आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वं
जीवत्वं प्राप्यं मायागुणगणखचितो वर्तसे विश्र्वयोने ।
तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन
च्छित्त्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥१॥
सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन्
भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।
चित्तं तावद् गुणाश्र्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं
तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसरूपी न्यगादीत् ॥२॥
सन्ति श्रोयांसि भूयांस्यापि रुचिभिदया कर्मिणां निर्मितानि
क्षुद्रानन्दाश्र्च सान्ता बहुविधगतयः कृष्ण तेभ्यो भवेयुः ।
त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
त्वद्धक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥३॥
त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो -
र्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।
सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं
त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥५॥
चित्ताद्रीभावमुच्चैर्वपुषि च पुलकं हर्षबाप्पं च हित्त्वा
चित्तं शुध्येत् कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।
त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा
चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥६॥
ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र -
न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्र्चित्तपद्मं त्ववाञ्चम् ।
ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टा -
त्तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥७॥
आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्ठलं मन्दहास -
स्यन्द्रार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् ।
श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं
चारुस्निग्धोरुमम्भोरुहललितपदं भावयेऽहं भवन्तम् ॥८॥
सर्वाङ्गेष्वङ्ग रङ्गत्कुतुकमति मुहुर्धारयन्नीश चित्तं
तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।
तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व -
न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥९॥
इत्थं त्वद्ध्य़ानयोगे सति पुनरणिमाद्यष्टससंसिद्धयस्ता
दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे ।
त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं
त्वामेवानन्दपूर्ण पवनपुरपते पाहि मां सर्वतापात् ॥१०॥
॥ इति भगवत्स्वरूपध्यानयोग्यतावर्णनं पञ्चनवतितमदशकं समाप्तम् ॥