पंचविंशोऽध्यायः - नैर्याणिक

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


मृत्युर्मृत्यु गृहेक्षणेन बलिभिस्तद्धातु कोपोद्भवस्तत् संयुक्त भ गात्रजो बहु भवो वीर्यान्वितैर्भूरिभिः ।

अग्न्यंब्वायुधजो ज्वरामय कृतस्तृट् क्षुत् कृतश्चाष्टमे सूर्याद्यैर्निधने चरादिषु पर स्वाध्व प्रदेशेष्विति ॥१॥

शैलाग्राभिहतस्य सूर्य कुजयोर्मृत्युः ख बन्धुस्थयोः कूपे मन्द शशाङ्क भूमि तनयैर्बन्ध्वस्त कर्म स्थितैः ।

कन्यायां स्व जनाद् धिमोष्ण करयोः पाप ग्रहैर्दृष्टयोः स्यातां यद्युभयोदये अर्क शशिनौ तोये तदा मज्जितः ॥२॥

मन्दे कर्कटगे जलोदर कृतो मृत्युर्मृगाङ्के मृगे शस्त्राग्नि प्रभवः शशिन्यशुभयोर्मध्ये कुज ऋक्षे स्थिते ।

कन्यायां रुधिरोत्थ शोष जनितस्तद्वत् स्थिते शीतगौ सौरऋक्षे यदि तद्वद् एव हिमगौ रज्ज्वग्नि पातैः कृतः ॥३॥

बन्धाद् धी नवमस्तयोरशुभयोः सौम्य ग्रहाद् दृष्टयोर्द्रेष्काणैश्च स पाश सर्प निगडैश्छिद्र स्थितैर्बन्धतः ।

कन्यायाम् अशुभान्विते अस्तमयगे चन्द्रे सिते मेषगे सूर्ये लग्न गते च विद्धि मरणं स्त्री हेतुकं मन्दिरे ॥४॥

शूलोद्भिन्न तनुः सुखे अवनि सुते सूर्ये अपि वा खे यमे स प्रक्षीण हिमांशुभिश्च युगपत् पापैस्त्रिकोणाद्यगैः ।

बन्धुस्थे चरवौ वियत्यवनिजे क्षीणेन्दु संवीक्षिते काष्ठेनाभिहतः प्रयाति मरणं सूर्यात्मजेनेक्षिते ॥५॥

रन्ध्रास्पदाङ्ग हिबुकैर्लगुडाहताङ्गः प्रक्षीण चन्द्ररुधिरार्कि दिनेशयुक्तैः ।

तैरेव कर्म नवमोदय पुत्र संस्थैर्धूमाग्नि बन्धन शरीर निकुट्टनान्तः ॥६॥

बन्ध्वस्त कर्म सहितैः कुज सूर्य मन्दैर्निर्याणम् आयुध शिखि क्षिति पाल कोपात् ।

सौरेन्दु भूमि तनयैः स्व सुखास्पदस्थैर्ज्ञेयः क्षत कृमि कृतश्च शरीर घातः ॥७॥

खस्थे अर्के अवनिजे रसातल गते यान प्रपातद् वधो यन्त्रोत्पीडनजः कुजे अस्तमयगे सौरेन्दुनाभ्युद्गमे ।

विण् मध्ये रुधिरार्कि शीत किरणैर्जूकाज सौरऋक्षगैर्याते वा गलितेन्दु सूर्यरुधिरैर्व्योमास्त बन्ध्वाह्वयान् ॥८॥

वीर्यान्वित वक्र वीक्षिते क्षीणेन्दौ निधन स्थिते अर्कजे ।

गुह्योद्भवरोग पीडया मृत्युः स्यात् कृमि शस्त्रदाहजः ॥९॥

अस्ते रवौ सरुधिरे निधने अर्क पुत्रे क्षीणे रसातल गते हिमगौ खगान्तः ।

लग्नात्मजाष्टम तपःस्विन भौम मन्द चन्द्रैस्तु शैल शिखराशनि कुड्य पातैः ॥१०॥

द्वाविंशः कथितस्तु कारणं द्रेष्काणो निधनस्य सूरिभिः ।

तस्याधिपतिर्भवोऽपि वा निर्याणं स्व गुणैः प्रयच्छति ॥११॥

होरा नवांशकपयुक्त स मान भूमौ योगेक्षणादिभिरतः परिकल्प्यम् एतत् ।

मोहस्तु मृत्यु समये अनुदितांश तुल्यः स्वेशेक्षिते द्वि गुणितस्त्रिगुणः शुभैश्च ॥१२॥

दहन जल विमिश्रैर्भस्म संक्लेद शोषैर्निधन भवन संस्थैर्व्याल वर्गैर्विडन्तः ।

इति शव परिणामश्चिन्तनीयो यथोक्तः पृथुवि रचित शास्त्राद् गत्यनूकादि चिन्त्यम् ॥१३॥

गुरुरुडु पति शुक्रौ सूर्य भौमौ यम ज्ञौ विबुध पितृ तिरश्चो नारकीयांश्च कुर्युः ।

दिन कर शशि वीर्याधिष्ठितात् त्र्यंश नाथात् प्रवर सम निकृष्टास्तुङ्ग ह्रसाद् अनूके ॥१४॥

गतिरपि रिपु रन्ध्र त्र्यंशपोऽस्तस्थितो वा गुरुरथरिपु केन्द्र च्छिद्रगः स्वोच्च संस्थः ।

उदयति भवने अन्त्ये सौम्य भागे च मोक्षो भवति यदि बलेन प्रोज्झितास्तत्र शेषाः ॥१५॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP