श्री गणेश गीता - अथ प्रथमोऽध्यायः

श्रीमद्‍गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.


(तत्र प्रथमोऽध्यायः ।)
गणेशोऽयं लोकः स नमति गणेशं मतिकृते
गणेशेनोदीर्णः स्पृहयतु गणेशाय सततम् ॥

गणेशादुद्‌भूतः स किमिह गणेशस्य विकृति-
र्गणेशे चाध्यस्तः प्रकट्य गणेशात्र यद्दतम् ॥१॥

गणाधीशं नमस्कृत्य गणाधीशाननोन्दताम् ॥
गणेशप्रीतये गीतां व्याकरोमि यथामति ॥२॥

कर्मोपास्तिज्ञानकाण्डा वेदोष्विव मता इह ।
सूत्रं वृत्तिर्वर्तिकं च वेदान्तेष्विव गम्यते ॥३॥

तत्राऽऽद्या चतुध्यायी कर्मकाण्डप्रशंसनम् ।
ततश्वतुर्भिर्विज्ञेयो भक्तिमार्गस्य विस्तरः ॥४॥

नवमादित्रयेणेह ज्ञानकाण्डार्थ ईरितः ।
एवमेकादशाध्यायीमाहुः काण्डत्रैयात्मिकाम् ॥५॥

सूत्रमष्टादश श्लोकाः प्रथमेऽध्याय आदितः ।
यावदध्यायसंपूर्तिस्तस्य वृत्तिरुदीरिता ॥६॥

ततो दशमिरध्ययैर्वृत्तेर्वाअर्त्तिमीरितम् ।
सूत्रेऽयाद्ये श्लोकयुग्मे विषयः सप्रयोजनः ॥७॥

उक्तस्ततस्त्रिभिः श्लोकैः संगतिः समुदीरिता ।
ततः षड्‌‌भिस्तु वैराग्यं चतुर्भिस्तत्त्वमुत्तमम् ॥८॥

जीवन्मुक्तिस्त्रिभिः श्लोकैरेवं सूत्रेऽर्थसंग्रहः ।
एतत्सर्व यथास्थानं व्याख्यायां दर्शयिष्यते ॥९॥

गीतास्वन्यासु यन्नोक्तं तदितस्तत्र नीयताम् ।
यदत्रातीव संक्षिप्तं तद्याख्याऽन्यासु द्दश्यताम् ॥१०॥

क्व गणनाथवचोमृतसागरो जडतरा मम बुद्धिरियं क्क वा ।
तदपि तं गुरुलक्षणपादुकातरणिसंश्रयणेन तितीर्षति ॥११॥

स्मयिनः प्रभवः समत्सराः श्रुतवन्तो वितथोदया जडाः ।
गणनाथ भवद्धचोनुगां मतिमानन्दतनोऽधितिष्ठ मे ॥१२॥


सूत उवाच-
अष्टादशपुराणोक्तममृतं प्राशित त्वया ।
ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् ॥१॥

मद्धयं भध्दयं चैव ब्रत्रयं वचतुष्टयम् ।
आलिंपाग्निपुराणानि कूस्कं गारुडमेव च ॥

विषयमुक्त्वा प्रयोजनमाह- येनामृतेति ।
येनामृतयो भूत्वाऽऽमुयां ब्रह्मामृतं यतः ।
योगामृतं महाभाग तन्मे करुणया वद ॥२॥

ज्ञानं वैराग्यमैश्वर्यं धर्मश्व मनुजेश्वर ।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ॥

शास्त्रारम्माङुमनुबन्धचतुष्टयं सूतप्रश्नमुखेन प्रदर्शयञ्श्रीगजानन संवादमुखेन शास्त्रमारभमाणो व्यास उवाच-
अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् ।
नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ॥३॥

एवं कृष्णार्जुनयोरिव गणेशवरेण्ययोः शास्त्रतस्तत्त्वे निर्णीतेऽपि लोकद्दष्टिमनुसृत्य तयोः संवादमाह । तत्र जिज्ञासुर्वरेण्य उवाच-
विन्घेश्वर महाबाहो सर्वविद्याविशारद ॥
सर्वशास्त्रार्थतत्त्वज्ञ योगं मे वक्तुमर्हसि ॥४॥

एवं वरेण्येन राज्ञा प्रार्थितस्तं प्रशंसञ्श्रीगजानन उवाच-
सम्यग्व्यवसिता राजन्मतिस्तेऽनुग्रहान्मम ॥
शृणु गीतां प्रवक्ष्यामि योगामृतयीं नृप ॥५॥

अथ वैराग्यं प्रथमं साधनं तदुतोआदनार्थं पराभिमतान्योगान्निषेधति-
न योगं योगमित्याहुर्योगो योगो न च श्रियः ।
न योगो विषयैर्योगो न च मात्रदिभिस्तथा ॥६॥

योगो यः पितृमात्रदेर्न स योगो नराधिप ॥

अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्त्वं वशित्वं चाष्ट सिद्धयः ॥
इति प्रसिद्धाभिः संयोग (गो) लभ (भ्य) ते सोऽपि योगो न भवतीत्याह
योगो यो बन्धुपुत्रादेर्यश्वाष्टाभूतिभिः सह ॥७॥

आर्हताद्यमिमतान्योगान्निरस्य सिद्धभिमतं योगं निरस्यति-
न स योगः स्त्रिया योगो जगद्‍द्धुतरुपया ।
राज्ययोगश्व नो योग न योग गजवाजिभिः ॥८॥

योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः ।
योगो यः सत्यलोकर्य न स योगो मत्तो मम ॥९॥

शैवस्य योगो नो योगो वैष्णवस्य पदस्य यः ।
न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबरेता ॥१०॥

पञ्चसु महाभूतेष्वेकैकविषयधारणया तत्तद्धूतभावापत्तिर्भवतीति भौतिका मन्यन्ते तान्निरस्यति-
नानिलत्वं नानलत्वं नामरत्वं न कालता ।
न वारुण्यं न नैऋत्यं योगो न सार्वभौमता ॥११

उक्तविधानां सर्वेषां योगानां फलानि नदीसमुद्रन्यायेन यत्रान्त र्भवन्ति तत्स्वाभिमंत ज्ञानयोगमाह-
योगं नानाविधं भूप युञ्जन्ति ज्ञानिनस्ततम्॥
भवन्ति वितृषा लोके जिताहारा विरेतसः ॥१२॥

वैतृष्ण्यादित्रयमानिनित्वादिसर्वसाधनोपलक्षणार्थमुक्तं तस्यावान्तर फलमाह-
पावयन्त्यखिलाँल्लोकान्वशीरुतजगत्रयाः ।
करुणापूर्णह्रदया बोधयन्ति च कांश्वन ॥१३॥

एवं साधनानि तत्फलानि चोक्त्वा  योगस्योक्तं नानाविधता विवृणोति-
जीवन्मुक्ता ह्रदे मग्नाः परमानन्दरुपिणि ।
निमील्याक्षीणि पश्यन्तः परं ब्रह्म ह्रदि स्थितम्  ॥१४॥

ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम्‍ ।
भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते ॥१५॥

एवंजानन्तः कथं लोके वर्तन्ते तदाह त्रिभिः-
ये न केनचिदाच्छिन्ना ये न केनचिदाहतः ॥
ये न केनचिदाक्रुष्टा ये न केनचिदाश्रिताः ॥१६॥

अत्र हेतुमाह-
करुणापूर्णह्रदया भ्रमन्ति धरणीतले ।
अनुग्रहाय भूतानां जितक्रोधा जितेन्द्रियाः ॥१७॥

देहमात्रभृतो भूप समलोष्टाश्मकाञ्चनाः ।
एताद्दशा महाभाग्याः स्युश्र्वक्षुर्गोचराः प्रिय ॥१८॥

