श्री गणेश गीता - अथ चतुर्थोऽध्यायः

श्रीमद्‍गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.


संन्यस्तिश्र्वैव योगश्र्व कर्मणां वर्ण्यते त्वया ।
उभयोर्निश्वितं त्वेकं श्रेयो यद्वद मे प्रभो ॥१॥

अस्योत्तरं गजानन उवाच
क्रियायोगो वियोगश्र्व उभौ मोक्षस्य साधने ।
तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ॥२॥

कीद्दशः कर्मयोगस्त्यागाद्धिशिष्ट इत्यत आह-
द्वंद्वदुःखसहो  द्वेष्टा यो न काङक्षति किंचन ।
मुच्यते बन्धनात्सधो नित्यं संन्यासवान्सुखम् ॥३॥

वदन्ति भिन्नफलकौ कर्मणस्त्यागसंग्रहौ ।
मूढाल्पज्ञास्तयोरेकं संयुञ्जीत विचक्षणः ॥४॥

कर्मयोगयोरन्यतरत्सम्यगनुष्ठेमित्यभिसंधाय कर्मणि योगान्तर्भाव उक्तः ।
इदानी योगे कर्मान्तर्भावं विक्क्षुस्तयोः फलतो भेदो नास्तीत्याह-
यदेव प्राप्यते त्यागात्तदेव योगतः फलम्।
संग्रहं कर्मणोर्योगं यो विन्दति स विन्दति ॥५॥

वैरागरहित केवलं कर्मणी न्यासं विनिन्दति
केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः ।
कुर्वन्ननिच्छया कर्म योगी ब्रह्मैव जायते ॥६॥

अत एव क्रममाह-
निर्मलो यतचित्तात्मा जितखो योगतत्परः ।
आत्मानं सर्वभूतस्थं पश्यन्कुर्वन्न लिप्यते ॥७॥

न केवलमपरोक्षीकृतात्मयार्थाम्य एव कर्मभिर्न निबध्यत इति ।
अपि तु परिक्षज्ञानवानपि सङफलत्यागात्कर्मफलैर्न लिप्यत इति प्रागुक्तमेव स्मारयति-
तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते ।
एकादशानीन्द्रियाणि कुर्वन्ति कर्मसंख्यया ॥८॥

एवदेव स्पष्टयति-
तत्सर्वमर्ययेद्धह्नण्यपि कर्म करोति यः ।
न लिप्यते पुण्यपापैर्भानोर्भानुर्यथाऽर्थगः ॥९॥

फलितमाह-
कायिकं वाचिक्तं बौद्धमैन्द्रियं मानसं तथा ।
त्यक्त्वाऽशां कर्म कुर्वन्ति योगज्ञाश्र्वित्तशुद्धये ॥१०॥

विपक्ष बाधककाम
योगहीनो नरः  कर्म फलेहया करोत्यलम्।
बध्यते कर्मबीजैः स ततो दुःखं समश्रुते ॥११॥

कर्थ तर्हि तदुच्छेदोऽत आह-
मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत।
न कुर्वन्कारयन्वाऽपि नन्दञ्श्र्वभ्रे सुपत्तने ॥१२॥

ननुं यद्यात्मा निर्विकल्पस्तर्हि प्रमातृत्वादिर्विकल्पः कुत उत्तिष्ठती त्याशङ्रक्याऽऽह-
न क्रिया न च कर्तृत्वं कस्यचित्सृज्यते मया ।
न क्रियाबीजसंपर्कः शक्त्या तत्क्रियतेऽखिलम् ॥१३॥

अतोऽकर्तृत्वादिसंघाताद्धिविकः सर्वप्राणिनां प्रत्यगात्माऽहं संघातकृतानि पुण्यपापानि न स्पृशामीत्याह-
कस्य्चित्पुण्यपापानि न स्पृशामि विभुर्नृप ।
ज्ञानमूढा विमुह्यान्ति मोहेनाऽऽवृतबुद्धयः ॥१४॥

ज्ञानेनाज्ञाननाशे तु न मुह्यन्तीत्याह-
विवेकेनाऽऽत्मनोऽज्ञानं येषां नाशितमात्मना ।
तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ॥१५॥

अस्यैव विज्ञानस्य फलमाह-
मन्निष्ठा मद्धियोऽत्यन्तं मच्चिता मयि तत्पराः ।
अपुनर्भवमायान्ति विज्ञानान्नाशितेनसः ॥१६॥

विज्ञानस्यापि फलं सर्वेषु भूतेषु समत्वदर्शनमित्याह-
ज्ञानविज्ञानसंपन्ने द्विजे गवि गजादिषु ।
समेक्षणा महात्मानः पण्डिताः श्र्वपचे शुनि ॥१७॥

ईद्दशं समदर्शनं दाम्भिकस्यापि संभवतीति तद्मावृत्त्यर्थं ज्ञानस्य द्दष्टं फलमाह-
वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।
यतोऽदोषं ब्रह्म समं तस्मातैर्विषयीकृतम् ॥१८॥

स्वसंवेद्यमपि ज्ञानफलमाह-
प्रियप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ।
ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः ॥१९॥

ज्ञानस्यापि फलं सर्वज्ञत्वादधिकमुक्तम् ।
एवं योगस्यापि तदेव फलमुक्तं तदनयोर्मार्गयोः कतरः श्रेयानित्याशयवान्वरेण्य उवाच
किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु ।
भगवन्कृपया तन्मे वद विद्याविशारद ॥२०॥

