शनैः शनैः उपरमेत् बुद्ध्या धृति गृहीतया । आत्मसंस्थं मनः कृत्वा न किंचित् अपि चिन्तयेत् ॥१०१॥
यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् । ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥१०२॥
प्रशान्त मनसं हि एनं योगिनं सुखम् उत्तमम् । उपैति शान्त रजसं ब्रह्मभूतम् अकल्मषम् ॥१०३॥
यत्र उपरमते चित्तं निरुद्धं योगसेवया । यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ॥१०४॥
सुखम् आत्यन्तिकं यत् तत् बुद्धि ग्राह्यम् अतीन्द्रियम् । वेत्ति यत्र न च एव अयं स्थितः चलति तत्त्वतः ॥१०५॥
यं लब्ध्वा च अपरं लाभं मन्यते न अधिकं ततः । यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥१०६॥
तं विद्यात् दुःख संयोग वियोगं योग संज्ञितम् । सः निश्चयेन योक्तव्यः योगः अनिर्विण्णचेतसा ॥१०७॥
युञ्जन् एवं सदा आत्मानं योगि विगत कल्मषः । सुखेन ब्रह्म संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥१०८॥
उत्सेकः उदधेः यद्वत् कुश् अग्रेण एक बिन्दुना । मनसः निग्रहः तद्वत् भवेत् अपरिखेदतः ॥१०९॥
बृहद्रथस्य राजर्षेः शकायन्यः मुनिः सुखम् । प्राह मैत्रि आख्या शाखायां समाधि उक्ति पुरःसरम् ॥११०॥
यथा निरिन्धनः वह्मिः स्वयोनौ उपशाम्यति । तथा वृत्तिक्षयात् चित्तं स्वयोनौ उपशाम्यति ॥१११॥
स्वयोनौ उपशान्तस्य मनसः सत्यकामिनः । इन्द्रियार्थ विमूढस्य अनृताः कर्मवशानुगाः ॥११२॥
चित्तम् एव हि संसारः तत् प्रयत्नेन शोधयेत् । यत् चित्तः तन्मयः मर्त्यः गुह्यम् एतत् सनातनम् ॥११३॥
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्न आत्मा आत्मनि स्थित्वा सुखम् अक्षय्यम् अश्नुते ॥११४॥
समासक्तं यथा चित्तं जन्तोः विषय गोचरे । यदि एवं ब्रह्मणि स्यात् तत् कः न मुच्येत बन्धनात् ॥११५॥
मनः हि द्विविधं प्रोक्तं शुद्धं च अशुद्धम् एव च । अशुद्धं काम सम्पर्कात् शुद्धं काम विवर्जितम् ॥११६॥
मनः एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥११७॥
समाधि निर्धूत मलस्य चेतसः निवेशितस्य आत्मनि यत् सुखं भवेत् ।
न शक्यते वर्णयितुं गिरा तदा स्वयं तत् अन्तःकरणेन गृह्यते ॥११८॥
यदि अपि असौ चिरं कालं समाधिः दुर्लभः नृणाम् । तथा अपि क्षणिकः ब्रह्मानन्दं निश्चाययति असौ ॥११९॥
श्रद्धालुः व्यसनी यः अत्र निश्चिनोति एव सर्वथा । निश्चिते तु सकृत् तस्मिन् विश्वसिति अन्यदा अपि अयम् ॥१२०॥