कट्यां सित वस्त्र वेष्टितः कृष्णः शक्तेवाभिरक्षितुम् ।
रौद्रः परशुं समुद्यतं धत्ते रक्त विलोचनः पुमान् ॥१॥
रक्तम् अम्बरा भूषण भक्ष्य चिन्ता कुम्भाकृतिर्वाजि मुखी तृषार्ता ।
एकेन पादेन च मेष मध्ये द्रेष्काणरूपं यवनोपदिष्टम् ॥२॥
क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्न व्रतोऽभ्युद्य तदण्ड हस्तः ।
रक्तानि वस्त्राणि बिभर्ति चण्डो मेषे तृतीयः कथितस्त्रि भागः ॥३॥
कुञ्चित लून कचा घटदेहादग्ध पटा तृषिताशन चित्ता ।
आभरणान्यभिवाञ्छति नारी रूपम् इदं वृष भे प्रथमस्य ॥४॥
क्षेत्रधान्य गृहधेनु कलाज्ञो लाङ्गले स शकटे कुशलश्च ।
स्कन्धम् उद्वहति गो पति तुल्यं क्षुत् परोऽज वदनो मल वासा ॥५॥
द्विप सम कायः पाण्डुरदंष्ट्रः शरभ समाङ्घ्रिः पिङ्गल मूर्तिः ।
अवि मृग लोभ व्याकुल चित्तो वृषभ वनस्य प्रान्त गतोऽयम् ॥६॥
सूच्याश्रयं समभिवाञ्छति कर्म नारी रूपान्विताभरण कार्य कृतादरा च ।
हीन प्रजोच्छ्रित भुजऋतु मती त्रि भागम् आद्यं तृतीय भवनस्य वदन्ति तज्ज्ञाः ॥७॥
उद्यान संस्थः कवची धनुष्माञ् छूरोऽस्त्रधारी गरुडानानाश्च ।
क्रीडात्मजालंकरणार्थ चिन्तां करोति मध्ये मिथुनस्यराशेः ॥८॥
भूषितो वरुणवद् बहु रत्नो बद्ध तूण कवचः सधनुष्कः ।
नृत्त वादित कलासु च विद्वान् काव्य कृन् मिथुनराश्यवसाने ॥९॥
पत्र मूल फल भृद् द्विप कायः कानने मलयगः शरभाङ्घ्रिः ।
क्रोड तुल्य वदनो हय कण्ठः कर्कटे प्रथमरूपम् उशन्ति ॥१०॥
पद्मार्चिता मूर्धनि भोगि युक्ता स्त्री कर्क शारण्य गता विरौति ।
शाखां पलाशस्य समाश्रिता च मध्ये स्थिता कर्कटकस्यराशेः ॥११॥
भार्याभरणार्थम् अर्णवं नौस्थो गच्छति सर्प वेष्टितः ।
हैमैश्च युतो विभूषणैश्चिपिटास्याङ्त्य गतश्च कर्कटे ॥१२॥
शाल्मलेरुपरि गृध्र जम्बुकौ श्वा नरश्च मलिनाम्बरान्वितः ।
रौति मातृ पित्र्विपर्योजितः सिंहरूपम् इदम् आद्यम् उच्यते ॥१३॥
हयाकृतिः पाण्डुर माल्य शेखरो बिभर्ति कृष्णाजिन कम्बलं नरः ।
दुरासदः सिंहेवात्त कार्मुको नताग्र नासो मृगराज मध्यमः ॥१४॥
ऋक्षाननो वानर तुल्य चेष्टो बिभर्ति दण्डं फलम् आमिषं च ।
कूर्ची मनुष्यः कुटिलैश्च केशैर्मृगेश्वरस्यान्त्य गतस्त्रि भागः ॥१५॥
पुष्प प्रपूर्णेन घटेन कन्या मल प्रदिग्धाम्बर संवृताङ्गी ।
वस्त्रार्थ संयोगम् अभीष्टमाना गुरोः कुलं वाञ्छति कन्याकाद्यः ॥१६॥
पुरुषः प्रगृहीत लेखनिः श्यामो वस्त्र शिरा व्यायय कृत् ।
विपुलं च बिभर्ति कार्मुकं रोम व्याप्त तनुश्च मध्यमः ॥१७॥
गौरी सुधौताग्रदुकूल गुप्ता समुच्छ्रिता कुम्भ कटच्छुहस्ता ।
देवालयं स्त्री प्रयता प्रवृत्ता वदन्ति कन्यान्त्य गतस्त्रि भागः ॥१८॥