तदेवमादितो द्धाभ्यां श्लोकाभ्यां विषयप्रयोजने त्रिभिर्ग्रन्थसंगतिः षड्‌भिर्मतान्तरनिरासास्त्रिभिरन्त्यैर्विदुषा स्थितिश्र्व दर्शिता ।  
शेषैश्र्वतुर्भिर्योग नानाविधामित्यादिभिर्ब्रह्मविद्यामित्यादि सूत्रिता, तमेन सूचित योगमध्यायशेषेण तद्‍वृत्तिरुपेण व्याख्यातुं प्रतिजानीते-

तमिदानीमंह वक्ष्ये श्रृणु योगमनुत्तमम्‍ ।
श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् ॥१९॥

तमेवानुत्तमं योगमाह-
शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप ।
याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम ॥२०॥

एवं निष्कलानन्दमात्रस्वरुअपस्यैवाऽऽमनो जगज्जन्मस्थितिलयकारत्वमाह-
अहमेव जगद्यस्मात्सृजामि पालयामि च ।
कृत्वा नानाविधं वेषं  संहरामि स्वलीलया ॥२१॥

देवतादिभेदप्रदर्शिका मायाऽपि स्वकार्यसहिताऽहमेवेत्याह-
अहमेव महाविष्णुरहमेव सदाशिवेः ।
अहमेव महाक्तिहमेवार्यमा प्रिय ॥२२॥

तदेवनात्मनस्तत्त्वमुक्त्वा मन्दमतिप्रबोधाय तस्यैव मायाशबलं रुप माह--
अहमेको नृणां नाथो जातः पञ्चविधः पुरा ॥
अज्ञानान्मां न जानन्ति सर्वकारणकारणम् ॥२३॥

अहं पञ्चविधो जात इत्युक्तं तत्पञ्चविधत्वमेवाऽऽह ---
मत्तोऽग्रिरापो धरणी मत्त आकाशमारुतौ ॥
ब्रह्मा विष्णुश्र्व रुद्रश्व लोकपाला दिशो दश ॥२४॥

वसवो मनवो गावो मुनयः पशवोऽपि च ॥
सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि ॥२५॥

अथैकविंशतिः स्वर्गा नागाः सप्त वनानि च ॥
मनुष्याः पर्वताः साध्याः सिद्धा रक्षोगणास्तथा ॥२६॥

एवं शिवे विष्णौ चेत्यादिश्लोकत्रयेणाभ्यर्हितत्वात्तुर्यातीतं गणेशं व्याख्याय अहमेक इत्यादिश्लोकचतुष्टयेन
तृतीयं विष्णुं च व्याख्याय साक्ष्यान्निकृष्टसाक्षिणं सूर्य व्याचष्टे-अहं साक्षीति सार्धेन ।
अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मश्रिः ।
अविकारोऽप्रमेलोऽहमव्यक्तो विश्वगोऽव्ययः ॥२७॥

मोहयत्यखिलान्माया श्रेष्ठान्मम नरानमून् ॥२८॥

मोहयतीत्येतदेव विवृणोति सार्धेन--
सर्वदा षडि‍वकारेषु तानियं योजयेद्धृशम् ॥
हित्वाऽजापटलं जन्तुरनेकैर्जन्मश्रिः शनैः ।
विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः ॥२९॥

एवं विष्णुसूर्यशक्तिसंज्ञेषु सोपाधिब्रह्मसु मिथोव्यावृत्तेषु यदनुवृत्तं शिवाख्यं चतुर्थं ब्रह्म मुक्तोपसृप्यं तत्र बिम्बीभूते
ब्रह्मणि  प्रतिबिम्बेष्वि- वोपाधिधर्माणां प्रसक्तिर्नास्तीति वक्तुं प्राप्यं ब्रह्म विशिनष्टि--
अच्छेद्यं शस्त्रसंघातैरदाह्यमनलेन च ॥३०॥

ननु युक्तं विष्णोरैश्वर्यादुपाधिधर्मास्पर्शित्वं जीवे तु जलसूर्यन्यायेनौ- पाधिकधर्मस्पर्शो दुर्निवार इत्याशङुयाऽह--
अक्लेघं भूप भुवनैरशोष्यं मारुतेन च ।
अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ॥३१॥

एवं जीवन्मुक्ता ह्रदे मग्नाः परमानन्दरुअपिणीत्यत्र सूचितः परम आनन्दो विष्णुसूर्यशक्तिभ्यः
प्रतिबिम्बेभ्यो बिम्बभूताच्छिवाच्चान्यो गण पतिरिति व्याख्यातः ।
जीवन्मुक्ता इति मुक्तिप्रतियोगित्वेन सूचितो बन्धोऽपि व्याख्यातव्यः ।
तथा जलचन्द्रे कम्पनज्जीवे दुःखादिकं मिध्ये- त्यजानतः पञ्चदेवताविमुखस्य मन्दस्य
गतिरपि व्याख्यातव्या तदुभयं तन्त्रेण व्याचष्टे । यामिमां पुष्पितां वाचमित्यादिना श्लोकत्रयेण-
यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् ।
त्रयीवादरता मूढास्ततोऽन्यन्मन्वतेऽपि न ॥३२॥

कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् ।
स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ॥३३॥

संपादयन्ति ते भूप स्वात्मना निजबन्धनम् ।
संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः ॥३४॥

एवं तामसं राजसं च कर्म वेदोक्तमपि बन्धनकरमित्युक्तम् ।
इदानीं हित्वाऽजापटलामिति मायाश्रित्यैव वैराग्याद्युत्पात्तिद्धारा ब्रह्म प्राप्यत इत्युक्तं,
तद्धिवृणोति सात्विककर्मयोगदर्शनेन यस्य यद्विहितं कर्मेत्यादि- श्लोकपञ्चकेन--
यस्य यद्बिहितं कर्म तत्कर्तव्यं मदर्पणम्‍ ।
ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङुराः ॥३५॥

ततः किमत आह--
चित्तशुद्धिश्व महती विज्ञानसाधिका भवेत्‍ ।
विज्ञानेन हि विज्ञांत परं ब्रह्म  मुनीश्वरैः ॥३६॥

कर्मयोगमुंक्तस्वरुपफलमुपसंहरति-
तस्मात्कर्माणी कुर्वीत बुद्धियुक्तो नराधिप ।
न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ॥३७॥

एतदेवाऽऽह-
जहाति हदि कर्माणि ततः सिद्धि न विन्दति ।
आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ॥३८॥

स्वोक्तबुद्धियोगं सफलमुपसंहरति-
कर्मणा शुद्धह्रदयोऽभेदबूद्धिमुपैष्यति ।
स च योगः समाख्यातोऽमृतत्वाय हि कल्पते ॥३९॥

तदेव सङुफलत्यागपूर्वकं स्वधर्मानुष्ठान बुद्धियोगः ।
तस्य फलं बुद्धि प्रसादः, प्रसन्नयां बुद्धौ भावनायोगेऽधिक्रियत इति तं वक्तुं प्रतिजानीते योगमन्यमिति षङुभिः ।
योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् ।
पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुह्रज्जने ॥४०॥

एतेषु कथं त्वामालोकयेयामित्यत आह-
बहिर्द्दष्टया च समया ह्रत्स्थयाऽऽलोकयेत्पुमान्‍ ।
सुखे दुःखे तथाऽमर्षे हर्षे भीतौ समो भवेत् ॥४१॥

रोगाप्तौ चैव भोगाप्तौ जये वाऽविजयेऽपि च ।
श्रियोऽयोगे च योगे च लाभालाभे मृता अपि ॥४२॥

कथं समो भवेदित्यत आह-
समो मां वस्तुजातेषु पश्यन्नन्तर्बहिः स्थितम् ।
सूर्ये सोमे जले वह्रौ शिवे शक्तौ तथा‍ऽनिले ॥४३॥

द्बिजे ह्रदे महानद्यां तीर्थे क्षेत्रेऽघनाशिनि ।
विष्णौ च सर्वदेवेषु तथा  यक्षोरगेषु च ॥४४॥

गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च ।
सततं मां हि यः पश्येत्सोऽयं योगाविदुच्यते ॥४५॥

एवं यस्य यद्धिहितं कर्मेत्यादिना श्लोकपञ्चकेन बुद्धिविशेषप्रधानः शाक्तो योग उक्तः ।
तथा योगमन्यं प्रवक्ष्यामीत्यादिना सर्वं विष्णुमयं जगदित्येवमैकात्म्यभावनारुपो
वैष्णवो द्धितीयो योग उक्तः । इदानी तृतीयं सौरयोगमात्मानात्मविवेकरुपं कर्मसमुच्चितं द्धाभ्यां विधत्ते-
संपरावृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः ॥
सर्वत्र संयता बुद्धिः स योगो भूप मे मतः ॥४६॥

आत्मानात्मविवेकेन या बुद्धिर्दैवयोगतः ।
स्वधर्मासक्तचितस्य तद्योगो योग उच्यते ॥४७॥

एवं सौरं तृतीयाविवेकयोगमुक्त्वा शैवं चतुर्थमसंप्रज्ञातयोगमाह-
धर्माधर्मौ जहातीह तथा त्यक्त उभावपि ।
अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ॥४८॥

अस्य फलमाह-
धर्माधर्मफले त्यक्त्वा मनीषी विजितोन्द्रियः ।
जनिबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् ॥४९॥

ननु परं वैराग्यं प्रकृत्योक्तं योगभाष्ये-एतस्यैव हि नान्तरीयकं फलं कैवल्यमिति ।
यैथा निरोधसंस्कारप्राबल्येन व्युत्थानसंस्काराणा- मात्यन्तिके प्रलये सति
बोद्धव्याभावाद्‌बुद्धेरपि दग्धेन्धनानलवदुच्छे- दो‍ऽवश्यंभावीति निष्प्रत्यूहकैवल्यमात्मनो
निरोधसमाधिनैव सिध्यतीति पातञ्जलाः प्राहुः ।
तत्कथं स्थानं संयात्यनामयमित्येद्संप्रज्ञात फलमित्य्च्यत इत्याशङूक्याऽऽह-
यदा ह्यज्ञानकालुष्यं जन्तेर्बुअद्धिः क्रमिष्मति ।
तदाऽसौ याति वैराग्यं वेदवाक्यादिषु क्रमात् ॥५०॥

एवं श्रवणादिना नष्टाज्ञानस्यानुष्ठेयं महायोगमाह-
त्रैयीविप्रतिन्नस्य स्थाणुत्वं यास्यते यदा ।
परात्मन्यचला बुद्धिस्तदाऽसौ योगमाप्नुयात् ॥५१॥

मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय ।
स्वात्मनि स्वेन संतुष्टः स्थिरबुद्धिस्तदोच्यते ॥५२॥

अथ व्युत्थितस्य स्थिरबुद्धेर्लक्षणमाह-
वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसंगमे ।
गतसाध्वसरुड्‍रागः स्थिरबुद्धिस्तदोच्यते ॥५३॥

यथाऽयं कमठोऽङुनि संकोचयति सर्वतः ।
विषयेश्यस्तथा खानि संकर्षेद्योगतत्परः ॥५४॥

इन्द्रियजयोपायमाह-
व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः ।
विना रागं च रागोऽपि द्दष्टा ब्रह्म विनश्यति ॥५५॥

विपश्विद्यतते भूप स्थितिमास्थाय योगिनः ।
मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ॥५६॥

एतदेवाऽऽह-
युक्तस्थानि वशे कृत्वा सर्वदा मत्परो भवेत्‍ ।
संयतानीन्द्रियाणीह यस्यासौ कृतधीर्मतः ॥५७॥

