सुखं मा भूत् अद्वैते अपि अस्ति नः सुखम् । अस्ति चेत् उपलभ्येत तथा च त्रिपुटी भवेत् ॥२२॥
मा अस्तु अद्वैते सुखं किन्तु सुखम् अद्वैतम् एव हि । किं मानम् इति चेत् न अस्ति मानाकाङ्क्षा स्वयं प्रभे ॥२३॥
स्वप्रभत्वे भवत् वाक्यं मानं यस्मात् भवान् इदम् । अद्वैतम् अभ्युपेति अस्मिन् सुखं न अस्ति इति भासते ॥२४॥
न अभ्युपैमि अहम् अद्वैतं त्वत् वचः अनूद्य दूषणम् । वच्मि इति चेत् तदा ब्रूहि किम् आसीत् द्वैततः पुरः ॥२५॥
किम् अद्वैतम् उत द्वैतम् अन्यः वा कोटिः अन्तिमः । अप्रसिद्धः न द्वितीयः अनुत्पत्तेः शिष्यते अग्रिमः ॥२६॥
अद्वैत सिद्धिः युक्त्या एव न अनुभूत्य इति चेत् वद । निर्दृष्टान्ता सदृष्टान्ता वा कोटि अन्तरम् अत्र नो ॥२७।
न अनुभूतिः न दृष्टान्तः इति युक्तिः तु शोभते । सदृष्टान्तत्व पक्षे तु दृष्टान्तं वद मे मतम् ॥२८॥
अद्वैतः प्रलयः द्वैत अनुपलम्भेन सुप्तिवत् । इति चेत् सुप्तिः अद्वैते तत्र दृष्टान्तम् ईरय ॥२९॥
दृष्टान्तः परसुप्तिः चेत् अहो ते कौशलं महत् । यः स्वसुप्तिं न वेत्ति अस्य परसुप्तौ तु का कथा ॥३०॥
निश्चेष्टत्वात् परः सुप्तः यथा अहम् इति चेत् तदा । उदाहर्तुः सुषुप्तेः ते स्वप्रभत्वं बलात् भवेत् ॥३१॥
न इन्द्रियाणि न दृष्टान्तः तथा अपि अङ्गीकरोषि ताम् । इदम् एव स्वप्रभत्वं यत् भानं साधनैः विना ॥३२॥
स्ताम् अद्वैत स्वप्रभत्वे वद सुप्तौ सुखं कथम् । शृणु दुःखं तदा न अस्ति ततः ते शिष्यते सुखम् ॥३३॥
अन्धः सन् अपि अनन्धः स्यात् विद्धः अविद्धः अथ रोगी अपि । अरोगी इति प्राह तत् च सर्वे जनाः विदुः ॥३४॥
न दुःख अभाव मात्रेण सुखं लोष्ट शिल आदिषु । द्वय अभावस्य दृष्टत्वात् इति चेत् विषमं वचः ॥३५॥
मुख दैन्य विकासाभ्यां पर दुःख सुख ऊहनम् । दैन्य आदि अभावतः लोष्टे दुःख आदि ऊहः न सम्भवेत् ॥३६॥
स्वकीये सुखदुःखे तु न ऊहनीये ततः तयोः । भावः वेद्यः अनुभूत्य एव तत् अभावः अपि न अन्यतः ॥३७॥
तथा सति सुषुप्तौ च दुःख अभावः अनुभूतितः । विरोधि दुःख राहित्यात् सुखं निर्विघ्नम् इष्यताम् ॥३८॥
महत्तर प्रयासेन मृदु शय्या आदि साधनम् । कुतः सम्पाद्यते सुप्तौ सुखं चेत् तत्र नः भवेत् ॥३९॥
दुःख नाशार्थम् एव एतत् इति चेत् रोगिणः तथा । भवतु अरोगिणः तु एतत् सुखाय एव इति निश्चिनु ॥४०॥