चतुर्थोऽध्यायः - निषेका

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


कुजेन्दु हेतुः प्रतिमासम् आर्तवं गते तु पीडऋक्षम् अनुष्णदिधितौ ।

अतोऽन्यथास्थे शुभ पुंग्रहेक्षिते नरेण संयोगम् उपैति कामिनी ॥१॥

यथास्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुन प्रयोगः ।

असद् ग्रहालोकित संयुते अस्ते सरोषेष्टैः स विलास हासः ॥२॥

रवीन्दु शुक्रावनिजैः स्वभागगैर्गुरौ त्रिकोणोदय संस्थितेऽपि वा ।

भवत्यपत्यं हि विबीजिनाम् इमे करा हिमांशोर्विदृशाम् इवाफलाः ॥३॥

दिवाकरेन्द्वोः स्मरगौ कुजार्कजौ गद प्रदा पुङ्गलयोषितोस्तदा ।

व्यय स्वगौ मृत्युकरौ युतौ तथा तदेकदृष्ट्या मरणाय कल्पितौ ॥४॥

दिवार्क शुक्रौ पितृ मातृ संज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् ।

पितृव्य मातृ स्वसृ संज्ञितौ च तावथौजयुग्मऋक्ष गतौ तयोः शुभौ ॥५॥

अभिलषद्बिरुदयऋक्षम् असद्भिर्मरणम् एति शुभदृष्टिम् अयाते ।

उदयराशि सहिते च यमे स्त्री विगलितोडु पति भू सुतदृष्टे ॥६॥

पापद्वय मध्य संस्थितौ लग्नेन्दू न च सौम्य वीक्षितौ ।

युगपत् पृथग् एव वा वदेन् नारी गर्भयुता विपद्यते ॥७॥

क्रूरे शशिनश्चतुर्थगे लग्नाद् वा निधनाश्रिते कुजे ।

बन्ध्वन्त्यगयोः क्षीणेन्दौ निधनाय पूर्ववत् ॥८॥

उदयास्तगयोः कुजार्कयोर्निधनं शस्त्र कृतं वदेत् तथा ।

मासाधिपतौ निपीडिते तत् काले स्रवणं समादिशेत् ॥९॥

शशाङ्क लग्नोपगतैः शुभ ग्रहैस्त्रिकोण जायार्थ सुखास्पद स्थितैः ।

तृतीय लाभऋक्ष गतैश्च पापकैः सुखी तु गर्भो रविणा निरीक्षितः ॥१०॥

ओजऋक्षे पुरुषांशकेषु बलिभिर्लग्नार्क गुर्विन्दुभिः पुंजन्म

प्रवदेत् समांशक गतैर्युग्मेषु तैर्योषितः ।

गुर्वर्कौ विषमे नरं शशि सितौ वक्रश्च युग्मे स्त्रियं ।

द्व्यङ्गस्थ

बुध वीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥११॥

विहाय लग्नं विषमऋक्ष संस्थः सौरोऽपि पुंजन्म करो विलग्नात् ।

प्रोक्त ग्रहाणाम् अवलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥१२॥

अन्योन्यं यदि पश्यतः शशि रवी यद्यर्कि सौम्यावपि वक्रो वा

समगं दिनेशम् असमे चन्द्रोदयौ चेत् स्थितौ ।

युग्मौजऋक्ष गतावपीन्दु शशिजौ भूम्यात्मजेनेक्षितौ

पुम्भावे सित लग्न शीत किरणाः षट् क्लीबयोगाः स्मृताः ॥१३॥

युग्मे चन्द्र सितौ तथौज भवने स्युर्ज्ञार जीवोदया

लग्नेन्दू नृ निरीक्षितौ च समगौ युग्मेषु वा प्राणिनः ।

कुर्युर्ते मिथुनं ग्रहोदय गतान् द्व्यङ्गांशकान् पश्यति स्वांशे

ज्ञे त्रितयं ज्ञगांशक वशाद् युग्मं त्वमिश्रैः समम् ॥१४॥

धनुर्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्ठैः ।

ज्ञेनार्किणा वीर्ययुतेनदृष्टैः सन्ति प्रभूतापि कोश संस्थाः ॥१५॥

कलल घनाङ्कुरास्थि चर्माङ्गज चेतनताः सित कुज जीव सूर्य चन्द्रार्कि बुधाः परतः ।

उदयप चन्द्र सूर्य नाथाः क्रमशो गदिता भवन्ति शुभाशुभं च मासाधिपतेः सदृशम् ॥१६॥

त्रिकोणगे ज्ञे विबलैस्तथा परैर्मुखाङ्घ्रि हस्तैर्द्विगुणस्तदा भवेत् ।

अवाग् गवीन्दावशुभैर्भ संधिगैः शुभेक्षितश्चेत् कुरुते गिरं चिरात् ॥१७॥

सौम्यऋक्षांशे रविजरुधिरौ चेत् स दन्तोऽत्र जातः कुब्जः

स्वऋक्षे शशिनि तनुगे मन्द माहेयदृष्टे ।

पङ्गुर्मीने यम शशि कुजैर्वीक्षिते लग्न संस्थे संधौ पापे

शशिनि च जडः स्यान् न चेत् सौम्यदृष्टः ॥१८॥

सौर शशाङ्कदिवा करदृष्टे वामनको मकरान्त्य विलग्ने ।

धी नवमोदयगैश्च दृकाणैः पापयुतैरभुजाङ्घ्रि शिराः स्यात् ॥१९॥

रवि शशि युते सिंहे लग्ने कुजार्कि निरीक्षिते नयनरहितः सौम्यासौम्यैः स बुद्बुद लोचनः ।

व्यय गृह गतश्चन्द्रो वामं हिनस्त्यपरं रविर्न शुभ

गदिता योगा याप्या भवन्ति शुभेक्षिताः ॥२०॥

तत् कालम् इन्दु सहितो द्वि रसांशको यस्तत् तुल्यराशि सहिते पुरतः शशाङ्के ।

यावान् उदेति दिनरात्रि स मान भागस्तावद् गते दिन निशोः प्रवदन्ति जन्म ॥२१॥

उदयति मृदु भांशे सप्तमस्थे च मन्दे यदि भवति निषेकः सूतिरब्द त्रयेण ।

शशिनि तु विधिरेष द्वादशे अब्दे प्रकुर्यान् निगदितम् इह चिन्त्यं सूति काले अपि युक्त्या ॥२२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP