आधान जन्मापरिबोध काले सम्पृच्छतो जन्म वदेद् विलग्नात् ।
पूर्वापरार्धे भवनस्य विन्द्याद् भानावुदग् दक्षिणगे प्रसूतिम् ॥१॥
लग्न त्रिकोणेषु गुरुस्त्रि भागैर्विकल्प्य वर्षाणि वयोऽनुमानात् ।
ग्रीष्मोऽर्क लग्ने कथितास्तु शेषैरन्यायनर्तावृतुरर्क चारात् ॥२॥
चन्र ज्ञ जीवाः परिवर्तनीयाः शुक्रार मन्दैरयने विलोमे ।
द्रेष्काण भागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्विकल्प्यः ॥३॥
अत्रापि होरा पटवो द्विजेन्द्राः सूर्यांश तुल्यां तिथिम् उद्दिशन्ति ।
रात्रि द्यु संज्ञेषु विलोम जन्म भागैश्च वेलाः क्रमशो विकल्प्याः ॥४॥
के चिच्छशाङ्काध्युषितान् नवांशच्छुक्लान्त संज्ञं कथयन्ति मासम् ।
लग्न त्रिकोणोत्तम वीर्ययुक्तं सम्प्रोच्यते अङ्गाल भनादिभिर्वा ॥५॥
यावान् गतः शीत करो विलग्नाच्चन्द्राद् वदेत् तावति जन्मराशिः ।
मीनोदये मीनयुगं प्रदिष्टं भक्ष्याहृताकाररुतैश्च चिन्त्यम् ॥६॥
होरा नवांश प्रतिमं विलग्नं लग्नाद् रविर्यावति च दृकाणे ।
तस्माद् वदेत् तावति वा विलग्नं प्रष्टुः प्रसूताविति शास्त्रम् आह ॥७॥
जन्मादिशेल् लग्नगे वीर्यगे वा छायाङ्गुल घ्नेर्कहते अवशिष्टम् ।
आसीन सुप्तोत्थित तिष्ठताभं जाया सुखाज्ञोदयगं प्रदिष्टम् ॥८॥
गो सिंहौ जितुमाष्टमौ क्रिय तुले कन्या मृगौ च क्रमात् संवर्ग्यो दशकाष्ट सप्त विषयैः शेषाः स्व संख्या गुणाः ।
जीवारास्फुजि दैन्दवाः प्रथमवच्छेषा ग्रहाः सौम्यवद् राशीनं नियतो विधिर्ग्रहयुतैः कार्या च तद्वर्गणा ॥९॥
सप्ताहतं त्रि घन भाजित शेषम् ऋक्षं दत्त्वाथ वा नव विशोध्य न वाथ वास्मात् ।
एवं कलत्र सहजात्मज शत्रु भेभ्यः प्रष्टुर्वदेद् उदयराशि वशेन तेषाम् ॥१०॥
वर्षऋतु मास तिथयो द्यु निशं ह्यूडूनि वेलोदये ऋक्ष नव भाग विकल्पनाः स्युः ।
भूयो दशादि गुणिताः स्व विकल्प भक्ता वर्षादयो नवकदान विशोधनाभ्याम् ॥११॥
विज्ञेयादशकेष्वब्दाऋतु मासास्तथैव च ।
अष्टकेष्वपि मासाद् अर्धास्तिथयश्च तथा स्मृताः ॥१२॥
दिवारात्रि प्रसूतिं च नक्षत्रानयनं तथा ।
सप्तकष्वपि वर्गेषु नित्यम् एवोपलक्षयेत् ॥१३॥
वेलाम् अथ विलग्नं च होराम् अंशकम् एव च ।
पञ्चकेषु विजानीयान् नष्ट जातक सिद्धये ॥१४॥
संस्कार नाम मात्राद्वि गुणा छायाङ्गुलैः समायुक्ताः ।
शेषं त्रि नवक भक्तान् नक्षत्रं तद्धनिष्टःआदि ॥१५॥
द्वि त्रि चतुर्दशदश तिथि सप्त त्रि गुणा नवाष्ट चेन्द्राद्याः ।
पञ्चदशघ्नास्तद्दिङ् मुखान्विता भधनिष्ठादि ॥१६॥
इति नष्ट जातकम् इदं बहु प्रकारं मया विनिर्दिष्टम् ।
ग्राह्यम् अतः सच्छिष्यैः परीक्ष्ययन्ताद् यथा भवति ॥१७॥