वीथ्यन्तरापण गतः पुरुषस्तुलावान् उन्मान मान कुशलः प्रतिमान हस्तः ।
भाण्डं विचिन्तयति तस्य च मूल्यम् एतद् रूपं वदन्ति यवनाः प्रथमं तुलायाः ॥१९॥
कलशं परिगृह्य विनिष्पतितुं समभीप्सति गृध्र मुखः पुरुषः ।
क्षुधितस्तृषितश्च कलत्र सुतान् मनसेति तुलाधर मध्य गतः ॥२०॥
विभीषयंस्तिष्ठति रत्न चित्रितो वने मृगान् काञ्चन तूण वर्म भृत् ।
फलामिषं वानररूपभृन् नरस्तुला वसाने यवनैरुदाहृतः ॥२१॥
वस्त्रैर्विहीनाभरणैश्च नारी महा समुद्रात् समुपैति कूलम् ।
स्थान च्युता सर्प निबद्ध पादा मनोरमा वृश्चिकराशि पूर्वः ॥२२॥
स्थान सुखान्यभिवाञ्छति नारी भऋतु कृते भुजगावृतदेहा ।
कच्छप कुम्भ स मान शरीरा वृश्चिक मध्यमरूपम् उशन्ति ॥२३॥
पृथुल चिपिट कूर्म तुल्य वक्रः श्व मृग वराह सृगाल भीषकारी ।
अवति च मलयाकर प्रदेशं मृग पतिरन्त्य गतस्य वृश्चिकस्य ॥२४॥
मनुष्य वक्रोऽश्व स मान कायो धनुर्विगृह्यायतम् आश्रमस्थः ।
क्रतूपयोज्यानि तपस्विनश्चररक्षाद्यो धनुषस्त्रि भागः ॥२५॥
मनोरमा चम्पक हेम वर्णा भद्रासने तिष्ठति मध्यरूपा ।
समुद्ररत्नानि विघट्टयन्ती मध्य त्रि भागो धनुषः प्रदिष्टः ॥२६॥
कूर्ची नरो हाटक चम्पकाभो वरासने दण्डधरो निषण्णः ।
कौशेयकान्युद्वहते अजिनं च तृतीयरूपं नवमस्यराशेः ॥२७॥
रोम चितो मकरोपमदंष्ट्रः सूकरकायस मान शरीरः ।
योक्त्रक जालक बन्धनधारी रौद्र मुखो मकर प्रथमस्तु ॥२८॥
कलास्वभिज्ञाब्जदलायताक्षी श्यामा विचित्राणि च मार्गमाणा ।
विभूषणालंकृत लोह कर्णा योषा प्रदिष्टा मकरस्य मध्ह्ये ॥२९॥
किन्नरोपम तनुः स कम्बलस्तूण चाप कवचैः समन्वितः ।
कुम्भम् उद्वहति रत्न चित्रितं स्कन्धगं मकरराशि पश्चिमः ॥३०॥रथोद्धता)
स्नेह मद्य जल भोजनागम व्याकुली कृत मनाः स कम्बलः ।
कोश कार वसनोऽजिनान्वितो गृध्र तुल्य वदनो घटादिगः ॥३१॥
दग्धे शकटे स शाल्मले लोहान्याहरते अङ्गना वने ।
मलिनेन पटेन संव्ऱ्ता भाण्डैर्मूर्ध्नि गतैश्च मध्यमः ॥३२॥
श्यामः सरोम श्रवणः किरीटी त्वक् पत्र निर्यास फलैर्बिभर्ति ।
भाण्डानि लोह व्यतिमिश्रितानि सञ्चारयन्त्यन्त गतो घटस्य ॥३३॥
स्रुग् भाण्ड मुक्तामणि शङ्ख मिस्रैर्व्याक्षिप्त हस्तः स विभूषणश्च ।
भार्या विभूषार्थम् अपां निधानं नावा प्लवत्यादि गतो झषस्य ॥३४॥
अत्युच्छ्रितध्वज पताकम् उपैति पोतं कूलं प्रयाति जलधेः परिवारयुक्ता ।
वर्णेन चम्पक मुखी प्रमदा त्रि भागो मीनस्य चैष कथितो मुनिभिर्द्वितीयः ॥३५॥
श्वभ्रान्तिके सर्प निवेष्टिताङ्गा वस्त्रैर्विहीनः पुरुषस्त्वटव्याम् ।
चौरानल व्याकुलितान्तरात्मा विक्रोशते अन्त्योपगतो झषस्य ॥३६॥