अजितोन्द्रियस्य विपश्वितो विनाशक्रममाहद्वाभ्याम्-
चिन्तयानस्य विषयान्सङुस्तेषूपजायते ।
कामः संजायते तस्मात्ततः क्रोधोऽभिवर्धते ॥५८॥

क्रोधादज्ञानसंभूतिर्विअश्रमस्तु ततः स्मृतेः ।
श्रंशात्स्मृतेर्मतेर्ध्वंसस्तध्व्दंसात्सोऽपि नश्यति ॥५९॥

एवमजितोन्द्रियस्याजितमनसो विपश्वितो नाश उक्तः ।
यस्तु जितेन्द्रियो जितमनाश्व स वश्यैरियौर्विषयांश्वन्नपि
वशीकृतमनास्त्वनेक  रागद्वेषराहित्यान्न सङादिकं करोति,
किंतु संतोषमलंबुद्धिमेव स सम्यग्गच्छति प्राप्नोतीत्याह-
विना द्वेषं च रागं च गोचरान्यस्तु खैश्वरेत् ।
स्वाधीनह्रदयो वश्यैः संतोषं स समृच्छति ॥६०॥

संतोषः साधकस्यापीष्ट इत्याह-
त्रिविधस्यापि दुःखस्य संतोषे क्षेपणं भवेत्‍ ।
प्रज्ञया संस्थितश्वायं प्रसन्नह्रदयो भवेत् ॥६१॥

संतोषेण प्रसन्नह्रदयस्योक्तविधकर्मयोगमनुतिष्टित उक्तभूमिलाभो भवतीति व्यतिरेकमुखेणाऽऽह-
विना प्रसादं न मतिर्विना मत्या  न भावना ।
विना ताम न शमो भूप विना तेन कुतः सुखम् ॥६२॥

इन्द्रियाणा मनोदूषक्तत्वेन ज्ञाननाशककत्वमुपपादितमुपसंहरति-
इन्द्रियाश्वान्विचरतो विषयाननुवर्तते ।
यन्मनस्तन्मति हन्यादप्सु नावं मरुद्यथा ॥६३॥

काकोलूकनिशावद्‍बुद्धाबुद्धयोरनुभववैषम्यमाह-
या रात्रिः सर्वजन्तूनां तस्यां निद्राति नैव सः ।
न स्वपन्ती ह ते यत्र सा रात्रिस्तस्य भूमिप ॥६४॥

अभावे दृष्टान्तमाह-
सरितां पतिमायान्ति वनानि सर्वतो यथा ।
आयान्ति यं तथा कामाः स नाशान्तिं क्कचिल्लभेत् ॥६५॥

साधनसर्वस्वमुपसंहरति-
अतस्तानीह संरुध्य सर्वशः खानि मानवः ।
स्वस्वार्थभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा तदा ॥६६॥

सर्वस्याध्यायस्यार्थमुपसंहरति-
ममताहंकृती त्यक्त्वा सर्वान्कामांश्व यस्त्यजेत् ।
नित्यं ज्ञानरतो भूयाज्ज्ञानान्मुक्तिं स यास्यति ॥६७॥

एतां ब्रह्माधियं भूप यो विजानाति दैवतः ।
तुरीयावस्थां प्राप्यापि शीलं मुक्तिं स ऋच्छति ॥६८॥

श्रीचातुर्धरभणितौ गणेशगीता-
टीकायां गणपतिभावदीपिकायाम् ।
गम्भीरप्रततसदर्थदर्शिकाया-
मध्यायः स्फुटह्रदयोऽयमादिमोऽभूत्॥१॥
इति श्रीमत्पदवाक्य्प्रमाणमर्यादाधुरंधरचतुधर्रवंशावतंसगोविन्द-
सूरिसूनुनीलकण्ठस्य कृतौ गणेशगीतटीकायां
प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : February 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP