तर्हि साधन जन्यत्वात् सुखं वैषयिकं भवेत् । भवति एव अत्र निद्रायाः पूर्वं शय्यासनादिजम् ॥४१॥
निद्रायां तु सुखं यत् तत् जन्यते केन हेतुना । सुख अभिमुख धीः आदौ पश्चात् मज्जेत् परे सुखे ॥४२॥
जाग्रत् व्यावृत्तिभिः श्रान्तः विश्रम्याथ विरोधिनि । अपनीते स्वस्थ चित्तः अनुभवेत् विषये सुखम् ॥४३॥
आत्म अभिमुख धीवृत्तौ स्वानन्दः प्रतिबिम्बति । अनुभूय एनम् अत्र अपि त्रिपुट्या श्रान्तिम् आप्नुयात् ॥४४॥
तत् श्रमस्य अपनुत्त्यर्थं जीवः धावेत् परात्मनि । तेन ऐक्यं प्राप्य तत्रत्यः ब्रह्मानन्दः स्वयं भवेत् ॥४५॥
दृष्टान्ताः शकुनिः श्येनः कुमारः च महानृपः । महाब्राह्मणः इति एते सुप्ति आनन्दे श्रुति ईरिताः ॥४६॥
शकुनिः सूत्रबद्धः सन् दिक्षु व्यापृत्य विश्रमम् । अलब्ध्वा बन्धनस्थानं हस्त स्तम्भ आदि उपाश्रयेत् ॥४७॥
जीव उपाधि मनः तद्वत् धर्म अधर्म फल आप्तये । स्वप्ने जाग्रति च भ्रान्त्वा क्षीणे कर्मणि लीयते ॥४८॥
श्येनः वेगेन नीड एकलम्पटः शयितुं व्रजेत् । जीवः सुप्त्यै तथा धावेत् ब्रह्मानन्द एकलम्पटः ॥४९॥
अतिबालः स्तनं पीत्वा मृदु शय्या गतः हसन् । राग द्वेष आदि अनुत्पत्तेः आनन्द एक स्वभावभाक् ॥५०॥
महाराजः सार्वभौमः संतृप्तः सर्वभोगतः । मानुषानन्द सीमानं प्राप्य आनन्द एक मूर्तिभाक् ॥५१॥
महाविप्रः ब्रह्मवेदि कृतकृत्यत्वलक्षणाम् । विद्यानन्दस्य परमां काष्ठां प्राप्य अवतिष्ठते ॥५२॥
मुग्ध बुद्ध अतिबुद्धानां लोके सिद्धाः सुखात्मता । उदाहृतानाम् अन्ये तु दुःखिनः न सुखात्मकाः ॥५३॥
कुमार आदिवत् एव अयं ब्रह्मानन्द एक तत्परः । स्त्रीपरिष्वक्तवत् वेद न बाह्यं न अपि च अन्तरम् ॥५४॥
बाह्यं रथि आदिकं वृत्तं गृहकृत्यं यथा अन्तरम् । तथा जागरणं बाह्यं नाडीस्थः स्वप्नः आन्तरः ॥५५॥
पित अपि सुप्तौ अपितेति आदौ जीवत्व वारणात् । सुप्तौ ब्रह्म एव नः जीव संसारित्व असमीक्षणात् ॥५६॥
पितृत्व आदि अभिमानः यः सुख दुःखाकरः स हि । तस्मिन् अपगते तीर्णः सर्वान् शोकान् भवति अयम् ॥५७॥
सुषुप्तिकाले सकले विलीने तमसावृतः । सुखरूपम् उपैति इति ब्रूते हि आथर्वणी श्रुतिः ॥५८॥
सुखम् अस्वाप्सम् अत्र अहं न वै किंचित् अवेदिषम् । इति सुप्ते सुख अज्ञाने परामृशति च उत्तिथः ॥५९॥
परामर्शः अनुभूते अस्ति इति आसीत् अनुभवः तदा । चिदात्मत्वत् स्वतः भाति सुखम् अज्ञान धीः ततः ॥६०॥