उक्तविधे मार्गे समनस्कानामिन्द्रियाणामैकाग्र्‍यमत्यन्तं दुष्करमिति
वरेण्यनृपस्यानधिकारं मत्वा योगमार्गमेवोपदिदिक्षुर्गजानन उवाच-
आनन्दमश्र्नुतेऽसक्तः स्वात्मारामो निजात्मनि ।
अविनाश्यं सुखं तद्धि न सुखं विषयादिषु ॥२१॥

न सुख विषयदिष्वेतदेव विवृणोति-
विषयोत्थानि सौख्याने दुःखानां तानि हेतवः ।
उत्पत्तिनाशयुक्तानि तत्राऽऽसक्तो न तत्त्ववित् ॥२२॥

एवमभ्यासे रत्युत्पादनार्था ज्ञानप्रशंसा, तीव्रवैराग्योत्पादनार्था
विषयभोगनिन्दा च कृता, इदानीं कामक्रोधयोरेव जयोऽवश्यं कार्य इत्याह-
कारणे सति कामस्य क्रोधस्य सहते च यः ।
तौ जेतुं वर्ष्मविरहात्स सुखं चिरमश्नुते ॥२३॥

जितकानक्रोधः किमान्पुयादित्यत आह-
अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तारतिर्लभेत्॥
असंदिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥२४॥

न केवलेन संन्यासेनेतद्धवतीत्याह-
जेतारः षडरीणां ये शामिनो दमिनस्तथा ।
तेषां समन्ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥२५॥

अथ चित्तनिग्रहासमर्थस्य हठयोगमाहाऽऽसनेष्वित्यादिनाऽध्यायशेषेण-
आसनेषु समासीनस्त्यक्त्वेमान्विषयान्बहिः ।
संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥२६॥

प्राणायामलक्षणमाह-
प्राणायामं तु संरोधं प्राणापानसमुद्धवम् ।
वदन्ति मुनयस्तं च त्रिधाभूतं विपश्र्वितः ॥२७॥

तदेवाऽऽह द्धाभ्याम्‍-
प्रमाणभेदतो विद्धि लघुं मध्यममुत्तमम् ।
दर्शमिर्घधिकैर्वर्णैः प्राणायामो लघुः स्मृतः ॥२८॥

चतुर्विंशत्यक्षरो यो मध्यमः समुदाह्रतः ॥
षट्‌त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥२९॥

अनेन क्रमेण प्राणामानौ वशे कर्तव्याविति सद्दष्टान्तमाह-
सिंह शार्दूलकं वाऽपि मत्तेभं मृदुतां यथा ।
नयन्ति प्राणिनस्तव्दत्प्राणापानौ सुसाधयेत् ॥३०॥

प्राणजये गुणानाह-
पीडयन्ति मृगांस्ते न लोकान्वश्यंगतान्नृप ।
दहत्येनस्तथा वायुः संस्तब्धा न च तत्तनुम् ॥३१॥

एवं प्राणायामस्यावान्तरफमुक्त्वा सद्दष्टान्तं तद्‍वृद्धि विधत्ते-
यथा यथा नरः कश्र्वित्सोपानावलिमाक्रमेत्।
तथा तथा वशी कुर्यात्प्राणापानौ हि योगवित् ॥३२॥

अस्यैव विशेषं तत्फलं चाऽऽह-
पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत्।
अतीतानागज्ञानी ततः स्याज्जगतीतले ॥३३॥

अस्यैव वृद्धिक्रममाह-
प्राणायामैद्वदिशभिरुत्तमैर्धारणा मता ।
योगस्तु धारणे द्बे स्याद्योगीशस्तं सदाऽभ्यसेत् ॥३४॥

एतत्फलमाह-
एवं यः कुरुते राजंस्त्रिकालज्ञः स जायते ।
अनायासेन तस्य स्याद्बश्यं लोकत्रंय नृप ॥३५॥

वश्यं लोकत्रयं नृपेत्यन्तेन योगफलमुत्त्वा संन्यासशब्दितस्य
तत्फलस्य ज्ञानस्य फलमाहार्धेन-
ब्रह्मरुपं जगत्सर्वं पश्यन्ति स्वान्तरात्मनि ।
संन्यासिनस्तु स्वस्यान्तरात्मनि ह्रत्पुण्डरीकान्तर्गते हार्दाकाशाख्ये
ब्रह्माणि ब्रह्मरुपं प्रत्यगनन्यस्वरुपं सर्वं जगत्पश्यन्ति ।
तदिदं ज्ञानफलमुक्तम्। एवमुक्तयोर्ज्ञानफलयोरभेदात्तयोरप्यभिन्नत्वमित्याह-
एवं योगश्व संन्यासः समानफलदायिनौ ॥३६॥

योगज्ञानयोरन्यतरेण मार्गेण मां ज्ञात्वा मुक्तो भवतीत्याह-
जन्तूनां हितकर्तारं कर्मणां फलदायिनम् ।
मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ॥३७॥

ॐतत्सदीति श्रीमद्नणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ- शास्त्रे
श्रीमददिगणेशपुराणे श्रीगजाननवरेण्यसंवादे द्वैसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥४॥

श्रीचातुर्धरभणितौ गणेशगीता-
टीकायां गणपतिभावदीपिकायाम् ।
गम्भीरप्रततसदर्थदर्शिकाया-
मध्यायः स्फुटह्रदयोऽभवच्चतुर्थः ॥४॥

इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधर्चतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य
कृतौ गणेशगीताटीकायां गणपतिभावदीपिकायां द्धैधसंन्यासयोगी नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : February 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP