श्री गणेश गीता - अथ दशमोऽध्यायः

श्रीमद्‍गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.


सुभक्तित इत्यमभक्तेरात्मदर्शनार्थत्वमुक्तं तत्र विपक्षपरिहारार्थं दशमाध्यायमारभते तत्र स्वयमेव करुणया गजानन उवाच-
दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाव्‍ ।
तासां फलानि चिह्रानि संक्षेपात्तेऽधुना ब्रुवे ॥१॥

तत्र फलानि तावदाहर्धेन-
आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।
चिह्रं ब्रवीमि चाऽऽघायास्तन्मे निगदतः शृणु ॥२॥

उक्तमेवाऽऽह-
तेजोऽभयमहिंसा च क्षमा शौचममानिता ।
अपैशुन्यं दयाऽक्रोधोऽचापल्यं धृतिरार्जवम् ॥
इत्यादिचिह्रमाधाया आसुर्याः शृणु सांप्रतम् ॥३॥

तदेवाऽऽह-
अतिवादोऽभिमाश्व दर्पोऽज्ञानं सकोपता ।
एवमाद्याने चिह्रानि आसुर्याः प्रकृतेर्नृप ॥४॥

राक्षसीं संपदमाह सार्धश्लोकपञ्चकेन-
निष्ठुरत्वं मदो मोहोऽहंकारो गर्व एव च ।
द्वेषा हिंसा दया क्रोध औद्धत्यं दुर्विनीतता ॥५॥

अभिचारिकर्तृत्वं क्रूरकर्मतिस्तथा ।
अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता ॥६॥

निन्दकत्वं च वेदानां भक्तानासुरद्विषाम् ।
मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ॥७॥

पाखण्डवाक्ये विश्वासः संगतिर्मलिनात्मनाम् ।
सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु ॥८॥

अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ।
परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ॥
इत्याद्या बहवश्वान्ये राक्षस्याः प्रकृतेर्गुणाः ॥९॥

राक्षसीं प्रकृतिं श्रिताः स्वर्गेऽपि ते वसन्तीत्याह-
पृथिव्यां स्वर्गलोके च परिवृत्य वसन्ति ते ।
मद्धक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ॥१०॥

इतो धर्मतस्तामस्याः संपदः फलमाह-
तामसीं ये श्रिता राजन्यान्ति ते रौखं ध्रुवम् ।
अनिर्वाच्यं च ते दुःखं भुञ्जन्ते तत्र संस्थिताः ॥११॥

दैवान्निःसृत्य नरकाञ्जायन्ते भुवि कुब्जकाः ।
जात्यन्धाः पङवो दीना हीनजातिषु ते नृप ॥१२॥

पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।
उत्पतन्ति हि मद्धक्ता यां कांचिद्योनिमाश्रिताः ।
लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मैश्व भूमिप ॥१३॥

तस्मादेवंविधा भक्तिर्महाफला, अतोऽतिदुर्लभेत्याह-
सुलभास्ताः सकामानां मयि भक्तिः सुदुर्लभा ॥१४॥

विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा ।
अहं हन्ता अहं कर्ता अहं भोक्तेतिवादिनः ॥१५॥

अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी ।
एताद्दशी मतिर्नृणामधः पातयतीह तान् ॥१६॥

तस्मादेतत्समुत्सृज्य दैवीं प्रकृतिमाश्रय ।
भक्तिं कुरु मदीयां त्वमनिशं द्दढचेतसा ॥१७॥

भक्तेरपि त्रैविध्यमाह-
साऽपि भक्तिस्त्रिधा राजन्सात्त्विकी राजसीतरा ।
यद्देवान्भजते भक्त्या सात्त्विकी सा मता शुभा ॥१८॥

राजसीभक्तिमाह-
राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।
यद्यक्षांश्वैव रक्षांसि भजते सर्वभावतः ॥१९॥

तामसीं भक्तिमाह द्धाभ्याम्-
वेदेनाविहितं क्रुरं साहंकारं सदम्भकम् ।
भजन्ते प्रेतभोतादीन्कर्म कुर्वन्ति कामिकम् ॥२०॥

शोषयन्तो निजं देहमन्तःस्थं मां द्दढाग्रहाः ।
तामस्येताद्दशी भक्तिर्नृणां सा निरयप्रदा ॥२१॥

अध्यायार्थमुपसंहरंस्तात्पर्यमाह-
कामो लोभस्तथा क्रोधो दम्भश्वत्वार इत्यमी ।
महाद्वाराण्यवीचीनां तस्मादेतांस्तु वर्जयेत् ॥२२॥

ॐ तत्सदिति श्रीमद्धणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे उपदेशयोगो नाम दशमोऽध्यायः ॥१०॥

श्रीचातुर्धरभणितौ गणेशगीताटीकायां गणपतिभावदीपिकायाम् ।
गम्भीरप्रततदर्थर्शिकायामध्यायः खलु दशमः स्फुटाशयोऽभूत‍ ॥
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायामुपदेशयोगो नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : February 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP